Book Title: Agam Suttani Satikam Part 10 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२८२
प्रज्ञापनाउपाङ्गसूत्र-१-१२/-1-1४०१ लोकाः, अनन्तेषुलोकप्रमाणेष्वाकाशखण्डषुयावन्तआकाशप्रदेशास्तावप्रमाणानीत्यर्थः, द्रव्यतः परिमाणमभवसिद्धिकेभ्यः अभव्येभ्योऽनन्तगुणानि, यद्येवंतर्हि सिद्धराशिप्रमाणानिभविष्यन्ति तत आह-सिद्धानामनन्तभागः-अनन्तभागमात्राणि, ननुद्वयोरपिराश्योरभवसद्धिकसिद्धिरूपयोर्मध्ये पठ्यन्तेप्रतिपतितसम्यग्दृष्टयः तकिंतद्राशिप्रमाणानि भवेयुः?, उच्यते, यदितप्रमाणानि स्युस्तर्हि तथैव निर्देशः क्रियेत, सुखप्रतिपत्तिकृतप्रतिज्ञा हि भगवन्त आर्यश्यामाः, ततस्तथा निर्देशाभावादवसीयते-न तद्राशिप्रमाणानि, ननु तर्हि तेषां प्रतिपतितसम्यग्दृष्टीनामधस्ताद् भवेयुरुपरिवा?,उच्यते, कदाचिदधस्तात्कदाचिदुपरिकदाचित्तुल्यान्यपिअनियतप्रमाणत्वात्, नतु सर्वकालं तप्रमाणानीति, आह च चूर्णिकृत
“तो किं परिवडियसम्मद्दिष्ट्टिरासिप्पमाणाइं होजा ते ?, तेसिं दोहवि रासीणं, मज्झे पढिजंतित्तिकाउं?, भन्नइ, जइ तप्पमाणाइंहोताइंतोतेसिंचेव निद्देसोहोंतोतम्हानतप्पमाणाई, तो किं तेसिं हिट्ठा होज्जा उवरिं होज्जा ?, भन्नइ, कयाई हेट्ठा कयाइ उवरिं होंति कयाइ तुल्लाईन निचकालं तप्पमाणाई' इति, अपरः प्राह-कथंमुक्तानि यथोक्तानन्तसङ्ख्यापरिमाणान्युपपद्यन्ते यतो यदि तावदौदारिकादिशरीराणि यावदविकलानि तावद् गृह्यन्ते ततस्तेषामनन्तकालमवस्थानाभावादनन्तत्वं न घटते, यदि ह्यनन्तमपि कालमवस्थानं भवेत् ततोऽनन्तेन कालेन तत्तच्छरीरगणनादनन्तानि भवेयुः, यावताऽनन्तं कालमवस्थानं नास्ति, पुद्गलानामुत्कर्षतोऽप्यसङ्खयेयकालावस्थानाभिधानात्, अथच ये पुद्गदलाजीवैरौदारिकत्वेन गृहीत्वामुक्ता अतीताद्धायां तेषां ग्रहणं तर्हि सर्वेऽपिपुद्गलाः सर्वैरपि जीवैः प्रत्येकमौदारिकत्वेन गृहीत्वा मुक्ता इति सर्वपुंगलग्रहणमापन्नं, तथा च सति यदुक्तम्
___ अभवसिद्धिकेभ्योऽनन्तगुणानि सिद्धानामनन्तभागमात्राणीति तद् विरुध्यते, सर्वजीवेभ्योऽनन्तानन्तगुणकारेणानन्तगुणत्वस्य प्रसक्तत्वादिति चेत्, उच्यते, इह मुक्तानामौदारिकशरीराणां नाविकलानामेव केवलानां ग्रहणंनाप्यौदारिकत्वेन गृहीत्वा मुक्ताः पुद्गलाः, तेषामुक्तदोषप्रसङ्गात्, किन्तुयच्छरीरमौदारिकंजीवेन गृहीकत्वामुक्तंत विशरारुभावं विभ्राणमनन्तभेदभिन्नं भवति ते चानन्ता भेदा भवन्तो यावत्ते पुद्गला औदारिकपरिणामं न जहति तावप्रत्येकमौदारिकशरीरव्यपदेशं लभन्ते, ये पुनरौदारिकपरिणामं त्यक्तवन्तस्ते न गण्यन्ते, तत एवमेकस्यापि शरीरस्यानन्तानि शरीराणिजातानि, एवं सर्वशरीरेष्वपि भावनीयं, तथा च सत्येकैकस्य शरीरस्यानन्तभेदभिन्नत्वादेकस्मिन्नपि समये प्रभूतान्यनन्तानि शरीराण्यवाप्यन्ते, तेषांचासङ्खयेयकालमवस्थानं, तेनचासङ्खयेयेन कालेनान्यानिजीवैर्विप्रमुक्तान्यसङ्खयेयान्यवाप्यन्ते, तान्यपि च प्रत्येकमनन्तभेदभिन्नानि, तेषु च मध्ये तावता कालेन यान्यौदारिकशरीरपरिणाम विजहति तानि परित्यज्यन्ते शेषाणि गण्यन्ते, तत एवं मुक्तानि यथोक्तप्रमाणानन्तसङ्ख्याकान्यौदारिकशरीराण्युपपद्यन्ते इति, न चैतस्वमनीषिकाविजृम्भितं, यत आह चूर्णिकृत्
“नविअविगलाणमेव केवलाणंपिगहणंएयंन यओरालियगहणमुक्काणंसव्वपुग्गलाणं, किन्तुजंसरीरमोरालिकंजीवेण मुकंतंचेवअणंतभेयभिन्नं च] होइजावतेपुग्गलांतंजीवनिव्वत्तियं ओरालियसरीरकायप्पओगं न मुंचंति न ताव अन्नपरिणामेणं परिणमंति ताई पत्तेयं सरीराई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324