Book Title: Akalanka Granthtrayam
Author(s): Bhattalankardev, Mahendramuni
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 276
________________ लघीयस्त्रयस्य टिप्पणा नि अकलङ्कं जिनं नत्वा तात्पर्येतिह्यतोलनैः । न्यायोsयमाकलङ्को वै विशदीक्रियते मया ॥ पृ० १. पं० ६. 'सन्तानेषु' - सन्तानशब्दोऽयं बौद्ध: अपरामृष्टभेदेषु कार्यकारणभूतेषु पूर्वोत्तर क्षणेषु सम्प्रयुज्यते । स च सन्तानो न पारमार्थिकः कश्चित् मालाङ्गभूतमौक्तिकेषु सूत्रवत् अपि तु " सन्तानः समुदायश्च पङ्क्तिसेनादिवन्मृषा । सन्तानो नाम न 5 कश्चिदेकः परमार्थसन् सम्भवति । किं तर्हि ? कार्यकारणभावप्रवृत्तक्षणपरम्पराप्रवाहरूप एवायं ततो व्यतिरिक्तस्यानुपलम्भात् । तस्मादेतेषामेव क्षणानामेकपदेन प्रतिपादनाय सङ्केतः कृतो बुद्धैः व्यवहारार्थं 'सन्तानः" इति ।" [ बोधिचर्याव० प० पृ० ३३४ । शिक्षासमु० पृ० ३५९ । तत्त्वसं० पृ० ५२३] इत्यादिवचनात् व्यवहारार्थं क्रियमाणः सङ्केतरूप एवायम् । अयञ्च तत्त्वान्यत्वादिविकल्पैरवाच्य एव अवस्तुत्वात् " तत्त्वान्यत्वप्रकाराभ्यामवाच्यमथ वर्ण्यते" इति 10 तत्त्वसङग्रहकारवचनात् [ पु० ५१०] । पृ० १. पं० ८ 'सत्त्वार्थं व्यवतिष्ठते करुणया ' - सम्प्राप्तबोधेरपि बुद्धस्य न सद्यः निर्वाणमपि तु बुद्धत्वसंवर्त्तक कर्मवशात्ते सत्त्वार्थं करुणया तिष्ठन्ति । "तिष्ठन्त्येव पराधीना येषां तु महती कृपा ।" [ प्रमाणवा० २।१९८] “कल्पकल्पास ङ्ख्येयभावनापरिवर्द्धिताः । तिष्ठन्त्येव पराधीना येषां तु महती कृपा ॥" [ अभिसमयालङ्कारालो० पृ० १३४] इत्यादि वचनात् । 15 यथा हि-दर्शन विशुद्धयादिभिः भावनाविशेषैः जैनतीर्थकराः पुराकृतसंसारिजीवोद्धरणाध्यवसायसमुपार्जिततीर्थंकर नामकर्मोदयं यावत् तिष्ठन्ति, देशनया च सन्तर्पयन्ति भव्यजीवान् तथैव - " अनेन पुण्येन तु सर्वदर्शितामवाप्य निर्जित्य च दोषविद्विषः । जरारुजामृत्युमहोर्मिकुलात् समुद्धरेयं भावसागराज्जगत् ।। " [प्रभिसमयालङ्कारालो० पृ० १३२ ] " अनेन चाहं कुशलेन कर्मणा भवेय बुद्धो न चिरेण लोके । देशेय धर्मं जगतो हिताय मोचेय सत्त्वान् 20 बहुदुःखपीडितान् ॥” [ अद्वयवजूस ग्रह पृ० ९] " उत्पादयामि वरबोधिचित्तं निमन्त्रयामि बहुसर्वसत्त्वान् । इष्टां चरिष्ये वरबोधिचारिकां बुद्धो भवेयं जगते हिताय ।।” [ अद्वयवजूसङग्रह पृ० ५] "तीर्णान् तारयिष्यामि अमुक्तान् मोचयाम्यहम् । अनाथान्नाथयिष्यामि स्थापयिष्यामि निर्वृतौ ॥" [ बुद्धवेद पृ० ८२ ] इत्यादिभिः जगदुद्धरणभावनाविशेषैः बुद्धा अपि तादृशं संस्कारविशेषं समुपार्जयन्ति, येन सम्यक सम्बोधिपरिणता अपि अनन्तकल्पं करु- 25 या तिष्ठन्ति देशनया च सन्तारयन्ति भवनिदाघपरिपीडितान् प्राणिनः । Jain Education International पृ० १. पं० १२. 'प्रत्यक्षं विशदज्ञानं' - समग्रेयं कारिका 'तदुक्तमकलङ्कदेवैः” इति कृत्वा प्रमाणपरीक्षायाम् (१० ६९ ) अष्टसहरुयाञ्च ( पृ० १३४) समुद्धृता । " प्रत्यक्षं विशदं For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390