________________
लघीयस्त्रयस्य
टिप्पणा नि
अकलङ्कं जिनं नत्वा तात्पर्येतिह्यतोलनैः । न्यायोsयमाकलङ्को वै विशदीक्रियते मया ॥
पृ० १. पं० ६. 'सन्तानेषु' - सन्तानशब्दोऽयं बौद्ध: अपरामृष्टभेदेषु कार्यकारणभूतेषु पूर्वोत्तर क्षणेषु सम्प्रयुज्यते । स च सन्तानो न पारमार्थिकः कश्चित् मालाङ्गभूतमौक्तिकेषु सूत्रवत् अपि तु " सन्तानः समुदायश्च पङ्क्तिसेनादिवन्मृषा । सन्तानो नाम न 5 कश्चिदेकः परमार्थसन् सम्भवति । किं तर्हि ? कार्यकारणभावप्रवृत्तक्षणपरम्पराप्रवाहरूप एवायं ततो व्यतिरिक्तस्यानुपलम्भात् । तस्मादेतेषामेव क्षणानामेकपदेन प्रतिपादनाय सङ्केतः कृतो बुद्धैः व्यवहारार्थं 'सन्तानः" इति ।" [ बोधिचर्याव० प० पृ० ३३४ । शिक्षासमु० पृ० ३५९ । तत्त्वसं० पृ० ५२३] इत्यादिवचनात् व्यवहारार्थं क्रियमाणः सङ्केतरूप एवायम् । अयञ्च तत्त्वान्यत्वादिविकल्पैरवाच्य एव अवस्तुत्वात् " तत्त्वान्यत्वप्रकाराभ्यामवाच्यमथ वर्ण्यते" इति 10 तत्त्वसङग्रहकारवचनात् [ पु० ५१०] ।
पृ० १. पं० ८ 'सत्त्वार्थं व्यवतिष्ठते करुणया ' - सम्प्राप्तबोधेरपि बुद्धस्य न सद्यः निर्वाणमपि तु बुद्धत्वसंवर्त्तक कर्मवशात्ते सत्त्वार्थं करुणया तिष्ठन्ति । "तिष्ठन्त्येव पराधीना येषां तु महती कृपा ।" [ प्रमाणवा० २।१९८] “कल्पकल्पास ङ्ख्येयभावनापरिवर्द्धिताः । तिष्ठन्त्येव पराधीना येषां तु महती कृपा ॥" [ अभिसमयालङ्कारालो० पृ० १३४] इत्यादि वचनात् । 15 यथा हि-दर्शन विशुद्धयादिभिः भावनाविशेषैः जैनतीर्थकराः पुराकृतसंसारिजीवोद्धरणाध्यवसायसमुपार्जिततीर्थंकर नामकर्मोदयं यावत् तिष्ठन्ति, देशनया च सन्तर्पयन्ति भव्यजीवान् तथैव - " अनेन पुण्येन तु सर्वदर्शितामवाप्य निर्जित्य च दोषविद्विषः । जरारुजामृत्युमहोर्मिकुलात् समुद्धरेयं भावसागराज्जगत् ।। " [प्रभिसमयालङ्कारालो० पृ० १३२ ] " अनेन चाहं कुशलेन कर्मणा भवेय बुद्धो न चिरेण लोके । देशेय धर्मं जगतो हिताय मोचेय सत्त्वान् 20 बहुदुःखपीडितान् ॥” [ अद्वयवजूस ग्रह पृ० ९] " उत्पादयामि वरबोधिचित्तं निमन्त्रयामि बहुसर्वसत्त्वान् । इष्टां चरिष्ये वरबोधिचारिकां बुद्धो भवेयं जगते हिताय ।।” [ अद्वयवजूसङग्रह पृ० ५] "तीर्णान् तारयिष्यामि अमुक्तान् मोचयाम्यहम् । अनाथान्नाथयिष्यामि स्थापयिष्यामि निर्वृतौ ॥" [ बुद्धवेद पृ० ८२ ] इत्यादिभिः जगदुद्धरणभावनाविशेषैः बुद्धा अपि तादृशं संस्कारविशेषं समुपार्जयन्ति, येन सम्यक सम्बोधिपरिणता अपि अनन्तकल्पं करु- 25 या तिष्ठन्ति देशनया च सन्तारयन्ति भवनिदाघपरिपीडितान् प्राणिनः ।
Jain Education International
पृ० १. पं० १२. 'प्रत्यक्षं विशदज्ञानं' - समग्रेयं कारिका 'तदुक्तमकलङ्कदेवैः” इति कृत्वा प्रमाणपरीक्षायाम् (१० ६९ ) अष्टसहरुयाञ्च ( पृ० १३४) समुद्धृता । " प्रत्यक्षं विशदं
For Private & Personal Use Only
www.jainelibrary.org