Book Title: Agam Suttani Satikam Part 10 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 293
________________ २९० प्रज्ञापनाउपाङ्गसूत्र-१-१२/-/-/४०४ भागप्रतिभागेनासंख्येयतमेन प्रतिभागेन, किमुक्तं भवति ?-एकेन द्वीन्द्रियेणाङ्गुलासंख्येयभागप्रमाणं खण्डमावलिकाया असङ्खयेयतमेन भागेनापह्रियते, द्वितीयेनापि तावप्रमाणं खण्डं तावता कालेन, एवमपह्रियमाणं प्रतरं द्वीन्द्रियैः सर्वैरसङ्ख्येयाभिरुत्सर्पिणीभिः सकलमपिठ्यते इति, मुक्तान्यौधिकमुक्तवत्, तैजसकार्मणानि बद्धानि बद्धौदारिकवत्, वैक्रियाणि पुनर्बद्धानि तेषां न सन्ति, मुक्तान्यौधिकमुक्तवत्, एवं त्रिचतुरिन्द्रियाणामपि।। तिर्यक्पञ्चेन्द्रियाणां बद्धानि मुक्तानि चौदारिकाणि द्वीन्द्रियवत्, वैक्रियाणि बद्धानि असङ्ख्येयानि, तत्र कालतः परिमाणचिन्तायामसङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतोऽसद्ध्येयासु श्रेणिषु यावन्तः आकाशप्रदेशास्तावप्रमाणानि, तासां च श्रेणीनां परिमाणं प्रतरस्यासङ्ख्येयोभागः,तथा चाह-'जहाअसुरकुमाराणमिति,यथा असुरकुमाराणांतथा वक्तव्यं, नवरं विष्कम्भसूचिपरिमाणचिन्तायांतत्राङ्गुलप्रमाणवर्गमूलस्य सङ्ख्येयो भागउक्तइह त्वसङ्घयेयो भागो वक्तव्यः, किमुक्तंभवति?-अङ्गुलमात्रक्षेत्रप्रदेशराशेः यत्प्रथमवर्गमूलंतस्यासङ्ख्येयतमे भागे यावन्त आकाशप्रदेशास्तावप्रदेशात्मिका सूचिः परिगृह्यते, तावत्या च सूच्या याः श्रेणयः स्पृष्टास्तासु श्रेणिषु यावन्त आकाशप्रदेशास्तावप्रमाणानि तिर्यक्पञ्चेन्द्रियाणां बद्धानि वैक्रियशरीराणि, उक्तंच॥१॥ “अङ्गुलमूलासंखेयभागप्पमियाउ होंति सेढीओ। उत्तरविम्वियाणं तिरियाणं सन्निपज्जाणं ॥" मुक्तान्यौधिकमुक्तवत्, तैजसकार्मणानिबद्धानिबद्धौदारिकवत, मुक्तान्यौधिकमुक्तवत्, मनुष्याणांबद्धान्यौदारिकशरीराणिस्यात्-कदाचित् सङ्ख्येयानि कदाचिदसङ्ख्येयानि, कोऽत्राभिप्रायः इति चेत् ?, उच्यते, इह द्वये मनुष्या-गर्भव्युत्क्रान्तिकाः सम्मूर्छिमाश्च, तत्र गर्भव्युत्कान्तिकाः सदावस्थायिनो, नस कश्चित्कालोऽस्ति यो गमव्युत्क्रान्तिकमनुष्यरहितो भवति, सम्मूळिमाश्च कदाचिद्विद्यन्तेकदाचित्सर्वथातेषामभावोभवति, तेषामुत्कर्शषतोऽन्तर्मुहूर्तायुष्कात्वात्, उत्पत्त्यन्तरस्य चोत्कर्षतश्चतुर्विंशतिमुहूर्तप्रमाणत्वात्, ततो यदा सर्वथा सम्मूर्छिममनुष्या न विद्यन्तेकिन्तु केवला गर्भव्युत्क्रान्तिकाएवतिष्ठन्ति तदा स्यात् सङ्ख्येयाः, सङ्ख्येयानामेव गमव्युक्रान्तिकानां भावात्, महाशरीरत्वेप्रत्येकशरीरत्वेचसतिपरिमितक्षेत्रवर्तित्वात्, यदातुसम्मूर्छिमास्तदाअसत्येयाः, सम्मूर्छिमानामुत्कर्षतः श्रेण्यसङ्घय्येभागवर्त्तिनभःप्रदेशराशिप्रमाणत्वात्, तथा चाह-'जहन्नपदे संखेजा इत्यादि, जघन्यपदनामयत्रसर्वस्तोकाःमनुष्याः प्राप्यन्ते, आह-किमत्र सम्मूच्छिमाणां ग्रहणमुत गर्भव्युत्क्रान्तिकानां ?, उच्यते, गमव्युत्क्रान्तिकानां, तेषामेव सदाऽवस्थायितया सम्मूर्छिमविरहे सर्वस्तोकतया प्राप्यमाणत्वात्, उत्कृष्टपदे तूभयेषामपिग्रहणं, यदाह मूलटीकाकाकरः- “सेतराणांग्रहणमुत्कृष्टपदे, जघन्यपदेगर्भव्युत्क्रान्तिकानामेव केवलानांग्रहण" मिति, अस्मिन्जघन्यपदेसङ्घयेयामनुष्याः, तत्र सङ्घयेयकंसद्ध्येयभेदभिन्नमिति न ज्ञायते कियन्तस्ते इति विशेषसङ्ख्यां निवारयति-सङ्खयेयाः कोटीकोट्यः, अथवाइदमन्यत् विशेषतरं परिमाणं-'तिजमलपयस्स उवरिं चउजमलपयस्सहेट्ठा' इति, इह मनुष्यसङ्ख्याप्रतिपादिकान्येकोनत्रिंशदङ्कस्थानानि वक्ष्यमाणानि, तत्र समयपरिभाषया अष्टानां अष्टानमङ्क Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324