________________
पदं-११, उद्देशकः-, द्वारं
२५७ अवबुध्ये इति-एवं, यदुत् अवधारणी भाषा अवधार्यते-अवगम्यतेऽर्थोनयेत्यवधारणीअवबोधबीजभूता इत्यर्थः, भाष्यते इति भाषा, तद्योग्यतया परिणामितनिसृज्यमानद्रव्यसंहतिः एष पदार्थः, वाक्यार्थः पुनरयं-अथ भदन्त ! एवमहं मन्ये, यदुतावश्यमवधारणी भाषेति, न चैतत् सकृत अनालोच्यैव मन्ये, किन्तु चिन्तयामि युक्तिद्वारेणापि परिभावयामीति-एवं यदुत अवधारणीयंभाषेति, एवमात्मीयमभिप्रायं भगवतेनिवेद्याधिकृतार्थविनिश्चयनिमित्तमेवं भगवन्तं पृच्छति ‘अह मण्णामी इह ओहारिणी भासा' इति,
___ 'अथ-प्रक्रियाप्रश्नानन्तर्यमङ्गलोप-न्यासप्रतिवचनसमुच्चयेषु' इह प्रश्ने, काक्वाचास्य सूत्रस्य पाठस्ततोऽयमर्थंः-अथ-भगवन्नेवमहंमन्येएवमहंमननं कुर्यां, यथा-अवधारणी भाषेति, द्वितीयाभिप्रायनिवेदनमधिकृत्य प्रश्नमाह- 'अह चिंतेमी ओहारिणी भासा' इति, अथ भगवन् ! एवमहं चिन्तयामि? - एवमहं चिन्तनं कुर्यां, यदुतावधारिणी भाषेति निरवद्यमेतदित्यभिप्रायः, सम्प्रति पृच्छासमयात् यथा पूर्वं मननं चिन्तनं वा कृतवानिजानीमपि पृच्छासमये तथैव मननं चिन्तनं वाकरोमिनान्यथेति भगवतो ज्ञानेनसंवादयितुकामः पृच्छति-'तहमन्नामी इतिओहारिणी भासा तह चिंतेमीति ओहारिणी भासा' इति,
'तथेति समुच्चयनिर्देशावधारणसादृश्यप्रश्नेषु' इह निर्देशे, काक्वा चास्यापि पाठः, ततःप्रश्नार्थत्वावगतिः, भगवन् ! यथा पूर्वमतवानिदानीमप्यहं तथा मन्ये इति-एवं यदुतअवधारिणी भाषेति, किमुक्तं भवतकि ?-नेदानीन्तनमननस्य पूर्वमननस्य च मदीयस्य कश्चिद्विशेषोऽस्त्येतत् भगवनमनिति, तथा यथा पूर्वं भगवन् ! चिन्तितवान् इदानीमप्यहं तथा चिन्तयामि इत-एवं यदुत अवधारणी भाषेति, अस्त्येतदिति ?,एवं गौतमेनाभिप्रायनिवेदने प्रश्नेच कृते भगवानाह–“हंतागोयमा! मन्नामी इतिओहारिणी भासा' इति, 'हन्तेतिसम्प्रेषणप्रत्यवधारणविवादेषु' इह प्रत्यवधारणे, मन्नामी इत्यादीनि क्रियापदानि प्राकृतशैल्या छान्दसत्वाच्च युष्मदर्थेऽपिप्रयुज्यन्ते, ततोऽयमर्थः-हन्तगौतम! मन्यसेत्वंयदुतअवधारणी भाषेतिजानाम्यहं केवलज्ञानेनेदमित्यभिप्रायः, तथा चिन्तयसि त्वमित्येवं यदुतावधारणी भाषेति इदमप्यहं वेनि केवलित्वात, 'अह मन्नामी इति ओहारिणी भासा' इति अथेत्यानन्तर्ये, मत्सम्मतत्वात, ऊर्द्ध निःशङ्कमन्यस्व, इति-एवं यदुतावधारिणी भाषेति, अथ इत ऊर्ध्वं निःशङ्कं चिन्तय इति-एवं यदुतावधारणी भाषेति, अतीवेदं साध्वनवद्यमित्यभिप्रायः,
तथातथा अविकलंपरिपूर्ण मन्यस्व इति-एवंयदुतावधारणी भाषेति यथापूर्वमतवान्, किमुक्तं भवति?-यथा त्वया पूर्वं मननं कृतमिदानीमपि मत्सम्मतत्वात् सर्वं तथैव मन्यस्व मा मनागपि शङ्का कार्षीरिति, तथा तथा अविकलं परिपूर्णं चिन्तय इति-एवं यदुत अवधारिणी भाषेति, यथापूर्वं चिन्तितवान्, मामनागपिशतिष्ठा इति, तदेवं भाषाअवधारणीति निर्णीतमिदानीमियमवधारिणीभाषा सत्याउत मृषेत्यादिनिर्णयार्थ पृच्छति-'ओहारिणीणं भंते!' इत्यादि, अवधारिणी अवबोधबीजभूता, णमितिप्राग्वत्, भदन्त! भाषाकिंसत्यामृषासत्यामृषाअसत्यामृषा इति, तत्र सन्तो मुनयस्तेषामेनव भगवदाज्ञासम्यगाराधकतया परमशिष्टत्वात् सद्भ्यो हिताइहपरलोकाराधकत्वेन मुक्तिप्रापिका सत्या, युगादिपाठाभ्युपगमात् यः प्रत्ययः, यद्वा यो यस्मै |10|17]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org