Book Title: Agam Suttani Satikam Part 10 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 265
________________ २६२ प्रज्ञापनाउपाङ्गसूत्र-१-११/-/-/३७६ जातिप्ररूपिका, यथा नपुंसकः स्वभावात् क्लीबो भवति, प्रबलमोहानलज्वालाकलापज्वलितश्चेत्यादिप्रज्ञापन्येषाभाषानैषाभाषामषेति, अत्रापीदंसंशयकारणंवण्यते-खलुजातिगुणाः एवंरूपाः परं क्वचित्कदाचिद् व्यभिचारोऽपि दृश्यते, तथाहि-रामाऽपि काचित् गम्भीराशया भवतिधृत्या चातीवबलवती, पुरुषोऽपिच कश्चित्तुच्छप्रकृतिरूपो लभ्यते स्तोकायामपिचापदि क्लीबतां भजते, नपुंसकोऽपि कश्चिन्मन्दमोहानलो हेढसत्त्वश्च, ततः संशयः-किमेषा प्रज्ञापनी किं वा नेति ?, अत्र भगवानाह-'हंता ! गोयमा !' इत्यादि, अक्षरार्थः सुगमः, परं भावार्थस्त्वयं-इह जातिगुणप्ररूपणं बाहुल्यमधिकृत्य भवति न समस्तव्यक्तयाक्षेपेणात्एव जातिगुणान्प्ररूपयन्तोविमलधियःप्रायः शब्दसमुच्चारयन्ति, प्रायेणेदं द्रष्टव्यं, यत्रापि न प्रायःशब्दश्रवणंतत्रापिसद्रष्टव्यः प्रस्तावात्, ततः कवचित्कदाचिद्व्यभिचारेऽपि दोषाभावात् प्रज्ञापन्येषा भाषा न मृषेति ॥ इह भाषा द्विधा दृश्यते-एका सम्यगुपयुक्तस्य द्वितीया त्वितरस्य, तत्र यः पूर्वापरानुसन्धानपाटवोपेतः श्रुतज्ञानेन पर्यालोच्यार्थान् भाषते स सम्यगुपयुक्तः, स चैवं जानातिअहमेतद्भाषेइति, यस्तुकरणापटिष्टतयावातादिनोपहतचैतन्यकतया वापूर्वापरानुसन्धानविकलो यथाकथंचित्मनसा विकल्प्य विकल्प्य भाषतेस इतरः, स चैवमपि न जानाति-यथा अहमेतत् भाषेइति, बालादयोऽपिच भाषमाणा श्यन्ते, ततः संशयः-किमेतेजानन्ति यद्वयमेतत्भाषामहे इति किं वा न जानन्तीति पृच्छति मू. (३७७) अह भंते ! मंदकुमाराए वा मंदकुमारिया वा जानति बुयमाणा अहमेसे बुयामीति?, गो०! नो इणढे समढे, नन्नत्थ सण्णिणो, अह भंते ! मंदकुमारए वा मंदकुमारिया वा जाणइ आहारं आहारेमाणे अहमेसे आहारमाहारेमित्ति?, गो० ! नो इणढे समढे, नन्नत्थ सण्णिणो, अह भंते ! मंदकुमारए वा मंदकुमारिया वा जानति अयं मे अम्मापियरो?, गो०! नो इणढे समढे, नन्नत्थ सण्णिणो, ___अहभंते! मंदकुमारए वामंदकुमारिया वा जानति अयंमेअतिराउलोअयंमेअइराउवलेत्ति गो० ! नो तिणढे समढे, नन्नत्थ सण्णिणो, अह भंते ! मंदकुमारए वा मंदकुमारिया वा जानति अयं मे भट्टिदारए अयं मे भट्टिदारियत्ति?, गो० ! नो इणढे समढे, नन्नत्थ सण्णिणो, अह भंते! उट्टे गोणे खरे घोडए अए एलतो जाणति बुयमाणे अहमेसे बुयामि?, गो० ! नो इणढे समढे, नन्नत्थ सण्णिणो, अह भंते ! उट्टे जाव एलते जानति आहारं आहारेमाणो अहमेसे आहारेमि?, गो०! नो इणढे समढे जाव नन्नत्थ सण्णिणो, अह भंते ! उट्टे गोणे खरे घोडए अए एलए जानति, अयं मे अम्मापियरो ?, गो० ! नो इणढे समढे जाव नन्नत्थ सण्णिणो, अह भंते ! उट्टे जाव एलए जाणति, अयं मे अतिराउलेत्ति?, गो० ! नो इणढे समढे जाव नन्नत्थ सण्णिणो, अह भंते! उट्टे जाव एलए जानति अयं मे भट्टिदारए २?, गोयमा! नो इणढे समढे जाव नन्नत्य सण्णिणो। वृ. 'अह भंते ! मंदकुमारए वा' इत्यादि, अथ भदन्त ! मन्दरकुमारकः-उत्तानशयो बालको मन्दकुमारिका-उत्तानशया बालिका भाषमाणाभाषायोग्यान् पुद्गलानादाय भाषात्वेन For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324