________________
कारि० ३६-४०.] ५. पञ्चमः प्रस्तावः विभ्रमेऽपि वस्तुमात्रोपग्रहे व्यक्तमनेकान्तसिद्धिः, इति साकारौ विषय-विषयिणौ स्याताम् । एवं हि कालादिव्यवहितात्मपर्यायसमुपग्रहे परत्र का प्रतिघातः? व्यामोहविच्छेदाविशेषण अन्तस्तमोविगमे बहिरकारणं संस्कृतेन्द्रियवत् । मूच्छितादौ बहिरङ्गसाकल्येन अन्तरङ्ग बलीयस्त्वम् । तदतत्कायेविच्छेदमुपैति न तत्वपरिच्छेदमिति स्वरुचिविरचितदर्शनप्रदर्शनमात्रम् । तत्समारोपविधिप्रतिषेधयोरतादात्म्ये प्रकृतमकृत (तं)। स्यात् । समानपरिणामरहितानां (ना) मतत्कायेव्यावृत्ती समानप्रत्ययः चक्षुरादिवत् । समे समविकल्पजनकत्वे क्वचित् परामर्शनियमः तादृशो दर्शने सामान्यस्य तैरप्याश्रयणीयत्वम् , अर्थक्रियाविरोधः, कल्पनागौरवतो जातिलक्षणसंवृतेः। स्वसामान्यलक्षणयोर्भेदाभावे प्रत्यक्षतरयोरतादात्म्येऽप्यनवस्थादिदोषानुषङ्गः । सविकल्पः सिद्धः तदन्यविधिप्रतिषेधविषयमनुमानम् ।।
अप्रत्यक्षेऽपि देहेऽस्मिन् स्वतन्त्रमवभासनात् ॥३६॥ प्रत्यक्षं तद्गुणो ज्ञानं नो जातिस्मरदर्शनात् । सत्यं तमाहुर्विद्वांसो विद्यया विभ्रमेण यः ॥३७॥ यथार्थमयथार्थस्या (थं वा) प्रभुरेषोऽवलोकते। तुलोन्नाम-रसादीनां तुल्यकालतया नहि ॥३८॥ नाम-रूपादिहेतुत्वं तादात्म्यं सहचारतः। अन्वयोऽन्यव्यवच्छेदो व्यतिरेकः स्वलक्षणम् ॥३९॥ ततः सर्वा व्यवस्थेति नि (नृ) त्येत् काको मयूरवत् ।
10
15
इति प्रमाणसङ्ग्रहे चतुर्थः प्रस्तावः ॥छ॥
५ पञ्चमः प्रस्तावः ।
20
अन्यथानिश्चितं सत्त्वं विरुद्धमचलात्मनि ॥४०॥ निर्व्यापारो हि भावः स्यान्नित्यत्वे वा निरन्वये।
$ ४०. साध्याभावसम्भवनियमनिर्णयैकलक्षणो विरुद्धो हेत्वाभासः, यथा नित्यः शब्दः सत्त्वात् इति । सर्वथा [s] विचलितात्मनः क्वचिदनुपयोग [:]। कस्यचिद्भावे स्वयमनायासयतो भावान्तराऽविशेषिणोऽभावाविशेषसन्निधानेऽप्य- 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org