________________
कारि० ६४.] ७. सप्तमः प्रस्तावः
११७ ___ समानपरिणामार्थे सङ्केताच्छब्दवृत्तितः ॥ ६४ ॥
६५. क्वचित् समयानपेक्षणे शास्त्रमपौरुषेयमनर्थवद् । अनादित्वे व्यवहारवद् व्याख्याविप्रतिपत्तौ परमगहने कः साक्षी यतो निःशङ्कं चेतः पुरुषः ? स्वयंकृतसमये तदर्थदर्शी कथश्चिाद् व्यवहारिणः प्रवत्तयेत् । नित्येऽपि शब्दार्थसम्बन्धे अनवस्थाप्रसङ्गः । सङ्केतदर्शिनः तत्प्रतिपत्तौ तदन्यतमे चलत्यचलति वा अचलश्चलो वा विप्र- 5 तिषिद्धः । नित्यानामनित्यानां वा सब ( सम्ब ) न्धोऽनुपकारविशेषणे सिद्धस्य परतन्त्रतायोगो व्यतिरेकाव्यतिरेकयोरनवस्थासङ्करप्रसङ्गः । तत्सङ्केताद्यभिव्यक्ती अन्यकल्पनासामथ्र्यम् , उभयोरव (च) लात्मतया देशकालावस्थाभेदेन उपलम्भासम्भवः अन्यत्र प्रतिपत्तेः । अन्यत्र सङ्केते अतिप्रसङ्गः। सामान्यसनिवेशिनि तथा समवायाविशेषेण नियतवृत्तेर्विशेषाविशेषव्यपोहवत् । स्वभावभेदानुपलब्धेर्ज्ञानाभिधानानु-10 प्रवृत्तेः, अन्यथा सम्भवो द्रव्यगुणसमवायेषु प्रसङ्गः । समानप्रत्ययजनकेषु तदव्यतिरेकेण समविषमतया सम्प्रज्ञायमानेषु जातिधर्मपरिसमाप्ता च त (प्तावत) कारणव्यावृत्तावसाधारणत्वम् । अभावविशेषे जातिवत् समानप्रत्ययः, समानो नाम एकज्ञाननी लादिवत् । चक्षुरादिज्ञानेऽपि सर्वत्र सर्वथा सारूप्यव्यभिचाराभावः, तादूप्यनियमसम्भवः। दर्शनेतरयोः सर्वथा भेदे पश्यतो [5] स्मृतिरस्मृतेरपरामर्श इति विषयज्ञानवत् 15 समनन्तरयोर्मतिश्रुतयोः स्वभावभेदे वेद्यवेदकलक्षणम् , तदेकार्थविषये (य) योरभिमात्मना बहिरपि शब्दार्थसङ्केते तदर्थप्रत्यभिज्ञाने वा सत्यार्थता, समानैकात्मप्रतिपत्ती सत्यानृतार्थताभेदः । समवायसाकल्यवैकल्याभ्यां शाब्देऽपि आभिनिबोधिकवद् भिन्नप्रतिभास एकतानत्वम् । यथार्थदर्शनादिगुणवैगुण्याभ्यां प्रवचनेतरव (वं) शसंवृत्ती सर्वविशेषकल्पनायामाप्तागमपदार्थप्रमाणप्रवृत्तिफललिङ्गचारित्रं मा भूत् । स्वांशमात्रा- 20 वलम्बिनो नार्थप्रतिपत्तिः।
६६. एकत्र बहुभेदासम्भवे मिथ्याविकल्पो न स्यात् । सर्वथा विभ्रमे नीलादिविशेषवद् देशकालादिभेदेऽपि दृष्टसमानार्थ विकल्पयतः तद्विषयताप्रत्यक्षवद् देशादिनियमः, अन्यथा स्वमवद् दूरासन्नकार्यकारणभावप्रतिविधावनानैकं समनन्तरसाधारणमात्मानं संविदत् (न्) स्वरूपतत्त्वविभ्रमं वा साधारणं प्रतिलक्ष(तिक्षणं त्रिका- 25 लगोचरानन्तपर्यायदर्शी दोषावरणक्षयोपशमवशाद् दर्शनविषयसामान्यविशेषात्मानं समासादयेत् स्थापनादिवत् । प्रतिमादौ यथासमारोपं व्यवस्थापिते तत्समानविकन्पमात्मानं धारयति, समानेऽपि सर्वत्र तथाऽर्थदर्शनादिगुणयोगवियोगः तत्त्वमिध्याप्रतिपत्तिः । सत्यां प्रतीतौ तदनुमानं श्रेयोऽवाप्तिपरिहरत्तद्गुणदोषविवेको वा सनिधिवत् तत्स्थाया (तच्छाया) प्रतिपत्तौ तदनुमानं स्वरूपप्रतिभासातिशये तथा- 30 परिणतम्, न चैतद् युगपद्भिनदेशोपलम्भे स्वपरप्रत्यक्षं विभ्रमकल्पनाविरुद्धम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org