Book Title: Akalanka Granthtrayam
Author(s): Bhattalankardev, Mahendramuni
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 265
________________ १२० प्रमाणसङ्ग्रहे [ कारि० ६७, , लक्षणम् अन्तर्ज्योतिर्मयम् अनादिनिधननिर्भासमात्मीयतत्त्वम् अर्थान्तरानपेक्षं चैतन्यवत्, मोहादिसम्बन्धान्वयस्व (व्य ) तिरेकानुविधायिनः तादृशोऽज्ञानादयः तिमि रादिवत् स्वहेतुप्रतिपक्षपाटवे निवर्तेरन् । आलोकादयो दोषसंश्लेषविश्लेषहेतवः अण्ज [] नादिवत्, न्मा (मा) र्गाविगमाद् दूरेऽयोग्यानां परिनिवृत्तिः । साध्यसाधनमिथ्या5 सङ्कल्पाभिनिवेशो निसर्गतः पापीयान् यथा आत्मज्ञस्वभावस्य व्यतिरेकिणी बुद्धि: अपरिणामिनोऽर्थोपलम्भेऽकर्तुः करणतया संविद्विषयं व्यवस्थापयन्ती स्वयमन्वयव्यतिरेकौ संसारमोक्षौ अनुया (मा) पयति । सर्वथा विशिष्टा गुणसम्बन्धविवेकतः पुरुषार्थसिद्धिरिति परस्परविरुद्वम् । तादृशो भावान्तराविशेषः । सत्त्वादिसामान्यगुणसम्बन्धेन चेतनानिवृत्तिरन्तःकरणसन्निधावदृष्टकल्पना अनवस्था, सामान्यविशेष10 समवायव्यपदेशे चेतनाव्यतिरेकेणात्मा मा भूदुपयोगलक्षणातिरेकतो अचेतनादिवत् । परस्परपरिहारस्थित (ति) लक्षणतया चेतनेतरात्मनोः चेतनेतरसमवायिविवेकतः समधिगमः परं निर्वाणम् । $ ७४. स्वांशमात्रविषयेन (ण) निरंशपरमार्थेन सर्वथान्या (न्य ) वेद्यविरोधे परदुःखमजानतः करुणैव तावन्न भवेत् । विभ्रमतो भावे विभ्रमो न स्यात् । दुःखविन15 श्वरस्य भावोपलम्भेऽपि सिद्धसाधनी [य] परतन्त्रो देवानांप्रियः । सन्तानाभावसाधने समानः प्रसङ्गः । प्रभवसादृश्यप्रत्यासत्तेः अन्यथाभावः स्वपूर्वापर स्वभावमतद्धेतुफलव्यावृत्तं मानसं तच्त्वं तत्परं विच्छिनत्ति स्वयमुपेक्षमाणः कृपात्यु ( कृपालु ) रिति कष्टमनात्मज्ञता परिगतं तमः । तदीदृशे संज्ञान्तरविकल्पेऽपि स्वपरसन्तानभावनया क्वचिदुपकारापकारसङ्कल्पहेतवः स्नेहादयः प्रवर्त्तेरन् । भेददर्शने सङ्कल्पाभावकल्पनायां 20 संज्ञान्तरसमावेशे ममः समाधिः । आत्मवतां विशेषतः तत्स्वभावगुणदोषविवेकतो हिताहितप्राप्तिपरिवर्जनं यथा विपरीतचेतसां सकलदोषसन्ततयः कारणपरतन्त्रेऽपि कार्यजन्मनि तत्करणनियमवैधुर्य (र्ये) सङ्कीर्येरन् । निरभिप्रायवृत्तौ अनिवारणे वंशवत् आदौत्रिलक्षणस्यान्तेऽप्यनन्ता जीवराशयः प्रदीपादेः अन्ते क्षयं (य) दर्शनेनार्थाभावसिद्धिः । एकत्र दृश्यादृश्यस्वभावप्रसिद्धे निर्णयेऽनिर्णयवत्, भावस्वभावोऽयं यत् कथञ्चिद् 25 भवित्येव ( भवत्येव ) मध्यवत् सदैवान्यथा न भवेत्पर्यवसाने परिणामिनः कारणपरम्पराभावप्रसङ्गः । स्वतौ (तो) विवर्त्तशक्तिविरहिणो बहिरङ्गे सुतरामसामर्थ्यम् । उपका [का] रकसन्निधानात् सन्निधानसाम्ये परस्परविवर्तग्रन्थीनां देशकालाद्यपेक्षिणां प्रभवनियमः । तन्निरपेक्षाणां संयोगविरोधः । प्रत्यासद्वि (त्ति) विप्रकर्षविकल्पप्रत्यस्तमयेन व्यवधानेऽपि प्रसङ्गोऽनवस्था च । तदयम् अर्थप्रवृत्तिनिमित्तप्रदेशादिसहचारी 80 विनश्वरविकल्पविषयः निवर्त्ताते ( निवर्त्तते ) न प्रवर्त्तते इति दुस्तरं दौस्थ्यमापद्यते । तादृशः पुरुषपरिणामस्वभावेषु तदभावप्रसङ्गात्तदधिकारे जन्ममरणादिर्मा भूत् । विभ्रमे तद्विकल्पविभ्रमेण विभ्रमोऽपि न सिद्ध्येत् । परिणामे यथा कार्यकारणनानैकत्वं युक्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390