Book Title: Agam Suttani Satikam Part 10 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
पदं - ३, उद्देशक:-, द्वारं - २७
कल्पे चत्वारिंशत्सहस्राणि महाशुक्रे, अन्यच्चाधोऽधोविमानवासिनो देवा बहुबहुतराः स्तोकाः स्तोकतराश्चोपरितनोपरितनविमानवासिनः तत् सहस्रारदेवेभ्यो महाशुक्रकल्पदेवा असङ्घयेयगुणाः १५ तेभ्योऽपि पञ्चमधूमप्रभाभिधानरकपृथिव्यां नैरयिका असङ्घयेयगुणाः, बृहत्तमश्रेण्यसङ्ख्येयावर्तिनभः प्रदेशराशिप्रमाणत्वात् १६ तेभ्योऽपि लान्तककल्पे देवा असङ्घयेयगुणाः, अतिबृहत्तमश्रण्यसङ्क्षेयवगगतनभः प्रदेशराशिप्रमाणत्वात् १७ तेभ्योऽपि चतुथ्यां पङ्कप्रभायां पृथिव्यां नैरयिका असङ्घयेयगुणा, युक्तिः भावनीया १८ तेभ्योऽपि ब्रह्मलोककल्पे देवा असङ्खयेयगुणाः, युक्तिः प्रागुक्तैव १९ तेभ्योऽपि तृतीयस्यां वालुकाप्रभायां पृथिव्यां नैरयिका असत्ययगुणाः २०
१७३
- तेभ्योऽपि माहेन्द्रे कल्पे देवा असङ्घयेयगुणाः २१ तेभ्योऽपि सनत्कुमारकल्पे देवा असङ्घयेयगुणाः युक्तिः सर्वत्रापि प्रागुक्तैव २२ तेभ्यो द्वितीयस्यां शर्कराप्रभायां पृथिव्यां नैरयिका असङ्घयेयगुणाः २३, एते च सप्तमपृथिवीनारकादयो द्वितीयपृथिवीनारकपर्यन्ताः प्रत्येकं स्वस्थाने चिन्त्यमानाः सर्वेऽपिधनीकृतलोक श्रेण्यसङ्घयेय भागवर्तिनभः प्रदेशराशिप्रमाणा द्रष्टव्याः, केवलं श्रेण्यसङ्घयेयभागोऽसङ्घयेयभेदभिन्नः तत इत्थमसङ्घयेयगुणतया अल्पबहुत्वमभिधीयमानं न विरुध्यते, तेभ्योऽपि द्वितीयनरकपृथिवीनारकेभ्यः संमूर्च्छिममनुष्या असङ्घयेयगुणाः २४
- ते हि अङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि द्वितीयवर्गमूले तृतीयवर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावव्यमाणाः, तेभ्योऽपि ईशाने कल्पे देवा असङ्घयेयगुणाः यतो धनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभः प्रदेशाः तावत्प्रमाण ईशानकल्पगतो देवदेवीसमुदायः तद्गतकिंचिदूनद्वात्रिंशद्भागकल्पा ईशानदेवाः, ततो देवाः संमूर्च्छिममनुष्येभ्योऽसङ्घयेयगुणाः २५, तेभ्य ईशानकल्पे देव्यः सङ्घयेयगुणाः, द्वात्रिंशद्गुणत्वात् “बत्तीसगुणा बत्तीसरूव अहिआउ होंति देवीओ" इति वचनात् २६,
-ताभ्यः सौधर्मे कल्पे देवाः सङ्घयेयगुणाः, तत्र विमानबाहुल्यात्, तथाहि -तत्र द्वात्रिंशच्छतसहस्राणि विमानानां अष्टाविंशतिशत सहस्राणि ईशाने कल्पे, अपिच - दक्षिणदिग्वर्ती सौधर्मकल्पः ईशानकल्पस्तूत्तरदिग्वर्ती दक्षिणस्यां च दिशि बहवः कृष्णपाक्षिकाः समुत्पद्यन्ते तत ईशानदेवीभ्यः सौधर्मदेवाः सङ्ख्येयगुणाः, नन्वियं युक्तिमहिन्द्रसनत्कुमारकल्पयोरप्युक्ता, परंतत्र माहेन्द्रकल्पापेक्षया सनत्कुमारकल्पे देवा असङ्घयेयगुणा उक्ताः, इह तु सौधर्मे कल्पे सङ्घयेयगुणाः तदेवत् कथम् ?, उच्यते, वचनप्रामाण्यात्, न चात्र पाठभ्रमः, यतोऽन ऽन्यत्राप्युक्तम्"ईसाणे सव्वत्थवि बत्तीसगुणाओ होंति देवीओ । संखिज्जा सोहम्मे तओ असंखा भवणवासी ।।" इति २७,
119 11
- तेभ्योऽपि तस्मिन्नेव सौधर्मे कल्पे देव्यः सङ्घयेयगुणाः, द्वात्रिंशद्गुणत्वात्, “सव्वत्थवि बत्तीसगुणाओ हुंति देवीओ” इति वचनात् २८ ताभ्योऽप्यसङ्घयेयगुणा भवनवासिनः, कथम् इति चेत्, उच्यते, इह अङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि प्रथमवर्गमूले तृतीयवर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावप्रमाणासु घनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणो भवनपतिदेवदेवीसमुदायः, तद्गतकिञ्चिदूनद्वात्रिंशत्तमभागकल्पाश्च भवनपतयो देवाः ततो घटन्ते सौधर्मदेवीभ्यस्तेऽसङ्घयेयगुणाः २९ तेभ्यो भवनवासिन्यो देव्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324