Book Title: Agam Suttani Satikam Part 10 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 304
________________ पदं - १४, उद्देशक:-, द्वारं एव विशेषतः कश्चित् क्वच्चित् प्रतपाद्यते, तत्रैकेन्द्रियाणामपि क्रोधादिकषायभावात् ‘सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलान् आदत्ते' इति वचनात् प्रधानबन्धहेतुत्वाच्चादावेव विशेषतः कषायपरिणाम- प्रतिपादनार्थमिदरमारभ्यते, तत्र चेदमादिसूत्रम् ३०१ मू. (४१३) कति णं भंते! कसाया पन्नत्ता, गो० ! चत्तारि कसाया पं०, तं० - कोहकसाए मानकसाए मायाकसाए लोभकसाए, नेरइयाणं भंते! कतिकसाया पं० ?, गो० ! चत्तारि कसाया पं० ?, तं० - कोहकसाए जाव लोभकसाए, एवं जाव वेमाणियाणं । वृ. 'कइ णं भंते! कसाया' इत्यादि, कति - कियत्सङ्ख्याकाः [कषायाः] णमिति पूर्ववत्, भदन्त ! - परमकल्याणयोगिन् कषायाः प्रज्ञप्ताः, ? 'कृष विलेखने' कृषन्ति-विलिखन्ति कर्मरूपं क्षेत्रं सुखदुःखशस्योत्पादनायेति कषायाः, औणादिक आयप्रत्ययो निषातनाच्च ऋकारस्य अकारः, यदिवा कलुषयन्ति-शुद्धस्वभावं सन्तं कर्ममलिनं कुर्वन्ति जीवमिति कषायाः पूर्ववत् आयप्रत्ययः निपातनाच्च कलुषशब्दस्य णिजन्तस्य कषायादेशः उक्तं च"सुहदुक्खबहुस्सइयं कम्मक्खेत्तं कसंति ते जम्हा । कलुसंति जं च जीवं तेणं कसायत्ति वुच्च॑ति ।। " 119 11 - निर्वचनसूत्रं क्षुण्णार्थं, नैरयिकादिदण्डकसूत्रमपि सुगमं,मू. (४१४) कतिपतिट्ठिए णं भंते ! कोहे पं० ?, गो० ! चउपतिट्ठिए कोहे पं०, तं०-आयपतिट्ठिए परपतिट्ठिए तदुभयपतिट्ठिए अप्पइट्ठितै, एवं नेरइयाणं जाव वेमाणियाणं दंडतो, एवं माणेणं दंडतो मायाए दंडओ लोभेणं दंडओ । कति (हिं) णं भंते! ठाणेहिं कोहुप्पत्ती भवति ?, गो० ! चउहिं ठाणेहिंकोहुप्पत्ती भवति, तं०- खेत्तं पडुच्च वत्थु पडुच्च सरीरं पडुच्च उवहिं पडुच्च, एवं नेरइयाणं जाव वेमाणियाणं । एवं माणेणवि मायाएवि लोभेणवि, एवं एतेवि चत्तारि दंडगा । वृ. 'कइपइट्ठिए णं भंते!' इत्यादि, कतिषु कियप्रकारेषु स्थानेषु प्रतिष्ठितो भदन्त ! क्रोधः ?, भगवानाह - चतुष्प्रतिष्ठितः, तद्यथा - आत्मप्रतिषअटित इत्यादि, आत्मन्येव प्रतिष्ठितः आत्मप्रतिष्ठितः, किमुक्तं भवति ? - स्वयमाचरितस्य ऐहिकं प्रत्ययायमवबुध्य कश्चिदात्मन एवोपरि क्रुध्यति तदा आत्मप्रतिष्ठितः क्रोध इति, यदा पर उदीरयति आक्रोशादिना कोपं तदा किल तद्विषयःक्रोध उपजायते इति स परप्रतिष्ठित इति, नैगमनयदर्शनमेतत्, नैगमनयो हि तद्विषयमात्रेणापि तव्प्रतिष्ठितं मन्यते यथा जीवे सम्यग्दर्शनमजीवे सम्यग्दर्शनमित्यादयोऽष्टौ भङ्गाः सम्यग्दर्शनस्याधिकरणचिन्तायामावश्यके, तदुभयप्रतिष्ठितः - आत्मपररूपोभयप्रतिष्ठितः, यदा कश्चित् तथाविधापराधवशादात्मपरविषयं क्रोधमाधत्ते इति, अप्रतिष्ठितो नाम यदैष स्वयं दुश्चरणमाक्रोशादिकं च कारणं विना निरालम्बन एव केवलक्रोधवेदनीयादुपजायते, स हि नात्मप्रतिष्ठितः स्वयं दुश्चरणाभावतःस्वात्मविषयत्वाभावात्, नापि परप्रतिष्ठितः परस्यापि निरपराधतया अपराधसम्मभावनाया अभावतः क्रोधालम्बनत्वायोगात्, (तथा नोभयप्रतिष्ठितोऽपि) दृश्यते च कस्यापि कदाचिदेवमेव केवलक्रोधवेदनी For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324