________________
१३२
लघीयस्त्रयस्य
[ पृ० १ पं १२
..." [ पत्रपरी० पृ०५] " प्रत्यक्षं विशदं ज्ञानं
ज्ञानं प्रमाणं ज्ञानमित्यपि । अकलङ्कवचो . मुख्यसंव्यवहारतः” [ न्यायवि० वि० पृ० ४८A. ]
प्रत्यक्षस्य विशदज्ञानात्मकत्वेन लक्षणस्यानुसरणं तु निम्नप्रन्थेषु दृश्यते - प्रमाणसं ० पृ० ९७ | सिद्धिवि० टी० पृ० ७१ A. ९६ B. । तत्त्वार्थश्लो० पृ० १८१ । प्रमाणप० पृ० ६७ । 5 परीक्षामु० २।१ । जैनतर्कवा० पृ० ९३ । प्रमाणनि० पृ० १४ । प्रमाणनय० २।२ । प्रमाणमी० १।१३ | जैनतर्कभा० पृ० २ ।
10
तुलना - " साक्षात्कारित्वमेव प्रत्यक्षार्थः । " [ प्रमाणवात्तिकालं० लि० पृ० ४१०, ४३९। मु० पृ० १३० ] “मुख्य संव्यवहारेण संवादि विशदं मतम् । ज्ञानमध्यक्षमन्यद्धि परोक्षमिति सङ्ग्रहः ॥" [ सन्मति ० टी० पृ० ५९५ ] षड्द० बृह० पृ० ८५ A.
पृ० १. पं० १२. 'मुख्यसंव्यवहारतः ' - श्रागमिकज्ञानचर्चायाम् इन्द्रियानिन्द्रियजस्य प्रत्यक्षस्य मतिज्ञानान्तर्गतत्वात् परोक्षत्वं सुस्पष्टम् । श्रर्यरक्षिताचार्यै: ( अनु० १४४ ) नदीसूत्रकारैश्च ( नन्दिसू० ३) इन्द्रियप्रत्यक्ष - नोइन्द्रियप्रत्यक्षरूपेणापि इन्द्रियानिन्द्रियजमतिज्ञानस्य निर्देशः कृतः । अतश्च श्रागमिकपरम्परायामेव इन्द्रियानिन्द्रियजमतिज्ञानस्य प्रत्यक्षपरोक्षेतिविरुद्धरूपतया निर्देशात् सम्प्राप्तो विरोधः । स च जिनभद्रगणिक्षमाश्रमणैः विशेषा15 वश्यकभाष्ये ( गा० ९५ ) " इंदियमणोभवं जं तं संववहारपच्चक्खं ।” इति इन्द्रियानिन्द्रियजमतिज्ञानं संव्यवहारप्रत्यक्षतया स्वीकृत्य परिहृतः ।
नागार्जुनप्रभृतिबौद्धाचार्यैः माध्यमिकमतानुसारिभिः "द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना | लोकसंवृतिसत्यं च सत्यं च परमार्थतः ।। " [ माध्यमिकका० पृ० ४०२ ] इत्यादिवचोभिः ज्ञानज्ञेयादिभेदोपदेशेन शून्यतायां समायातस्य विरोधस्य परिहारः तदुपदेशानां 20 लोकसंवृतिसत्यत्वमुररीकृत्य विधीयते । एवमेव धर्मकीर्त्तिना " प्रामाण्यं व्यवहारेण" [ प्रमा
वा० २०५ ] प्रज्ञाकरगुप्तेन च " तत्र पारमार्थिकप्रमाणलक्षणमेतत् पूर्वं तु सांव्यवहारिकस्य" [ प्रमाणवार्तिकालं० लि० पृ० ७६ ] इति व्यवहार-सांव्यवहारिकादिभिरेव शब्दः संवेदनाद्वैते भेदविरोधः समाधीयते । संव्यवहारशब्दोऽयं माध्यमिककारिकायामपि ( पृ० ४८९ ) प्रयुक्तः । वादन्यायटीकायां ( पृ० १४ ) तत्त्वसंग्रहपंजिकायाञ्च ( पृ० ७८४ ) सुस्पष्टमुद्धृतम् यत् 25 " सांव्यवहारिकस्येदं प्रमाणस्य लक्षणं यदुत प्रमाणमविसंवादिज्ञानमिति ।" इति संव्यवहारशब्दस्य जैनबौद्धदर्शन साधारणत्वं संसूच्यते । जैनागमे व्यवहारनयस्यापि एतदर्थकत्वमेव बोध्यम् ।
मुख्यसंव्यवहारतया प्रत्यक्षस्य द्विधा विभागः निम्नप्रन्थेषु द्रष्टव्यः - प्रमाणप० पृ० ६८ । परीक्षामु० २२५ । प्रमाणनय० २।४ । प्रमाणमी० १।१।१५, २० । प्रमाणनि० पृ० २३ । न्यायदी ० पृ० ९ । जैनतर्कभा०पू० २ ।
30
पृ० १. पं० १२. 'परोक्षं शेष' - तुलना - प्रमाणप० पृ० ६९ । परीक्षामु० ३|१ | सन्मति ० टी० पृ० ५९५ । प्रमाणनय० ३।१ । प्रमाणमी० १।२।१ । जैनतर्कभा० पृ० ८ ।
पृ० १. पं० १३. ' प्रमाणे इति' - " तत्प्रमाणे " [ तत्त्वार्थसू० १।१० ] इति सूत्रार्थं समन्वेत्रा ग्रन्थकृता लघीयस्त्रयवत् न्यायविनिश्चये (का० ४६९ ) प्रमाणसङ्ग्रहे च (का० २ ) 85 इदमेवोक्तमिति ।
पृ० १. पं० १४. 'सन्निकर्षादे' - तुलना - "ज्ञानं प्रमाणं नाज्ञानमिन्द्रियार्थसन्नि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org