Book Title: Agam Suttani Satikam Part 10 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 289
________________ २८६ प्रज्ञापनाउपाङ्गसूत्र-१-१२/-/-/४०२ वर्गमूलेन गुण्यते, गुणिते च सति यावन्तः प्रदेशा भवन्ति तावत्प्रदेशात्मिका सूचिर्बुद्धया क्रियते, कृत्वा च विष्कम्भतो दक्षिणोत्तरायततया स्थापनीया, तया च स्थाप्यमानया यावत्यः श्रेणयः स्पृश्यन्ते तावत्यः परिगृह्यन्ते, तत्रेदं निदर्शनम् ___ अङ्गुलमात्रक्षेत्रप्रदेशराशिस्तत्त्वतोऽसङ्ख्यातोऽप्यसत्कल्पनया षट्पञ्चाशदधिके द्वेशते कल्प्येते, तयोः प्रथमवर्गमूलंषोडश द्वितीयंचत्वारस्तृतीयं द्वौ, तत्रद्वितीयेनवर्गमूलेनचतुष्कलक्षणेन प्रथमं वर्गमूलं षोडशलक्षणं गुण्यते जाताः चतुःषष्टिः, एतावत्यः श्रेणयः परिगृह्यन्ते, अमुमेवार्थं प्रकारान्तरेण कथयति ___ 'अहवण'मित्यादि अथवेति प्रकारान्तरे णमिति वाक्यालङ्कारे अङ्गुलमात्रक्षश्रेत्रप्रदेशराशेर्द्वितीयस्य वर्गमूलस्यासत्कल्पनया चतुष्कलक्षणस्य यो धनस्तावप्रमाणाः, इह यस्य राशेर्योवर्गःसतेनराशिनागुण्यतेततोधनोभवति, यथाद्विकस्याष्टी, तथाहि-द्विकस्यवर्गश्चत्वारस्ते द्विकेन गुण्यन्ते जाता अष्टाविति, एवमिहापि चतुष्कस्य वर्गः षोडश ते चतुष्केन गुण्यन्ते ततश्चतुष्कस्य घनो भवति, तत्रापि सैव चतुःषष्टिरिति, प्रकारद्वयेऽप्यर्थाभेदः, इहायं गणितधर्मो यद्वहु स्तोकेन गुण्यते, ततः सूत्रकृता प्रकारद्वयमेवोपदर्शितं, अन्यथा तृतीयोऽपि प्रकारोऽस्ति 'अंगुलबिइयवग्गमूलं पढमवग्गमूलपडुप्पण्ण'मिति अन्ये त्वभिदधति-अङ्गुलमात्रक्षेत्रप्रदेशराशेः स्वप्रथमवर्गमूलेन गुणने यावान् प्रदेशराशिर्भवति तावप्रमाणया सूच्या यावत्यः स्पृष्टाः श्रेण्यस्तावतीषु श्रेणिषुयावन्तआकाशप्रदेशास्तावप्रमाणानि नैरयिकाणां बद्धानि वैक्रियशरीराणीति, मुक्तान्यौदारिकवत्।। आहारकाणि बद्धानिन सन्ति, तेषांतल्लब्थ्यसम्भवात्।मुक्तानि पूर्ववत्, तैजसकार्मणानि बद्धानि वैक्रियवत्, मुक्तानि पूर्ववत्। मू. (४०३) असुरकुमाराणं भंते! केवइयाओरालियसरीरापं०?, गो०! जहा नेरइयाणं ओरासियसरीरा भणिता तहेव एतेसिंभाणितव्वा, असुरकुमाराणंभंते! केवइया वेउब्वियसरीरा पं०?, गो० ! दुविहा पं०, तं०-बद्धेल्लगा य मुक्केलगाय, तत्थ णंजे ते बद्धेल्लगा ते णं असंखेज्जा असंखेजाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालतो खेत्ततो असंखेजाओ सेढीतो पयरस्स असंखेज्जतिभागो तासि णं सेढीणं विखंभसूई अंगुलपढमवग्गमूलस्स संखेजतिभागो, तत्थणंजे ते मुक्केल्लंगा तेणंजहाओरालियस्स मुक्केलगातहा भाणियब्वा, आहारसरीरगा जहा एतेसिं चेव ओरालिया तहेव दुविहा भाणियव्वा, तेयाकम्मगसरीरा दुविहावि जहा एतेसिं चेव विउब्बिया, एवं जाव थणियकुमारा। वृ. असुरकुमाराणामौदारिकशरीराणि नैरयिकवत्, वैक्रियाणि बद्धान्यसङ्खयेयानि, तदेवासङ्खयेयत्वं कालक्षेत्राभ्यां प्ररूपयति, तत्र कालसूत्रं प्राग्वत्, क्षेत्रतोऽसङ्खयेयाः श्रेणयः, असङ्खयेयासुश्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीत्यर्थः, ताश्च श्रेणयःप्रतरस्यासङ्ख्येयो भागः,प्रतरासङ्खयेयभागप्रमिता इत्यर्थः, तत्र नारकचिन्तायामपिप्रतरासङ्ख्येयभागप्रमिता उक्ताः, ततो विशेषतरं परिमाणमाह-'तासि ण'मित्यादि, तासां श्रेणिनां परिमाणाय या विष्कम्भसूचिः सा अङ्गुलमात्रक्षेत्रप्रदेशराशेः सम्बन्धिनः प्रथमवर्गमूलस्य सङ्खयेयो भागः, किमुक्तं भवति For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324