________________
१०३
कारि० २४-२८.]
३. तृतीयः प्रस्तावः खलक्षणमसङ्कीर्ण समानं सविकल्पकम् ।
समर्थ खगुणैरेकं सहक्रमविवर्तिभिः ॥२४॥ 8 २८. उदयस्थितिसंहारलक्ष [ण] स्य सतः प्रतिभासादिभेदाभेदाभ्यां भेदाभेदप्रसिद्धिः, आत्मप्रतिबन्धेन तथा परिणामात् संशयविरोधवैयधिकरण्योभयदोषप्रसङ्गाऽनवस्थासङ्कराभावकल्पनाम् अन्योन्याविवेकप्रतीतिः अतिशेते । जात्यन्त-5 राधिगमे मेचकादिवत् सत्यपि वैश्वरूपे तथापरिणामेन समानशक्तीनामेकत्वम् । तेनैव तत्समं कर्त्तव्यमिति नियमाभावात् । नहि सहकारिणां शक्तिसङ्करः। व्यक्तिवदेकैकस्य सकलशक्तियोगे सहकारिकारणापेक्षा मा भूत् । समग्राणां तदेकामिव्यक्ती युक्तः तदेककार्यः प्रादुर्भावः। प्रधानपुरुषयो [:] शक्तिसङ्करप्रसङ्ग [:] । गुणानाश्च न कर्तृत्वम् , अन्यत्राभिव्यक्तेः । तदिमे सामान्यविशेषात्मानो न सङ्कीर्यन्ते । 10
विज्ञानस्यैकरूपत्वे विज्ञेयस्याऽविशेषतः।
$ २६. 'प्रतिभासभेदेऽपि बुद्धेरेकत्वम्' इति विरुद्धं पश्यामः। सर्वस्यैकांशमात्रानुषङ्गः संवित्स्वभावस्य ते तथोत्पत्तिरेव संवेदनम् , अन्यथा एकत्रापि 'क्षणिकत्वविज्ञप्तिमात्रता सन्तानान्तरविवेक' इति न स्वतो नान्यतः। वितथनिर्भासाऽविशेषे वृक्षादिदर्शिनः स्वांशमात्राविग्रहविकल्पैर्न तत्त्वप्रतिपत्तिव्यापारव्याहारप्रतीतिः। विमवेऽपि 15 सर्वथा विभ्रमे विभ्रमासिद्धिः । अनेकात्मकत्वे बाह्यार्थे कोऽपरितोषः ? सर्वथा विरोधपरिहारस्य कर्तुमशक्तेः। स्वसंवेदनमात्रस्य कदाचिदनुपलम्भे यथोपलम्भं विप्रतिषेधेन शून्यताप्रतिपत्तेरशून्यतानुषङ्गः । तथाहि
नाभावस्य प्रमेयत्वं न भावस्याऽप्रमेयता ॥२५॥ ६३०. सर्वथा सतः प्रतीतौ अनिवृत्तिः । असदुपलम्भो विप्रतिषेधः । अर्थाभा- 20 वविकल्पस्य स्वविषयत्वम् । कस्यचित् कैवल्यमपरस्य वैकल्यम् । तदेतत् प्रमेयत्वमवितत्त्व (थ) प्रत्ययात्मकं प्रमातरि प्रत्यक्ष प्रमेयधर्मतया तदधिगमयोग्य स (स्व) भावः, परोक्षं च । विषयद्वैविध्येन सद्व्यवहारलक्षण प्रमेयमेव । सर्वत्र सर्वथा भावे विरोधः।
परापरविभागैकपरिणामविशेषतः। तान्येव पश्यन् प्रत्येति शाखा वृक्षेऽपि लौकिकः ॥२६॥ 25 प्रमाणमात्मसात्कुर्वन् प्रतीतिमतिलवयेत् । वितथज्ञानसन्तानविशेषेषु न केवलम् ॥२७॥ तत्र चित्रं भवेदेकमिति चित्रतरं ततः। चित्र (त्र) शून्यमिदं सर्वं वेत्सि चित्रतमं ततः ॥२८॥
इति प्रमाणसङ्ग्रहे तृतीयः प्रस्तावः ॥छ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org