________________
२९०
प्रज्ञापनाउपाङ्गसूत्र-१-१२/-/-/४०४
भागप्रतिभागेनासंख्येयतमेन प्रतिभागेन, किमुक्तं भवति ?-एकेन द्वीन्द्रियेणाङ्गुलासंख्येयभागप्रमाणं खण्डमावलिकाया असङ्खयेयतमेन भागेनापह्रियते, द्वितीयेनापि तावप्रमाणं खण्डं तावता कालेन, एवमपह्रियमाणं प्रतरं द्वीन्द्रियैः सर्वैरसङ्ख्येयाभिरुत्सर्पिणीभिः सकलमपिठ्यते इति, मुक्तान्यौधिकमुक्तवत्, तैजसकार्मणानि बद्धानि बद्धौदारिकवत्, वैक्रियाणि पुनर्बद्धानि तेषां न सन्ति, मुक्तान्यौधिकमुक्तवत्, एवं त्रिचतुरिन्द्रियाणामपि।।
तिर्यक्पञ्चेन्द्रियाणां बद्धानि मुक्तानि चौदारिकाणि द्वीन्द्रियवत्, वैक्रियाणि बद्धानि असङ्ख्येयानि, तत्र कालतः परिमाणचिन्तायामसङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतोऽसद्ध्येयासु श्रेणिषु यावन्तः आकाशप्रदेशास्तावप्रमाणानि, तासां च श्रेणीनां परिमाणं प्रतरस्यासङ्ख्येयोभागः,तथा चाह-'जहाअसुरकुमाराणमिति,यथा असुरकुमाराणांतथा वक्तव्यं, नवरं विष्कम्भसूचिपरिमाणचिन्तायांतत्राङ्गुलप्रमाणवर्गमूलस्य सङ्ख्येयो भागउक्तइह त्वसङ्घयेयो भागो वक्तव्यः, किमुक्तंभवति?-अङ्गुलमात्रक्षेत्रप्रदेशराशेः यत्प्रथमवर्गमूलंतस्यासङ्ख्येयतमे भागे यावन्त आकाशप्रदेशास्तावप्रदेशात्मिका सूचिः परिगृह्यते, तावत्या च सूच्या याः श्रेणयः स्पृष्टास्तासु श्रेणिषु यावन्त आकाशप्रदेशास्तावप्रमाणानि तिर्यक्पञ्चेन्द्रियाणां बद्धानि वैक्रियशरीराणि, उक्तंच॥१॥ “अङ्गुलमूलासंखेयभागप्पमियाउ होंति सेढीओ।
उत्तरविम्वियाणं तिरियाणं सन्निपज्जाणं ॥" मुक्तान्यौधिकमुक्तवत्, तैजसकार्मणानिबद्धानिबद्धौदारिकवत, मुक्तान्यौधिकमुक्तवत्, मनुष्याणांबद्धान्यौदारिकशरीराणिस्यात्-कदाचित् सङ्ख्येयानि कदाचिदसङ्ख्येयानि, कोऽत्राभिप्रायः इति चेत् ?, उच्यते, इह द्वये मनुष्या-गर्भव्युत्क्रान्तिकाः सम्मूर्छिमाश्च, तत्र गर्भव्युत्कान्तिकाः सदावस्थायिनो, नस कश्चित्कालोऽस्ति यो गमव्युत्क्रान्तिकमनुष्यरहितो भवति, सम्मूळिमाश्च कदाचिद्विद्यन्तेकदाचित्सर्वथातेषामभावोभवति, तेषामुत्कर्शषतोऽन्तर्मुहूर्तायुष्कात्वात्, उत्पत्त्यन्तरस्य चोत्कर्षतश्चतुर्विंशतिमुहूर्तप्रमाणत्वात्, ततो यदा सर्वथा सम्मूर्छिममनुष्या न विद्यन्तेकिन्तु केवला गर्भव्युत्क्रान्तिकाएवतिष्ठन्ति तदा स्यात् सङ्ख्येयाः, सङ्ख्येयानामेव गमव्युक्रान्तिकानां भावात्, महाशरीरत्वेप्रत्येकशरीरत्वेचसतिपरिमितक्षेत्रवर्तित्वात्, यदातुसम्मूर्छिमास्तदाअसत्येयाः, सम्मूर्छिमानामुत्कर्षतः श्रेण्यसङ्घय्येभागवर्त्तिनभःप्रदेशराशिप्रमाणत्वात्,
तथा चाह-'जहन्नपदे संखेजा इत्यादि, जघन्यपदनामयत्रसर्वस्तोकाःमनुष्याः प्राप्यन्ते, आह-किमत्र सम्मूच्छिमाणां ग्रहणमुत गर्भव्युत्क्रान्तिकानां ?, उच्यते, गमव्युत्क्रान्तिकानां, तेषामेव सदाऽवस्थायितया सम्मूर्छिमविरहे सर्वस्तोकतया प्राप्यमाणत्वात्, उत्कृष्टपदे तूभयेषामपिग्रहणं, यदाह मूलटीकाकाकरः- “सेतराणांग्रहणमुत्कृष्टपदे, जघन्यपदेगर्भव्युत्क्रान्तिकानामेव केवलानांग्रहण" मिति, अस्मिन्जघन्यपदेसङ्घयेयामनुष्याः, तत्र सङ्घयेयकंसद्ध्येयभेदभिन्नमिति न ज्ञायते कियन्तस्ते इति विशेषसङ्ख्यां निवारयति-सङ्खयेयाः कोटीकोट्यः, अथवाइदमन्यत् विशेषतरं परिमाणं-'तिजमलपयस्स उवरिं चउजमलपयस्सहेट्ठा' इति, इह मनुष्यसङ्ख्याप्रतिपादिकान्येकोनत्रिंशदङ्कस्थानानि वक्ष्यमाणानि, तत्र समयपरिभाषया अष्टानां अष्टानमङ्क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org