________________
१२०
प्रमाणसङ्ग्रहे
[ कारि० ६७,
,
लक्षणम् अन्तर्ज्योतिर्मयम् अनादिनिधननिर्भासमात्मीयतत्त्वम् अर्थान्तरानपेक्षं चैतन्यवत्, मोहादिसम्बन्धान्वयस्व (व्य ) तिरेकानुविधायिनः तादृशोऽज्ञानादयः तिमि रादिवत् स्वहेतुप्रतिपक्षपाटवे निवर्तेरन् । आलोकादयो दोषसंश्लेषविश्लेषहेतवः अण्ज [] नादिवत्, न्मा (मा) र्गाविगमाद् दूरेऽयोग्यानां परिनिवृत्तिः । साध्यसाधनमिथ्या5 सङ्कल्पाभिनिवेशो निसर्गतः पापीयान् यथा आत्मज्ञस्वभावस्य व्यतिरेकिणी बुद्धि: अपरिणामिनोऽर्थोपलम्भेऽकर्तुः करणतया संविद्विषयं व्यवस्थापयन्ती स्वयमन्वयव्यतिरेकौ संसारमोक्षौ अनुया (मा) पयति । सर्वथा विशिष्टा गुणसम्बन्धविवेकतः पुरुषार्थसिद्धिरिति परस्परविरुद्वम् । तादृशो भावान्तराविशेषः । सत्त्वादिसामान्यगुणसम्बन्धेन चेतनानिवृत्तिरन्तःकरणसन्निधावदृष्टकल्पना अनवस्था, सामान्यविशेष10 समवायव्यपदेशे चेतनाव्यतिरेकेणात्मा मा भूदुपयोगलक्षणातिरेकतो अचेतनादिवत् । परस्परपरिहारस्थित (ति) लक्षणतया चेतनेतरात्मनोः चेतनेतरसमवायिविवेकतः समधिगमः परं निर्वाणम् ।
$ ७४. स्वांशमात्रविषयेन (ण) निरंशपरमार्थेन सर्वथान्या (न्य ) वेद्यविरोधे परदुःखमजानतः करुणैव तावन्न भवेत् । विभ्रमतो भावे विभ्रमो न स्यात् । दुःखविन15 श्वरस्य भावोपलम्भेऽपि सिद्धसाधनी [य] परतन्त्रो देवानांप्रियः । सन्तानाभावसाधने समानः प्रसङ्गः । प्रभवसादृश्यप्रत्यासत्तेः अन्यथाभावः स्वपूर्वापर स्वभावमतद्धेतुफलव्यावृत्तं मानसं तच्त्वं तत्परं विच्छिनत्ति स्वयमुपेक्षमाणः कृपात्यु ( कृपालु ) रिति कष्टमनात्मज्ञता परिगतं तमः । तदीदृशे संज्ञान्तरविकल्पेऽपि स्वपरसन्तानभावनया क्वचिदुपकारापकारसङ्कल्पहेतवः स्नेहादयः प्रवर्त्तेरन् । भेददर्शने सङ्कल्पाभावकल्पनायां 20 संज्ञान्तरसमावेशे ममः समाधिः । आत्मवतां विशेषतः तत्स्वभावगुणदोषविवेकतो हिताहितप्राप्तिपरिवर्जनं यथा विपरीतचेतसां सकलदोषसन्ततयः कारणपरतन्त्रेऽपि कार्यजन्मनि तत्करणनियमवैधुर्य (र्ये) सङ्कीर्येरन् । निरभिप्रायवृत्तौ अनिवारणे वंशवत् आदौत्रिलक्षणस्यान्तेऽप्यनन्ता जीवराशयः प्रदीपादेः अन्ते क्षयं (य) दर्शनेनार्थाभावसिद्धिः । एकत्र दृश्यादृश्यस्वभावप्रसिद्धे निर्णयेऽनिर्णयवत्, भावस्वभावोऽयं यत् कथञ्चिद् 25 भवित्येव ( भवत्येव ) मध्यवत् सदैवान्यथा न भवेत्पर्यवसाने परिणामिनः कारणपरम्पराभावप्रसङ्गः । स्वतौ (तो) विवर्त्तशक्तिविरहिणो बहिरङ्गे सुतरामसामर्थ्यम् । उपका
[का] रकसन्निधानात् सन्निधानसाम्ये परस्परविवर्तग्रन्थीनां देशकालाद्यपेक्षिणां प्रभवनियमः । तन्निरपेक्षाणां संयोगविरोधः । प्रत्यासद्वि (त्ति) विप्रकर्षविकल्पप्रत्यस्तमयेन व्यवधानेऽपि प्रसङ्गोऽनवस्था च । तदयम् अर्थप्रवृत्तिनिमित्तप्रदेशादिसहचारी 80 विनश्वरविकल्पविषयः निवर्त्ताते ( निवर्त्तते ) न प्रवर्त्तते इति दुस्तरं दौस्थ्यमापद्यते । तादृशः पुरुषपरिणामस्वभावेषु तदभावप्रसङ्गात्तदधिकारे जन्ममरणादिर्मा भूत् । विभ्रमे तद्विकल्पविभ्रमेण विभ्रमोऽपि न सिद्ध्येत् । परिणामे यथा कार्यकारणनानैकत्वं युक्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org