Book Title: Agam Suttani Satikam Part 10 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२४७
पदं-१०, उद्देशकः-, द्वारंचाचरमौच, तत्रयदा चतुष्प्रदेशात्मकः स्कन्धः समश्रेण्या व्यवस्थितेषु चतुष्वाकाशप्रदेशेषुएवमगाहते, तदाऽऽद्यन्तद्विप्रदेशावगाढौ द्वौ परमाणू चरमौ द्वयोस्तु मध्यमयोराकाशप्रदेशयोरगाढौ द्वौ परमाणू अचरमाविति, एकादशः स्याच्चरमश्चावक्तव्यश्च, स चैवं-, यदा स चतुष्प्रदेशकः स्कन्धः त्रिष्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते स्थापना-, तदा समश्रेणियव्यवस्थितद्विप्रदेशावगाढाम्रयः परमाणवोद्विप्रदेशवगाढद्विप्रदेशस्कन्धवत् चरमः एकश्च विश्रेणिस्थः परमाणुरिवचरमाचरमशब्दाभ्यांव्यपदेष्टुमशक्यत्वात्अवक्तव्यइति, द्वादश; स्याच्चरमश्चावक्तव्यौ च, स चैवं-, यदा स चतुष्प्रदेशात्मकः स्कन्धश्चतुष्वाकाशप्रदेशेषु एवमवगाहते-द्वौ परमाणू द्वयोः समश्रेण्या व्यवस्थितयोराकाशप्रदेशयोः द्वौ परमाणू द्वयोर्विश्रेण्या व्यवस्थितयोः, तदा द्वौ परमाणू समश्रेण्या व्यवस्थितौ द्विप्रदेशावगाढद्विप्रदेशस्कन्धवत् चरमः द्वौ च परमाणू विश्रेणिव्यवस्थितौ केवलपरमाणुवच्चरमाचरमशब्दाभ्यांव्यपदेष्टुमशक्यावित्यवक्तव्यौ, त्रयोविंशतितमः स्याच्चरमौ चाचरमश्चावक्तव्यश्च, कथमिति चेद्, । उच्यते, इह यदा स चतुष्प्रदेशकः स्कन्धः चतुष्वाकाशप्रदेशेष्वेवमवगाहते-त्रयःपरमाणवस्त्रिषुसमश्रेण्या व्यवस्थितेष्वाकाशप्रदेशेषुएको विश्रेणिस्थे प्रदेशे, तदा त्रिषु परमाणुषु समश्रेणिव्यवस्थितेषु मध्ये आद्यन्तौ परमाणू पर्यन्तवर्तित्वाच्चरमौ मध्यमस्त्वचरमः विश्रेणिस्थस्त्व-वक्तव्य इति, वक्ष्यति च॥१॥ “पढमो तइओ नवमो दसमो इक्कारसो य बारसमो।
भङ्गा चउप्पएसे तेवीसइमो य बोद्धव्वो॥" गतार्था । 'पंचपएसिए णं भंते !' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनमाह-'गोयमा ! सिय चरमे' इत्यादि, इह प्रथमतृतीयसप्तमनवमदशमैकादशद्वादशत्रयोदशत्रयोविंशतितमचतुर्विंशतितमपञ्चविंशतितमरूपा एकादश भङ्गा ग्राह्याः, शेषाः प्रतिषेध्याः, वक्ष्यति च॥१॥ “पढमो तइओ सत्तम नवदसइक्कारबारतेसमो।
तेवीसचउव्वीसा पणवीसइमो य पंचमए॥" । तत्रायंप्रथमो भङ्गः-स्याञ्चरमइति, इह यदापञ्चप्रदेशात्मकः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेवमगाहते, त्रयः परमाणव एकस्मिन्नाकाशप्रदेशे द्वौ द्वितीये, - तदा द्विप्रदेशावगाद्विप्रदेशस्कन्धवच्चरमः, तृतीयोऽवक्तव्यः, सचैवं-यदा सपञ्चमप्रदेशात्मकःस्कन्धः एकस्मिन् आकाशप्रदेशेअवगाहते,-तदासपरमाणुवदवक्तव्यः, सप्तमः स्याच्चरमश्चाचरमश्च, स चैवम्- यदा स पञ्चप्रदेशकः स्कन्धः पञ्चस्वाकाशप्रदेशेष्वेवमवगाहते, स्थापना-, तदा ये चरमाश्चत्वारः परमाणवस्तेषामेकसंबन्धिपरिणामपरिणतत्वादेकवर्णत्वादेकगन्धत्वादेकरसत्वादेकस्पर्शत्वाचैकत्वव्यपदेशे चरमइति व्यापदेशः, मध्यस्तु परमाणुर्मध्यवर्तित्वाद् चरमइति, नवमः चरमौ चाचरमश्च, तत्र यदा स पञ्चपदेशकः स्कन्धस्त्रिष्वाकाशप्रदेशेषु समश्रेण्या व्यवस्तितेष्वेवमवगाहते द्वौ-परमाणू अद्ये आकाशप्रदेशे द्वावन्ते एके मध्ये, तदाऽऽद्यप्रदेशावगाढौ द्वौ चरमो द्वावन्त्यप्रदेशावगाढो चरम इति चरमौ मध्यस्तु मध्यवर्त्तित्वादचरमः, दशमः चरमौ चाचरमौच, तत्र यदा सपञ्चप्रदेशात्कमः स्कन्धश्चतुष्वाकाशप्रदेशेषु समश्रेणय्या व्यवस्थितेष्वेवमवगाहते-त्रयः परमाणवस्त्रिष्वाकाशप्रदेशेषुएकस्मिन्द्वाविति,-तदाआद्यप्रदेशवर्ती परमाणुश्वरमः द्वौ चान्त्यप्रदेशस्तिनौ चरम इति चरमौ द्वौ चमध्यवर्तित्वादचरमौ, एकादशः चरमश्चाव
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324