SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ११८ प्रमाणसङ्ग्रहे [ कारि० ६५. ६७. सन्निकर्षाद् रूपज्ञानं यदि स्पष्टावग्रहः, तदर्थप्रतिघाते दीपरश्मिवद् अनियमप्रकाशप्रसङ्गः । स्फटिकाद्युपहितार्थप्रतिबिम्बोघ ( प ) लम्भवच्छ ( च्छु) तौ तदर्थाधिगमे प्रमाणान्तरेऽपि तदयमर्थमभिनिबुध्य श्रुतविकल्पे द्रव्यपर्यायसामान्यविशेषविषयमधिगच्छति । व्यामोहविच्छेदे सति मतिश्रुतयोरेकत्वेऽपि कथश्चित् 5 प्रतिभासभेदो अवग्रहादिवत् । तदेतदसदूपत्वेऽपि तत्समधिगमनिमित्तम् । तत्र तदधिगम एव सत्यपि सारूप्ये स्थापनादिवत् । परंज्योतिरनाकारं पर्यायानुक्रमस्थिति। ६८. स्थापनाश्रुतिरेव व्यापिनी सर्वत्र समानाकारसम्भवः । सतोऽपि क्वचिदसदविशेषो व्यतिरेकासिद्धिः, समयस्मरणाभावे तदर्थाप्रतिपत्तिः । असत्यर्थज्ञा10 पने तदभ्यासमात्रेऽपि श्रेयोऽतिशयप्राप्तिः। विचित्राभि [स] न्धयः प्रतिपत्तारः । स्वाध्यायतपःप्रभावमूलं सकलमलं तदर्थज्ञानं तत्परिच्छेदसामर्थ्य प्रतिनियतभेदमेतदाकारातिरेकेण व्यभिचारदृष्टौ तदावरणपरिक्षये निरुपाधिकप्रवृत्तिः, यथाप्रतिबन्धक्षयोपशमं वर्णपदवाक्यानुपूर्वीसंहारातिशयः परमाणुक्रमनिमेषलक्षणपर्यायसमासतः ताल्वादिव्यापाराहितसंस्काराः सदृशापरपरिणामेन शब्दवा (धा) राः शरीरावयव15 संस्पर्शिन्यः प्रत्यवभासेरन् । ६६६. श्रोत्रं हि नाप्राप्यकारि चक्षुरिव प्रत्यासबाग्रहणप्रसङ्गः। तदभिघाते विशेषोपलम्भे दिग्विभागप्रतीतिः । अवगृहीतस्याप्रत्यक्षगुणत्वमयुक्तम् , अनाहितविशेषगुणोत्पत्तिविनाशाऽसम्भवात् । निरंशानां क्रमवृत्तौ अर्थान्तरव्यक्तिवद् अर्थो पयोगः स्यात् । कुतश्चिदक्रमस्य व्यक्तावनभिव्यक्तौ तदन्यवैयर्थ्यम् । ध्वनिविशे20 षाहितसंस्कारश्रुतिपरिणामी तदर्थमधिगच्छेत् । गुणपर्ययवद्रव्यम् । स्पर्शवतः क्रम वृत्तेः द्रव्यत्वं न कस्यचिदपरिणामिनः, पौर्वापरयोर्भागस्य परपरिणामे वर्णान्तरपरावृत्तौ असकलप्रतिपत्तिः। उभयपरिणामे अनुक्रमग्रहणनियमानुपपत्ति [:] प्रतिवर्णप्रयत्नमेदेन कस्यचित्तिरोभावे परोऽपि तादृशपरिणामः समनन्तरमाविर्भवति कारण सामग्रीसन्निधौ । प्रत्यभिज्ञानेऽपि नानात्वम् । युगपद्भिनदेशोपलब्धैः (ब्धेः) सर्व25 गतत्वे सर्वत्र सवेदोपलब्धिः । अपरिणामिनः ताल्वादेरभिव्यक्ता [वा] वरणविच्छेदात क (क) संस्कारादिवियोगः ? सकृन्नानादेशोपलम्भो व्यापिनः प्रयासेऽपि न स्यात् । व्यञ्जकव्यापारे व्यङ्ग्यविशेषानियमः। करणसनिपातौ (तो) पनीतश्रावणस्वभावः पूर्वापरकोव्योः दीपादिद्रव्यवद् अनुपादानानुत्पत्तिरपरिणामविधातः। तथाऽनुपाल म्भेऽपि नित्यस्वभावान्तरप्रतिबन्धी । तथाहि-द्रव्यमेव भावाव्यभिचारि तदात्मक80 त्वाधुराप (त्वाद् युगपत्) क्रममावेऽपि तदेकयोगक्षेमलक्षणवन्नामसदृशोपलम्भतः । तथा द्वि (तद्वि) शेषाप्रतिपत्तेरात्मा स्वामी तदर्थकृत् ॥६६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002504
Book TitleAkalanka Granthtrayam
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherZZZ Unknown
Publication Year1969
Total Pages390
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy