Book Title: Agam Suttani Satikam Part 10 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
पदं-१२, उद्देशकः-, द्वारं
२९५ इतिविशेषतरंपरिमाणंप्रतिपादयति-तासिण'मित्यादि, तासां श्रेणीनांविष्कम्भसूचिरङ्गुलद्वितीयवर्गमूलं तृतीयवर्गमूलप्रत्युत्पन्नं, एतदुक्तं भवति
अङ्गुलमात्रौत्रप्रदेशराशेरसत्कल्पनया षट्पञ्चाशदधिकशतद्वयप्रमाणस्य यत् द्वितीयं वर्गमूलं, असत्कल्पनया चतुष्कलश्रणं, तत्तृ तीयेन वर्गमूलेन, असत्कल्पनया द्विकरूपेण गुण्यते, गुणितेच सतियावान्प्रदेशराशिर्भवति, असत्कल्पनयाअष्टौ, तावप्रदेशात्मिकया विष्कम्भसूच्या परिमिताः श्रेणयः परिग्राह्याः, तत्रापिताएव अष्टौ श्रेणय इतिप्रकारद्वयेऽप्यर्थाभेदः,आहारकाणि नैरयिकवत्, तैजसकार्मणानि बद्धानि बद्धवैक्रियवत्, मुक्तान्यौधिकमुक्तवत् ॥
पदं- १२ - समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे द्वादशपदस्य मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता।
(पदं-१३- "परिणाम") वृतदेवं व्याख्यातं द्वादशमं पदं, सम्प्रति त्रयोदशमारभ्यते, तस्य चायमभिसम्बन्धःइहानन्तरपदे औदारिकादिशरीरविभागउक्तः, तानिपुनः शरीराणितथा परिणामे भवन्ति नान्यथा ततः परिणामस्वरूपप्रतिपादनार्थमिदमारभ्यते, तत्र चेदमादिसूत्रं
मू. (४०५) कतिविधे णं भंते ! परिणामे पन्नत्ते?, गो० ! दुविहे परिणामे पं०, तं० जीवपरिणामे य अजीवपरिणामे य।
वृ. 'कइविहेणं भंते! परिणामे पं०?' इत्यादि, कतिविधः-कतिप्रकारो, णमिति वाक्यालङ्कारे, भदन्त ! परिणामः प्रज्ञप्तः, परिणमनं परिणामः, 'कर्तरी ति भावे धअत्ययः, परिणमनं चनयभेदेन विचित्रं, नयाश्च नैगमादयोऽनेके, तेषां च समस्तानामपि सङ्गाहको प्रवचने द्वौ नयौ, तद्यथा--द्रव्यास्तिकनयः पर्यायास्तिकनयश्च, तथा चाहुः श्रीमल्लवादिनः॥१॥ “तित्थयरवयणसंगहविसेसपत्थारमूलवागरणा।
दवडिओ य पज्जवनओ य सेसा विगप्पा सिं।" तत्र द्रव्यास्तिकनयमतेन परिणमनं नाम यत्कथञ्चित् सदेवोत्तरपर्यायरूपं धर्मान्तरमधिगच्छति, नचपूर्वपर्यायस्यापिसर्वथाऽवस्थानंनाप्येकानतेन विनाशः, तथा चोक्तम्॥१॥ “परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम्।
नच सर्वथा विनाशः परिणामस्तद्विदामिष्टः ।।" पर्यायास्तिकनयमतेनपुनःपरिणमनंपूर्वसत्पर्यायापेक्षया विनाश उत्तरेणचासता पर्यायेण प्रादुर्भावः, तथा चामुमेव नयमधिकृत्यान्यत्रोक्तं॥१॥ “सत्पर्यायेण विनाशः प्रादुर्भावोऽसद्भावपर्ययतः ।
___ द्रव्याणां परिणामः प्रोक्तः खलु पर्ययनस्य ॥" भगवानाह-गौतम! द्विविधः परिणामः प्रज्ञप्तः, तद्यथा-जीवपरिणामश्चाजीवपरिणामश्च, तत्र जीवस्य परिणामो जीवपरिणामः, स प्रायोगिकः, अजीवस्य परिणामोऽजीवपरिणामः, स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324