Book Title: Agam Suttani Satikam Part 10 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
पदं-११, उद्देशकः-, द्वारंकोऽत्पाभिप्राय इतिचेत्, उच्यते, इह स्त्रीलिङ्गादयः शब्दाःशाब्दव्यवहारबलादन्यत्रापि प्रवर्त्तन्ते, यथा खट्वाघटकुट्यादयः खट्वादिष्वर्थेषु, न खलु तत्र यथोक्तानि स्त्र्यादिलक्षणानि सन्ति यथोक्तंप्राक्, ततः किमियमव्यापकत्वात्स्त्र्यादिलक्षणप्रतिपादिका भाषान वक्तव्या आहोश्चित् वक्तव्येतिसंशयापनः पृष्टवान्, अत्र भगवानाह-'हंता गोयमे'त्यादि, अक्षरगमनिका सुप्रतीता, भावार्थस्त्वयं-इह स्त्र्यादिलक्षणं द्विधा-शाब्दव्यवहारानुगतं वेदानुगतं च, तत्र यदा शाब्दव्य वहाराश्रितंप्रतिपादयितुमिष्यते तदैवं न वक्तव्यमव्यापाकत्वात्, यथा चाव्यापकता तथा प्रागेव लेशतो दर्शिता, विस्तरतस्तु स्वोपज्ञशब्दानुशासनविवरणे, तत इयं तदधिकृत्य प्रज्ञापनी, यदा तुवेदानुगतं प्रतिपादयितुमिष्यते तदा यथावस्थितार्थाभिधानात् प्रज्ञापन्येव, न मृषेति। _ 'अह भंते ! जा जातीति इथिवऊ' इत्यादि, अथ भदन्त ! या जातिः स्त्रीवाक् जाती स्त्रीवचनं सत्तेति, या जातौ पुंवाक् पुंवचनं भाव इति, याच जातौ नपुंसकवाक् सामान्यमिति, प्रज्ञापनी एषाभाषानैषा भाषा मृषेति?, कोऽत्राभिप्रायइतिचेत्, उच्यते, जातिरिह सामान्यमुच्यते, सामान्यस्यचन लिङ्गसङ्ख्याभ्यांयोगो, वस्तूनामेव लिङ्गसख्यायभ्यायोगस्यतीर्थान्तरीयैरभ्युपगमात्, ततो यदि परं जातावोत्सर्गिकमेकवचनं नपुंसकलिङ्गं चोपपद्येत न त्रिलिङ्गता, अथ च त्रिलिङ्गाभिधायिनोऽपि शब्दाः प्रवर्तन्ते यथोक्तमनन्तरं ततः संशयः-किं एषा भाषा प्रज्ञापनी उत नेति?, अथ भगवानाह–'हंतागोयमा!' इत्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं-जाति म सामान्यमुच्यते, सामान्यं च न परिकल्पितमेकमनवयवमक्रियं, तस्य प्रमाणबाधितत्वात्, यथा च प्रमाणबाधितत्वं तथा तत्त्वार्थटीकायां भावितमिति ततोऽवधायँ, किन्तु समानः परिणामो 'वस्तुन एव समानः परिणामो यः स एव सामान्य मिति वचनात्, समानपरिणामश्चानेकधर्मात्मा, धर्माणां परस्परं धर्मिणोऽपिच सहान्योऽन्यानुवेद्याभ्युपगमात् तथा प्रमाणेनोपलब्धेः, ततोघटते जातेरपि त्रिलिङ्गतेति प्रज्ञापन्येषा भाषा, नैषा भाषा मृषेति।
'अह भंते!' इत्यादि, अथ भदन्त! याजातिस्त्रयाज्ञापनी-जातिमधिकृत्यस्त्रियाआज्ञापनी, यथाअमुका ब्राह्मणी क्षत्रिया वाएवं कुर्यादिति, एवंजातिमधिकृत्य पुमाज्ञापनी नपुसंकाज्ञापनी, प्रज्ञापनी एषा भाषा नैषा भाषा मृषेति ?, अत्रापि संशयकारणमिदं-आज्ञापनी हि नाम आज्ञासम्पादनक्रियायुक्तस्त्याद्यभिधायिनी, स्त्र्यादिश्चाज्ञाप्यमानस्तथा कुर्यान वेति संशयः, किमियं प्रज्ञापनी किं वाऽन्येति?,अत्र निर्वचनमाह-'हंता! गोयमा' इत्यादि, अक्षरार्थःसुगमः, भावार्थस्त्वयं-आज्ञापनी हि नाम परलोकाबाधिनी सा प्रोच्यते या स्वपरानुग्रबुध्या विवितार्थसम्पादनसामोपेतविनीतस्त्र्यादिविनेयजनविषया, यथा अमुका ब्राह्मणी साध्वी शुभं नक्षत्रमघेत्युमुकमङ्गं श्रुतस्कन्धं च पठेत्यादि सा प्रत्रापन्येव, दोषाभावात्, शेषा तु स्वपरपीडाजननान्मृपेत्यप्रज्ञापनीति।
'अहभंते!' इत्यादि, अथभदन्त! याजातिस्त्रीप्रज्ञापनीजातिमधिकृत्यस्त्रिया-स्त्रीलक्षणस्य प्रतिपादिका, यथा स्त्रीः स्वभावात् तुच्छा भवति गौरवबहुला चलेन्द्रिया दुर्बला च धृत्येति, उक्तं च-“तुच्छा गारवबहुला चलिंदिया दुब्बला य धीईए' इत्यादि, या च जातिमधिकृत्य पुम्प्रज्ञापनी-पुरुषलक्षणस्य स्वरूपनिरूपिका, यथापुरुषः स्वभावात् गम्भीराशयोभवतिमहत्यामपि चापदि न क्लीबतां भजते इत्यादि, या च जातिमधिकृत्य नपुंसकप्रज्ञापनी नाम-नपुंसक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324