________________
१०५
15
कारि० ३०-३१.] ४. चतुर्थः प्रस्तावः
तथा [s] सद्व्यवहाराय स्वभावानुपलब्धयः। $ ३३. स्वभावानुपलब्धिः-यथा न क्षणक्षयैकान्तोऽनुपलब्धेः। नहि बहिरन्तर्वा भेदनिर्भासविवेकः । परमाणुवच्छल (वत्स्थूल) स्य कस्यचित् प्रतिभासे तदाभासविरोधः । कार्यानुपलब्धिः-अत्र कार्याभावात् । सति तादृशे कार्य यदि अक्रमःप्र(मप्र) सङ्गः। कारणानुपलब्धिः -अत्रैव कारणाभावात् । नाशसमकालकार्यकल्पनायां 5 पश्चादपि असतोऽविशेषात् । समनन्तरभावेऽपि अतिप्रसङ्गः। विशेषव्यवस्थायां तादात्मा (त्म्या) सिद्धिः । उपादानप्रक्लप्तैः (प्तौ) प्रत्यभिज्ञादिहेतोः कोऽपरोऽतिशयोऽन्यत्र परिणामात् । स्वभावसहचरानुपलब्धिः-नात्रात्मा रूपादिविशेषाभावात् । तादृशो [5] विवेके कथं दाहादिसाहसमाचरेत् प्रेक्षापूर्वकारी ? सहचरकार्यानुपलब्धिः-अत्र व्यापारव्याहारविशेषाभावात् । निवृत्तिप्रतिबन्धयोः विशेषानुपलक्षणे 10 पुनरविविक्तं स्यात् । सहचरकारणानुपलब्धिः -अत्रैव आहारमा ( राऽभा ) वात् । स विचित्रः शरीरस्थितिहेतुर्विज्ञेयः। परिणामि-सहकारिकारणयोः तदविशेषेऽपि तादात्मो(त्म्ये) तदभेदेऽपि युगपद्भाविनामजन्यजनक [क] सहभावनियमः । स्वापदोन(स्वोपादान ) सहकारिविवर्तविकल्पे प्रतिबन्धनियमे किं परस्प (रम्प) रया नियमहेतुना ? तदन्यत्रानिवारणे स्वभावान्तरवत् । ____सवृत्तिप्रतिषेधाय तद्विरुद्धोपलब्धयः॥३०॥
३ ३४. नानुपलब्धिरेव अभावसाधनी। यथा स्वभावविरुद्धोपलब्धिः -नाबिचलितात्मा भावः परिणामात् । स्थितिस्वभावैकान्तस्य स्वभावपरिहारविरोधः । स्वतो [5] नश्वरत्वे कौटस्थ्यप्रसङ्गः । कार्यविरुद्धोपलब्धिः-न लक्षणविज्ञानं प्रमाणं विसंवादात् प्रमाणान्तरापेक्षणे । कारणविरुद्धोपलब्धिः -नास्य परीक्षाफलम् अभावैकान्तयह- 20 णात । संवृतिवादेऽपि समीक्षाविरोधः।
व्याप्यव्यापकयोरेवं सिद्धयसिद्धी विचारतः।
सदसयवहाराय तत्त्वान्यत्वविवेकतः ॥३१॥
$ ३५. सर्वत्र व्याप्यसिद्धिरविशेषेण व्यापकसाधनी । यथा [s] नित्यं कृतकत्वात् । परिणामाभावे तदनुपपत्तिः । तथा व्यापकस्यानुपलब्धिः व्याप्यवि-25 निवर्तनी । न निरन्वयविनाशो भावस्य अत्यन्ताभावानुपलब्धेः । इति स्वभावसहचरकार्यकारणभेदपरिग्रहः । स्वभावविरुद्धव्याप्तोपलब्ध्योः व्यापकानुपलब्धौ अन्तर्भावः । न नित्यः कृतकत्वात् , अकृतकत्वासिद्धिः (द्धेः)। अविशेषेण स्वभावविरुद्धकार्यो (र्या) नुपलब्ध्योः कार्यानुपलम्मे । तत्र प्रयत्नानन्तरीयकत्वात् इति नापरो हेतुरनुपलम्भात् । उपलब्धेर्वा अन्योन्यविवेकोपलम्भलक्षणत्वात् । अनयो 30 [:] स्वभावविरुद्धोपलब्ध्योरनुपलम्भलक्षणत्वात् । अन्योपलम्भोज्नुपलम्भः । १४
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org