________________
१०२
10
प्रमाणसङ्ग्रहे
[कारि० २०-२३. [s ३. साध्यं शक्यमभिप्रेतमप्रसिद्धं ततोऽपरम् ।। ___ साध्याभासं यथा सत्ता भ्रान्तेः पुरुषधर्मतः ॥२०॥]
$ २३. साध्यं शक्यमभिप्रेतमप्रसिद्धम् । अव्युत्पत्तिसंशयविपर्यासविशिष्टोऽर्थः साध्यः । तत्र साधनसामर्थ्यम् । यथा सर्व सामान्ये (न्य) विशेषात्म5 कमिति । ततोऽपरं साध्याभासम् । यथा सत्ता, सदसदेकान्तयोः साधनासम्भवः, तदतदुभयधर्माणामसिद्धविरुद्धानैकान्तिकत्वम् । भ्रान्तेः पुरुषधर्मतः विप्रतिपत्तयः सदसत्प्रमाणप्रमेयैकान्तात्म (त्मा ) नो बहुप्रभेदाः प्रतिपत्रभिप्रायाणां निरङ्कुशत्वात् ।
साधनं प्रकृताभावेऽनुपपन्नं यथा सति। . प्रमेयत्वं निरंशानां प्रतिभासविरोधतः ॥२१॥
२४. साध्यार्थाऽसम्भवाभावनियमनिश्चयैकलक्षणो हेतुः, सर्वमनेकात्मकं प्रमेयत्वात् । नहि चक्षुरादिज्ञानमन्यद्वा स्वभावान्तरविवेकेन ज्ञारुचिदे (जातुचिदे)कमाकारं विषयीकरोति । परस्परविश्लेषिणामणूनां भवतामप्यनुपलम्भः । विप्रतिषिद्धं तादृशां वर्तनं सम्बन्धासिद्धेः, पृथक्सिद्धिप्रसङ्गः। शकला (सकला) वयवोपलम्भा15 सम्भवे तदग्रहः, तदवयवान्तरदर्शनादर्शनविरोधः।
विश्वं सर्वगतं सत्त्वं व्यक्तं चेद् व्यक्तिभिः स्फुटम् ।
६२५. एकमक्रमं सर्वव्यक्तिसामान्यमन्यतमाभिव्यक्त खाश्रये यदि सतुप्र (सत्प्र) त्ययहेतुरविशेषेण सकलं सदै (दे) व प्रमेय (यम्) तद्विशेषे खभावहानिः।
सर्वस्वाश्रयसम्बन्धे सामान्यं स्यात् प्रदेशवत् ॥२२॥ 20 २६. यदि सर्वगतं सामान्यं सर्वत्र विशेषप्रत्यस्तन (म) ये प्रत्ययसङ्करः । स्वाश्रयव्यापित्वे तथाऽनेकत्वम् । का श्र विरिणो (आश्रयविरहिणोऽ) वस्तुत्वम् । आश्रयाश्रयिभावोऽभिव्यक्त्यनभिव्यक्ती सत्प्रत्ययकत्तृत्वाकर्तृत्वे सहकारिकारणापेक्षाविशेषतो निष्कलस्य युगपदनेकत्र वृत्तिः इति दुरन्वयम् । सतोऽपि तदाश्रयादर्शने
दर्शने च सावयवत्वम् ।। 25 एकं चलं चलैर्नान्यैर्नष्टं नष्टैर्न चापरैः।
आवृत्तै (तै)रावृत्तं (तं) रूपं रक्तं रक्तैर्विलोक्यते ॥२३॥ 8 २७. विचित्रावयवात्मकमेकं बहिरन्तश्च कैश्चिदेव आत्मभूतैः अन्यैश्च मात्राभेदैश्चलमचलम् , विनष्टमविनष्टम्, आवृतमनावृतम् , रक्तमरक्कम्, उपलम्भा
नुपलम्भयोग्यं नापरैः, अनवस्थाप्रसङ्गः । तेनैव तदात्मकं युक्तं येनातिशयेन 80 वस्त्वन्तरं समवैति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org