________________
१०८
प्रमाणसङ्ग्रहे
[कारि० ४१. नुपकारः । तथा नित्यानां परस्परतो हेतुफलाभावः । निर्व्यापारेषु व्यापारसमारोपः क्रमयोगपद्यासम्भवो न कारकज्ञापकव्यवस्था पारमार्थिकी। तदाकस्मिकत्वे देशकालस्वभावनियमायोगः । इष्टविघातकृतदे (कृदे) कस्य पूर्वापरस्वभावपरिहाराऽवाप्तिनान्तरीयकत्वादर्थसिद्धेः, इत्यनिश्रि (श्चि) तविपक्षव्यावृत्तिरनैकान्तिकः । कौटस्थो 5 (स्थ्ये) विक्रियाविरोधः । क्षणिकत्वे सर्वथानन्वयः । जात्यन्तरे वितर्कयतः सम्मोहः । कृतकत्वादिषु समानश्चर्चः ।।
जात्यन्तरोपलम्भन कथश्चित्सकलग्रहः ॥४१॥
अतर्का (त्का) र्यव्यवच्छेदेऽप्यर्थमात्रोप्र (प) योगतः।
$ ४१. स्वतो व्यतिरेके न उपाधयः स्युरि (र) तिप्रसङ्गात् । तथा दृष्टे प्रमा10 णान्तरवृत्तिर्न, एकोपावि(पाधि)प्रतिपत्तेः श(स)कलग्रहनान्तरीयकत्वात् । अन्यथा
अनवस्थाप्रतीतिः। समारोपव्यवच्छेदे समानः प्रसङ्गः तत्परिच्छेदाऽविशेषः । इतरथा विपक्षानतिशायनात् । स्वतो निर्णयस्य अतद्धेतुफलापोहनिर्णयः, स्वविषयनिश्चययोरविनाभावः, परतोऽनवस्था च । नहि निर्णयम्य स्वरूपमन्यदपि निर्णयात् ।
स पुनः अवश्यमात्मानं व्यवसाययत् (यन् ) सकलं न्यायविषयीकरोति । सर्वथा 15 तदतद्धान्तिविच्छेद एकत्र निश्चयसमारोपविघातात् , तदेतदपि गण्डूपदभयाद् अज
गरमुखकुहरपरिपतनमनुसरति । तस्मान्न भेदाऽभेदप्रतिपत्तिः उभयत्र व्याघाता [त । क्वचिदनयोरवाच्यतायां तद्वैकल्यम् । अतो न दृष्टाद् गरिष्ठमिष्टम् ।
$ ४२. प्राणादीनाम् अन्यथानिश्चितं सत्त्वं विरुद्धमचलात्मनि । स्वयमदृश्येऽपि न्यायस्य प्रविजृम्भणात् । प्रभवाभावविरोधप्रसिद्धिः व्याधिभूतग्रहादिवत् । 20 अतः साकल्येन चलनोनान्यः (१) तादृशो विप्रतिषेध इत्यनभि (भिनि) निबोधनकान्ति
कत्वम् । अदृश्यानुपलम्भादभावाप्रसिद्धेः घटादीना(नाम्) नैरात्म्यासिद्धौ प्राणादेरनिवृत्तिः इति तमासा (तमसो) नैपुण्यात् ।
४३. चलानां तनुकरणभुवनादीनां सन्निवेशादेः अन्यथा निर्णीतं सर्व (सत्त्वं) विरुद्धमचलात्मनि। विप्रकृष्टेऽपि न्यायस्य विजृम्भणम्। परिणामिनि संशयः। 25 सिद्धः संस्थानादिविवादास्पदे तथा प्रत्यवमर्शनाभिधानमात्रम् । विशेषकल्पनायामतिप्रसङ्गः । तादृशज्ञानपूर्वकत्वाभावेऽप्यविरोधादनैकान्तिकः ।।
४४. चलानां चक्षुरादीनां सनिवेशादेः अन्यथा निर्णीतं सत्त्वम् इष्टविघातकृत अचलात्मनि। परिणामिनि संशयः । संहतानां पारार्ष्या (W) नियमा
भावः । कार्यकारणयोः भेदैकान्ताऽसिद्धेः। 30 ४५. चलानां शब्दादीनां सन्निवेशादेः सत्त्वं विरुद्धमचलात्मनि । प्रधान
पुरुषादौ परिणामिनि संशयः । कार्यकारणानामन्वयादेरनेककारणपूर्वकत्वे सम्भवः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org