________________
१०६
प्रमाणसङ्ग्रहे
[कारि० ३२-३५. स्वभावविरुद्धव्याप्यव्यापककार्यकारणोपलम्भानुपलम्भप्रयोगभेदाः प्रत्यक्षेऽपि विवादवृत्तयो निर्णये नियमेन परीक्षामपेक्षन्ते । तदर्थसाधनं सर्वत्र ज्ञानशब्दव्यवहारसाधनम् ।
अध्यक्षस्यापरीक्षत्वादनुमानं (न) परम्परा । अविनाभावसम्बन्धेऽप्यन्ताप्त्याऽवतिष्ठते ॥३२॥
३६. बहिर्दर्शनादर्शने धर्मिधर्मस्य न लिङ्गिलक्षणं तन्दुलपाकादिवत् । तनैतावता व्याप्तिः अन्यत्र विचारात्, यतो व्यापकं निवर्तमानं व्याप्यं निवर्तयेत् । कस्यचिदवग्रहमानं नित्यानित्ययोः विरोधाऽविरोधात् नियम न परीक्षते अतिप्रस
ङ्गात् । तदनुमानपरम्पराऽपि अनवस्था । परस्य दर्शनपाटवादिमतः स्वतो विवेच10 कत्वाद् विप्रतिपत्तिनिवृत्तिः । अविषयेऽन्यस्यावृत्तिः। तदाश्रयत्वाच्च सर्वत्र दृष्टान्तो नावश्यं बहिः।
अपेक्षः सदनै(ने)कान्तं सम्पश्यद्विः (द्भिः) समीक्षकैः ।
अन्यथायोगतः सर्व [:] तथैवेत्यनुमीयते ॥३३॥
$ ३७. साध्यसाधनयोः स्वभावप्रतिबन्धे साक्षात्कृतेऽपि साकल्येन व्याप्तिः 15 परीक्षातः। तद्विभ्रमकल्पनायां प्रकृतमकृतं स्यात् । तदाभासाविशेषे कादाचित्कसंवादस्याप्रतिबन्धेऽपि सम्भवत्स्वलक्षणयोगे व्यभिचारः, समीक्षाकारिणः पुनरविप्रतिसारः। तत्र सर्वत्र विभ्रमोपलम्भो [5] विशेषात् । सतामेकान्तानेकान्तविच्छेदपरिच्छेदयोरभेदप्रत्यनीकस्वभावविधिप्रतिषेधप्रतिबद्धे ।
प्रत्यक्षस्यापि सामग्रीप्रतिभासविशेषतः ६३८. मतिश्रुतयोः प्रतिभासभेदेऽपि परमार्थंकतानत्वम् । सामग्रीभेदे प्रत्यक्षवश्वांस (वत्स्वांश) मात्राभिनिबोधे नान्यार्थोऽन्यव्यवच्छेदः। अविषये स्वयमप्रवृत्तेः। अयथार्थात्मावभासविच्छेदः परोक्षमात्मानं कथञ्चिद् विदधतो विच्छेदेन बहिरर्थावलम्बनम् असाधारणनिर्भासविरहिणोऽपि अविरुद्धम्।
ज्ञस्य विभ्रमसंश्लेषे कथञ्चिद्धान्तिरात्मनि ॥३४॥ सर्वथा विभ्रमे तस्य विभ्रमोऽपि न सिद्धयति । यथा विभ्रमविच्छेदाजानात्यन्तरितं स्वयम् ॥३५॥
तथाऽर्थजातिधर्माणां तत्र सम्प्रतिपत्तितः। ६३६. चेतनस्य सतः कथाश्चत्स्वभावाप्रतिपत्तौ न वै निमित्तान्तरमन्यत्र विभ्रमात् । अन्यथा सुप्तप्रबुद्धाविशेषप्रसङ्गमु (ङ्गः। उ) पलक्षितसुखादिविज्ञानस्वल30 क्षणक्षणक्षयादिविशेषानुपलक्षणे दुरासन्नादिदेशस्थपुरुषकविषयोपलम्भवत् । क्वचिद्
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org