SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ १०४ प्रमाणसमहे [कारि० २६. ४ चतुर्थः प्रस्तावः। अन्यथा [s] सम्भवो ज्ञातो यत्र तत्र त्रयेण किम् ? । ६३१ अनित्य आत्मादिः शरीरादेरनित्यत्वात् । नहि तत्परिणाममन्तरेण तद्विकारित्वं युक्तमिति । एतावता यदि प्रतीतिः किं साध्यधर्मकल्पनया धर्मा5 न्तरत्वात् १ उदेष्यति शकटम् उद्गाद्भरणिः कृत्तिकोदयादिति । कालादिधर्मिकल्पनायामतिप्रसङ्गः। शब्दानित्यत्वे चाक्षुषत्वादिरपि सिद्धः (?)। सात्मकं या (जी) वच्छरीरं प्राणादिमत्त्वादिति । चैतन्योपयोगादन्यत्रावृत्तौ सुषुप्तादिषु दर्शनादयुक्ता वृत्तिः। न शरीरपरिणामः तदप्रत्यक्षे (क्ष) त्वे प्रत्यक्षः। तथाऽपरिणामिनः तद्गुणत्वे अनवस्था । सहभावनियमेऽपि अन्योन्यव्यपेक्षातोऽनादिसम्बन्धप्रसङ्गः, तदुभयत्रा10 विशेषात् । पूर्वाभ्यस्तस्मरणाविनाभाविनः क्वचिद् गुणान्तरस्य लिङ्गतो जातिस्परसंवा देन निरंशस्य विग्रहव्याप्तिविरोधः । नानात्वे पुनरसम्सवः, प्रभवस्मृतिप्रत्यभिज्ञाचं (दि) विघातः। तथापरिणामे सकलदोषनिवृत्तिरित्यात्मभावसिद्धितः किमन्वयेन शब्दपरिणामे श्रावणत्वादिवत् ? पूर्वापरस्वभावपरिहारावाप्तिलक्षणत्वाद् । उपाधि प्रतिषेधे कृतकत्वादि वैश्वरूप्यं सत्ताव्यतिरिक्तं मा भूत् । सर्वस्य सतः तथा विप्रतिपत्तौ 15 एकत्रानन्वये कथमुपसंहरेत् ? तद्विशेषानाक्षेपे किं साधनम् ? एकलक्षणानुपलक्षणे कार्यादेरगमत्व (मकत्वम्)। वचनपुरुषत्वानुपलब्धीनां क्वचिद् रागादि-सर्वज्ञताभावसाधनसामर्थ्यवैधुर्य (ये) व्याप्तिविशेषः कोऽपरोऽन्यथा [s] सम्भवात् । सत्प्रवृत्तिनिमित्तानि स्वसम्बन्धोपलब्धयः॥२९॥ ६३२. स्वभावोपलब्धिः-यथा अस्त्यात्मोपलब्धेरिति । ज्ञानस्वभावपरिणा20 मिनो विग्रहव्यापिन ( नः) स्वसंवेदनेऽन्यवेदनम् । नहि सुखादयो भेदिनः संविद्रते तथा [s] निर्णयात् । विभ्रमकल्पनातो नान्योन्यमतिशयाते । स्वभावकार्योपलब्धिःअभूदात्मा स्मरणात् । सत्यपि प्रभवसास्या (वस्या) तिशये तदसम्भवः, जन्यजनकवद् विसदृशपरिणामेऽपि बालवृद्धवत् । स्वभावकारणोपलब्धिः-भविष्यति आत्मा सत्त्वात् । स्वभावान्तरपरिणामात्मकं भावलक्षणम् । सकलशक्तिविरहिणो निरुपा25 ख्यत्वम् । स्वपरिणामविकलस्य परत्रासामर्थ्यम् । सहचरोपलब्धिः अस्या (अस्त्या) त्मा स्पर्शादिविशेषात । तादृशं लोको विवेचयति । सहचरकार्योपलब्धिः -अत्र वचनात कायव्यापारः। अन्वयव्यतिरेकानुविधानं सहचारिणो व्यापारे साधकतमत्वम् । सहचरकारणोपलब्धिः -सकल आत्मा शरीरावयवभेदात् । तद्वृत्तिनान्तरीयकः संयोगः कार्यकारणयोः तथापरिणामः । तादृशः क्रमवृत्तेरप्रतिघातः । नानात्वेऽप्रति30 सन्धानम् । एकस्य कालदेशान्तरव्यापित्वं प्रतिभासभेदेन रूपेतरयोर्दर्शनात् । दर्शनवत्तद्वत्तौ तथा संश्लेषे सर्वथाऽसम्बद्धः प्रसङ्गः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002504
Book TitleAkalanka Granthtrayam
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherZZZ Unknown
Publication Year1969
Total Pages390
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy