Book Title: Agam Suttani Satikam Part 10 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 276
________________ पदं - ११, उद्देशक:-, द्वारं द्वाभ्यां कानिचित् त्रिभिः कानिचित् चतुर्भिकानिचित्पञ्चभिः, यदा पुनरेकप्रयत्नगृहीतानामपति सर्वेषां द्रव्याणामपि समुदायो विवक्ष्यते तदा नियमात् पञ्चवर्णानि गृह्णन्ति एवं गन्धरसेष्वपि भावनीयं, स्पर्शतः चिन्तायामेकस्पर्शप्रतिषेध एकस्यापि परमाणोवश्यं स्पर्शद्वयभावात्, तथा चोक्तम् 119 11 "कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गश्च ॥” द्विस्पर्शानि-मृदुशीतानि मृदूष्णानीत्यादि, 'जाव चउफासा' इति यावच्छब्दकरणात् त्रिस्पर्शपरिग्रहः, तत्रत्रिस्पर्शान्येवं कानिचित् द्रव्याणि किल मृदुशीतस्पर्शानि कानिचित् मृदुस्निग्धस्पर्शानि, तत्र मृदुस्पर्शो मृदुस्पर्श एवान्तर्भूत इत्येकस्पर्शः शीतस्निग्धरूपो तु द्वान्यौ स्पर्शाविति समुदायमधिकृत्य त्रिस्पर्शानि, एवं स्पर्शान्तरयोगेऽपि त्रिस्पर्शानि भावनीयानि कानिचिच्चतुःस्पर्शानि तत्र चतुःस्पर्शेषु मृदुलघुरूपो द्वौ स्पर्शाववस्थितौ सूक्ष्मस्कन्धेषु तयोरवश्यंभावात्, अन्यौ तु द्वौ स्पर्शी स्निग्धोष्णी स्निग्धशीतौ रूक्षोष्णी रूक्षशीतौ, सर्वसमुदायमपेक्ष्य नियमात्तानि चतुःस्पर्शानि गृह्णाति, तत्र यौ द्वौ मृदुलघुरूपौ स्पर्शाववस्थितौ ताववस्थितत्वादेव व्यभिचारामावान्न गण्येते ये त्वन्ये स्निग्धादयश्चत्वारस्ते किल वैकल्पिका इति तानधिकृत्य सूत्रमाह-, तद्यथा - 'सीयफासाई गेण्हइ' इत्यादि सुगमं, यावत् 'जाई भंते! अनंतगुणलुक्खाई गेण्हइ' इह किल चरमं सूत्रमनन्तरमिदमुक्तं 'अनंतगुणलुक अइखाइंपिगिण्हइ' ततः सूत्रसम्बन्धवशादिदमुक्तं, जाई भंते! जाव अनंतगुणलुक्खाई गेण्हइ', इति यावता जाई भंते! एगगुणकालवण्णाई' इत्याद्यपि द्रष्टव्यं, 'ताइं भंते! किं पुट्ठाई' इत्यादि, तानि भदन्त ! किं स्पृष्टानि - आत्मप्रदेशसंस्पृष्टानि गह्णाति, उतास्पृष्टानि ? भगवानाह - गो० स्पृष्टानि - आत्मप्रदेशैः सह संस्पर्शमागतानि गृह्णाति नास्पृष्टानि, इहात्मप्रदेशैः संस्पर्शनमात्मप्रदेशावगाहक्षेत्राद्वहिरपि सम्भवति ततः प्रश्नयति 'जाई भंते!' इत्यादि, अवगाढानि - आत्मप्रदेशैः सह एक क्षेत्रावस्थितानि गृह्णन्ति नानवगाढानि, 'जाई भंते!' इत्यादि, अनन्तरावगाढानि - अव्यवधानेनावस्थितानि गृह्णानि न परम्परावगाढानि, किमुक्तं भवति ? - येष्वात्मप्रदेशेषु यानि भाषाद्रव्याण्यवगाढानि तैरात्मप्रदेशैस्तान्येव गृह्णाति न त्वेकद्वित्र्यात्मप्रदेशव्यवहितानि, 'जाई भंते ! अनंतरोगाढ़ाई ' इत्यादि, अणून्यपि स्तोकप्रदेशान्यपि गृह्णति बादराण्यपि प्रभूतप्रदेशोपचितान्यपि, इहाणुत्वबादरत्वे तेषामेव भाषायोग्यानां स्कन्धानां प्रदेशस्तोकबाहुल्यापेक्षया व्याख्याते, मूलटीकाकारेण तथाव्याख्यानात्, 'जाई भंते! अणूइंपि गेण्हइ' इत्यादि, ऊर्ध्वमपि अधोऽपि तिर्यगपीति, इह जीवस्य यावति क्षेत्रे ग्रहणयोग्यानि भाषाद्रव्याण्यवस्थितानि तावत्येव क्षेत्रे ऊर्ध्वधस्तिर्यकत्वं द्रष्टव्यं, ‘जाई भंते ! उड्डुंपि गेण्हइ' इत्यादि, यानि भाषाद्रव्याण्यन्तर्मुहूर्तं यावत् ग्रहणोचितानि तानि ग्रहणोचितकालस्य उत्कर्षतोऽन्तर्मुहूर्त्तप्रमाणस्यादावपि - प्रथमसमये गृह्णति मध्येऽपिद्वितीयादिष्वपि समयेषु गृह्वाति, पर्यवसानेऽपि - पर्यवसानसमयेऽपि गृह्णति, 'जाई भंते ! आइपि गेहइ' इत्यादि, स्वविषयान् स्वगोचरान् स्पृष्टावगाढानन्तरावगाढाख्यान् गृह्णति, न 10 18 Jain Education International २७३ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324