Book Title: Agam Suttani Satikam Part 10 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
पदं-१२, उद्देशकः-, द्वारं
२८३ भन्नंति, एवमेक्कक्केस्स ओरालियसरीरस्सअमंतभेयभिन्नत्तणओ अनंताइंचेव ओरालियसरीराई भवंति" इत्यादि, आह-कथमेकैकशरीरद्रव्यदेशःशरीरत्वेन व्यवहियते?, उच्यते, लवणदृष्टानते न, तथाहि-खार्यपि लवणमुच्यते द्रोणोऽपि लवणमाढकोऽपि लवणं यावदेकापि शर्करा लवणमेवमिहापिसकलमप्यौदारिकशरीरमुच्यते तदर्द्धमपि तदेकदेशोऽपियावदनन्तभागोऽपि शरीरमिति, कोऽत्राभिप्राय इति चेत् ?,
उच्यते, इह यथा लवणपरिणामपरिणतः स्तोको बहुर्वा पुद्गलसातो लवणमुच्यते तथौदारिकशरीरयोग्यपुद्गलसङ्घातोऽपि औदारिकत्वेन परिणतः स्तोको वा बहुर्वा औदारिकशरीरव्यपदेशं लभते, अथवा भवति समुदायैकदेशेऽपि समुदायशब्दोपचारो, यथा-अङ्गुल्यग्रे स्पृष्टेमया देवदत्ता इत्यादौ, तत उपचारान कश्चिद्दोषः, ननुयद्येवं कथं तान्यनन्तलोकाकाशप्रदेशप्रमाणान्यौदारिकशरीराण्येकस्मिन् लोकेऽवगाढानि?, उच्यते, प्रदीपप्रकाशवत्, तथाहियथैकस्यापि प्रदीपस्या/षि सकलभवनावभासीनि भवन्ति, अन्येषामनेकेषां प्रदीपानाम/षि तत्रैवानुप्रविशन्ति, परस्परमविरोधात्, तथौदारिकाण्यपि, एवं शेषशरीरेष्वपि मुक्तेष्वायोज्यं, ननुद्रव्यक्षेत्रेविहाय किमिति प्रथमतः कालेन प्ररूपणा कृता?, उच्यते, कालाननतरावस्थायितया पुद्गलेषु शरीरोपचारो नान्यथा ततः कालो गरीयान् इति प्रथमस्तेन प्ररूपणा।।
उक्तान्यौदारिकाणि, सम्प्रति वैक्रियसूत्रमाह-'केवइयाणंभंते!' इत्यादि, बद्धान्यसङ्खयेयानि, तत्र कालतः परिमाणं प्रतिसमयमेकैकशरीरापहारे सामस्त्येनासङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, किमुक्तंभवन्ति?-असङ्खयेयासूत्सर्पिण्यवसर्पिणयसर्पिणीषु यावन्तः समायास्तावप्रमाणानीति, क्षेत्रतोऽसङ्खयेयाः श्रेण्यस्तासां श्रेणीनां परिमाणं प्रतरस्यासङ्ख्येयो भागः किमुक्तं भवति?-प्रतरस्यासङ्खयेयतमे भागेयावत्यः श्रेण्यस्तासुच श्रेणिषुयावन्तआकाशप्रदेशास्तावप्रमाणानि बद्धानि वैक्रियशरीराणीति, अथ श्रेणिरिति किमभिधीयते ? उच्यते,
__ घनीकृतस्य लोकस्य सर्वतः सप्तरज्जुप्रमाणस्यायामतः सव्वरज्जुप्रमाणामुक्तावलिरिवैकाकाशप्रदेशपङ्कितः, कथं पुनर्लोको घनीक्रियते ?, कथं वा सप्तरज्जुप्रमाणो भवति इति चेत् ?, उच्यते, इहलोक ऊर्ध्वाधश्चतुर्दशरज्जुप्रमाणोऽधस्ताद्विस्तरतो देशोनसप्तरज्जुप्रमाणाः एकरज्जुर्मध्यभागे ब्रह्मलोकप्रदेशे बहुमध्यदेशभागेपञ्चरज्जुरुपरि एका रज्जुर्लोकान्ते, रजोश्चपरिमाणं स्वयम्भूरमणसमुद्रस्य पूर्ववेदिकान्तादारभ्यापरवेदिकान्तं यावत्, एवंप्रमाणस्य लोकस्य वैशाखस्थानस्थकटिस्थकरयुग्मपुरुषाकारस्य बुध्या त्रसनाड्या दक्षिणभागवत्यधोलोकखण्डमधो देशोनत्रिरजुविस्तारमतिरिक्तसप्तचरज्जूच्छ्रयं परिगृह्यं त्रसनाड्या उत्तरपार्वे ऊर्ध्वाधोभागाविपर्यासेन सङ्घात्यते-ऊध्वभागोऽधः क्रियतेअधोभागस्तूर्द्धमिति सङ्घात्यते इति, तत ऊर्ध्वलोके त्रसनाड्या दक्षिणभागवर्तिनीये द्वेखण्डे कूर्पराकारसंस्थिते प्रत्येकं देशोनार्द्धचतुष्टरज्जूच्छ्रयेतेबुध्ध्या समादाय वैपरीत्येनोत्तरपार्वे सङ्घात्येते, एवं च किं जातम् ?,
अधस्तनं लोकार्धंदेशोनचतूरज्जुविस्तारं सातिरेकसप्तरजूच्छ्रयं उपरितनमर्द्धत्रिरज्जुविस्तारं देशोनसप्तरज्जूच्छ्रयं, तेन उपरितनमर्द्धबुध्या गृहीत्वाऽधस्तनस्यार्द्धस्योत्तरपार्वेसङ्घात्यते, तथा चसति सातिरेकसप्तरज्जूच्छ्रयो देशोनसप्तरज्जुविस्तारोधनो जातः, अतः सप्तरज्जूनामुपरियदधिकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324