________________
कारि० ६६. ] ७. सप्तमः प्रस्तानः
११६ ७०. सर्वस्य निर्दिष्टस्य सर्वथा नोपकारकत्वम् । शरीरादिपरिणामोपयोगसाधनेन गतिस्थितिकरणविधाते तदनुपकार्य भोक्तृत्वविरोधः। सम्बन्धासिद्धिः उपकारः परिणामाव्यतिरेकेणानवस्था । सवेत्र तद्गुणोपलब्धावधिध्यानातिरेकः तनियतवृत्तावतिरेकव्यतिकरसङ्करप्रसङ्गः । तद्गुणान्तरसमवायाविशेषस्वात्मान्तररयापि कालाधविशेषेणेच्छादिसमवायनियमः कुतः संसारः१चेतनस्यापि नित्यमदृश्यस्य स्वयं विज्ञाने । न बुद्धिरचेतना अतीतकार्यकारणतया विकारिणमात्मान नं) कथं दर्शयते तदुपलम्भानिवृत्तेरविशेषेण तद्वत्तिसङ्करः। तदात्मानतिशायनं (१) यदि विग्रहमात्रव्यापी न भवेत् सहव्याप्तिरुपभोगे न स्यात् । परस्यैव संसारे नात्मनः कर्मफलसम्बन्धः । सन्तानस्यापि निरू (रु) पाख्यतया न संसारः ।।
साधनं नत्व (तत्त्व) विज्ञानं चारित्रं समयस्थितिः।
७१. आत्मेतरसम्बन्धवियोगकारणतत्त्वबुद्धरस्ति कायाधिकरणस्य तदनुष्ठानविशेषतो मोक्षः, तनिसर्गादवि (धि) गमः, तद्विपक्षवृत्तेः संसार आत्मसुखदुःखतर्पणादिप्रवृत्तिनिवृत्त्योरकारणविशेषौषधवत् । अन्यतरवैकल्येन परस्याप्यपरिसमाप्तिः। साध्यसाधनयोरनवयवेन विज्ञानस्वभावव्याप्तौ प्रकृतविषयव्यापारविशेषापेक्षया साधनस्य त्रैविध्यम् , सकलात्मपरिज्ञानेऽपि विरतविग्रहसम्बन्धस्य परत्वम् । 15
सम्बन्धयोगतः स्थानप्रस्थाने तद्विशेषतः ॥६६॥
७२. चेतनस्यार्थान्तरसम्बन्धवैकल्ये न शरीरस्थितिः । संयोगपरिणामतः कार्यकारणवद् अनादिसम्बन्धविवर्ती सुवर्णपाषाणादिवद् विशेषोपपत्ते [:] ज्ञानस्वभावस्य मोहादिमूत्तानुप्रवेशे मदिरादिवत् । मन्त्रादेस्तादृशोपयोगाविरोधः। धर्मादेरज्ञानस्वभावे तदविशेषः। चेतनस्य हीनस्वाप (स्थान) प्रापणं बन्ध [:] संस्कारवशात् 20 देशान्तरप्राप्तिः देवदत्तादिवत्, परापरकर्मप्रबन्धात् परवंसो (शो) त्पत्तिः वितटपात(बीजपादप ) वत् । सत्यपि परस्यरंदे ( स्परं भेदे) योग्यतालक्षणः सम्बन्धः । मूर्तानां च स्निग्धरूक्षताभावे तादृशो वृत्तेः । नायं प्रज्ञागुणः तत्प्रकर्षापकर्षनिहर्हासातिशयजातीयाभ्यासविवर्ती क्रोधादिकर्मोपादानयोग्यताम् आत्मनः सूचयेत् । युगपद्भाविनोर्वासनानियमः । परिणामान्तरेऽपि तदन्वयेन अविकलतया युगपदुपलम्भ-25 प्रसङ्गः। तदुद्भवाऽभिभवस्वभावप्रतिषेधे तिरोभावाऽसम्भवः । इतरस्यापि तदात्मकत्वात् । चेतनोपतापहेतवः कर्मणो न विशिष्यन्ते । तदयं दोषप्रभवः सति हेतौ न कदाचिदुपरमंते ।
- आत्मनो दोषसम्बन्धम् आत्मज्ञः सन्निवर्तयेत।
७३. निसर्गतोऽनवरतव्यामोहसमुदयवशात् स्वरसतो वृत्तप्रसादवृत्तदोष-30 प्रसरस्य प्रतीकारो न आत्मात्मीयप्रज्ञाप्रकर्षप्रतिपक्षः प्रथमवत् । ज्ञानदर्शनोपयोग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org