Book Title: Agam Suttani Satikam Part 10 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 260
________________ पदं-११, उद्देशकः-, द्वारं २५७ अवबुध्ये इति-एवं, यदुत् अवधारणी भाषा अवधार्यते-अवगम्यतेऽर्थोनयेत्यवधारणीअवबोधबीजभूता इत्यर्थः, भाष्यते इति भाषा, तद्योग्यतया परिणामितनिसृज्यमानद्रव्यसंहतिः एष पदार्थः, वाक्यार्थः पुनरयं-अथ भदन्त ! एवमहं मन्ये, यदुतावश्यमवधारणी भाषेति, न चैतत् सकृत अनालोच्यैव मन्ये, किन्तु चिन्तयामि युक्तिद्वारेणापि परिभावयामीति-एवं यदुत अवधारणीयंभाषेति, एवमात्मीयमभिप्रायं भगवतेनिवेद्याधिकृतार्थविनिश्चयनिमित्तमेवं भगवन्तं पृच्छति ‘अह मण्णामी इह ओहारिणी भासा' इति, ___ 'अथ-प्रक्रियाप्रश्नानन्तर्यमङ्गलोप-न्यासप्रतिवचनसमुच्चयेषु' इह प्रश्ने, काक्वाचास्य सूत्रस्य पाठस्ततोऽयमर्थंः-अथ-भगवन्नेवमहंमन्येएवमहंमननं कुर्यां, यथा-अवधारणी भाषेति, द्वितीयाभिप्रायनिवेदनमधिकृत्य प्रश्नमाह- 'अह चिंतेमी ओहारिणी भासा' इति, अथ भगवन् ! एवमहं चिन्तयामि? - एवमहं चिन्तनं कुर्यां, यदुतावधारिणी भाषेति निरवद्यमेतदित्यभिप्रायः, सम्प्रति पृच्छासमयात् यथा पूर्वं मननं चिन्तनं वा कृतवानिजानीमपि पृच्छासमये तथैव मननं चिन्तनं वाकरोमिनान्यथेति भगवतो ज्ञानेनसंवादयितुकामः पृच्छति-'तहमन्नामी इतिओहारिणी भासा तह चिंतेमीति ओहारिणी भासा' इति, 'तथेति समुच्चयनिर्देशावधारणसादृश्यप्रश्नेषु' इह निर्देशे, काक्वा चास्यापि पाठः, ततःप्रश्नार्थत्वावगतिः, भगवन् ! यथा पूर्वमतवानिदानीमप्यहं तथा मन्ये इति-एवं यदुतअवधारिणी भाषेति, किमुक्तं भवतकि ?-नेदानीन्तनमननस्य पूर्वमननस्य च मदीयस्य कश्चिद्विशेषोऽस्त्येतत् भगवनमनिति, तथा यथा पूर्वं भगवन् ! चिन्तितवान् इदानीमप्यहं तथा चिन्तयामि इत-एवं यदुत अवधारणी भाषेति, अस्त्येतदिति ?,एवं गौतमेनाभिप्रायनिवेदने प्रश्नेच कृते भगवानाह–“हंतागोयमा! मन्नामी इतिओहारिणी भासा' इति, 'हन्तेतिसम्प्रेषणप्रत्यवधारणविवादेषु' इह प्रत्यवधारणे, मन्नामी इत्यादीनि क्रियापदानि प्राकृतशैल्या छान्दसत्वाच्च युष्मदर्थेऽपिप्रयुज्यन्ते, ततोऽयमर्थः-हन्तगौतम! मन्यसेत्वंयदुतअवधारणी भाषेतिजानाम्यहं केवलज्ञानेनेदमित्यभिप्रायः, तथा चिन्तयसि त्वमित्येवं यदुतावधारणी भाषेति इदमप्यहं वेनि केवलित्वात, 'अह मन्नामी इति ओहारिणी भासा' इति अथेत्यानन्तर्ये, मत्सम्मतत्वात, ऊर्द्ध निःशङ्कमन्यस्व, इति-एवं यदुतावधारिणी भाषेति, अथ इत ऊर्ध्वं निःशङ्कं चिन्तय इति-एवं यदुतावधारणी भाषेति, अतीवेदं साध्वनवद्यमित्यभिप्रायः, तथातथा अविकलंपरिपूर्ण मन्यस्व इति-एवंयदुतावधारणी भाषेति यथापूर्वमतवान्, किमुक्तं भवति?-यथा त्वया पूर्वं मननं कृतमिदानीमपि मत्सम्मतत्वात् सर्वं तथैव मन्यस्व मा मनागपि शङ्का कार्षीरिति, तथा तथा अविकलं परिपूर्णं चिन्तय इति-एवं यदुत अवधारिणी भाषेति, यथापूर्वं चिन्तितवान्, मामनागपिशतिष्ठा इति, तदेवं भाषाअवधारणीति निर्णीतमिदानीमियमवधारिणीभाषा सत्याउत मृषेत्यादिनिर्णयार्थ पृच्छति-'ओहारिणीणं भंते!' इत्यादि, अवधारिणी अवबोधबीजभूता, णमितिप्राग्वत्, भदन्त! भाषाकिंसत्यामृषासत्यामृषाअसत्यामृषा इति, तत्र सन्तो मुनयस्तेषामेनव भगवदाज्ञासम्यगाराधकतया परमशिष्टत्वात् सद्भ्यो हिताइहपरलोकाराधकत्वेन मुक्तिप्रापिका सत्या, युगादिपाठाभ्युपगमात् यः प्रत्ययः, यद्वा यो यस्मै |10|17] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324