Book Title: Agam Suttani Satikam Part 10 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 287
________________ २८४ प्रज्ञापनाउपाङ्गसूत्र-१-१२-1-1४०१ तत्परिगृह्य ऊर्ध्वाधआयतमुत्तरपार्वेसात्यते, ततोविस्तरतोऽपिपरिपूर्णाः सप्तरजवोभवन्ति, एवमेषलोकोघनीक्रियते, घनीकृतश्चसप्तरज्जुप्रमाणोभवति, यत्रचकाचनघनत्वेनसप्तरजुप्रमाणता न पूर्यते तत्र बुध्या परिपूरणीयं, एतच्च पट्टिकादौ लिखित्वा दर्शयितव्यं, सिद्धान्ते च यत्र कवचनापिश्रेणे प्रतरस्यवाग्रहणंतत्रसर्वत्राप्येवंधनीकृतस्यलोकस्य सप्तरजुप्रमाणस्या-वसातव्यं, मुक्तान्यौदारिकवद्भावनीयानि। आहारकविषयं सूत्रं केवइयाणंभंते! आहारगसरीरगा इत्यादि, 'बद्धानि सिय अस्थि सिय नत्यि' इति अस्तीति निपातो बहुवचनगर्भः कदाचित्सन्ति कदाचित् न सन्तीत्यर्थः, यस्मादन्तरमाहारकशरीरस्य जघन्यत एकः समयः उत्कर्षतः षण्मासाः, उक्तंच॥१॥ “आहारगाइं लोएछम्मासे जा न होतिविकयाइ। उक्कोसेणं नियमाएकं समयंजहन्नेणं ॥” इति, यदापिभवन्तितदाऽपिजघन्यतः एकंद्वेवाउत्कर्षतः सहपृथकत्वं, मुक्तान्यौदारिकवत् तैजसविषयं सूत्रमाह- 'केवइयाणंभंते! तेयगसरीरया' इत्यादि, तत्रबद्धान्यनन्तानि, अनन्तत्वं कालक्षेत्रद्रव्यैर्निरूपयति-'अनंताहि' इत्यादि, कालतः परिमाणमन्तोत्सर्पिण्यवसर्पिणीसमयप्रमाणानि क्षेत्रतोऽनन्तलोकप्रमाणाकाशखण्डप्रदेशपरिमाणानि, द्रव्यतःपरिमाणं सिद्धेभ्योऽनन्तगुणानि,तैजसंहिशरीरंसर्वसंसारिजीवानांप्रत्येकं,संसारिणश्चजीवाःसिद्धेभ्योऽनन्तगुणाः ततस्तैजसशरीराण्यपिसिद्धेभ्योऽनन्तगुणानि भवन्ति, सव्वजीवअनंतभागूणा' इति सर्वजीवानां योऽनन्ततमो भागस्तेनोनानि, इयमत्र भावना-सिद्धानां तैजसशरीरं न विद्यते, सर्वशरीरातीतत्वात् तेषां, सिद्धार्य सर्वजीवानामनन्तमागे, ततस्तेनोनानि सर्वजीवानामनन्तभागोनानि भवन्ति, मुक्तानि अनन्तानि, तजेवानन्तत्वं कालक्षेत्रद्रव्यैः प्ररूपयति-'अनंताहिं' इत्यादि,। कालक्षेत्रसूत्रेप्राग्वत्, द्रव्यतः परिमाणंसर्वजीवेभ्योऽनन्तगुणानि, कथमितिचेत् ?, उच्यते, इह एकैकस्य संसारिजीवस्य एकैकं तैजसशरीरं, तानि च जीवैर्विप्रमुक्तानि सन्ति प्रागुक्तयुक्तेरनन्तभेदभिन्नानि भवन्ति, तेषांचासङ्ख्येयं कालं यावदवस्थानं, तावता च कालेन जीवैर्विप्रमुक्तान्यन्यानि तैजसशरीराणि प्रतिजीवमसङ्ख्येयानि अवाप्यन्ते, तेषामपि प्रत्येकं प्रागुक्तयुक्त्याअनन्तभेदमित्रतेतिभवन्तिसर्वजीवेभ्योऽनन्तगुणानि, तत्किंजीववर्गप्रमाणानि भवेयुरत आह 'जीववग्गस्सअनंतमागे इति,जीववर्गस्यानन्तमागप्रमाणानि,जीववर्गप्रमाणानिकस्मान भवन्तीति चेत्, उच्यते, यदि एकैकस्य जीवस्य सर्वजीवराशिप्रमाणानि किञ्चित्समधिकानि वा भवेयुफैन सिद्धानन्तभागपूरणं भवति ततो जीववर्गप्रमाणानि भवन्ति, वर्गो हि तेनैव राशिना तस्य राशेर्गुणने भवति, यथा चतुष्कस्य चतुष्केन गुणने षोडशात्मको वर्ग इति, न चैकैकस्य जीवस्य सर्वजीवप्रमाणानि किञ्चित्समधिकानि वा तैजसशरीराणि किन्वतिस्तोकानि, तान्यपि असङ्ख्येयकालावसअथायीनीति, तावताकालेनयान्यप्यन्यानि भवन्तितान्यपिस्तोकानि, कालस्य स्तोकत्वात्, ततो जीववर्गप्रमाणानि न भवन्ति, किन्तु जीववर्गस्यानन्तभागमात्राणि, अनन्तभागप्रमाणतायांचपूर्वाचार्यप्रदर्शितमिदं निदर्शनं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324