SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २५८ हितः स तत्र साधुरिति सत्सु साध्वी सत्या, 'तत्र साधो' विति यः प्रत्ययः, यदिवा सन्तो-मूलोत्तरगुणास्तेषामेव जगति मुक्तिपदप्रापकतया परमशोभनत्वात् अथवा सन्तो- विद्यमानास्ते च भगवदुपदिष्टा एव जीवादयः पदार्थाः अन्येषां कल्पनामात्ररचितसत्ताकतया तत्त्वतोऽसत्त्वात् तेभ्यो हिता तेषु साध्वी वा यथावस्थितवस्तुतत्त्वप्ररूपणेन सत्या, विपरीतस्वरूपा मृषा, उभयस्वभावा सत्यामृषा, या पुनस्तिसृष्वपि भाषास्वनधिकृता-तल्लक्षणायोगतस्तत्रानन्तर्भाविनी सा आमन्त्रणाज्ञापनदिविषया असत्यामृषा, प्रज्ञापनाउपाङ्गसूत्रं - १-११/-/-/३७५ उक्तं च ॥१॥ "सच्चा हिया सयामिह संतो मुनयो गुणा पयत्था वा । तव्विवरीया मोसा मीसा जा तदुभयसहावा ॥ अहिगया जातीसुवि सद्दो चिय केवलो असचमुसा' इति, भगवानाह - 'गोतम ! सिय सच्चा' इत्यादि, स्यात् सत्या सत्याऽपि भवतीत्यर्थः, एवं स्यादसत्या स्यात्सत्यामृषा स्यादसत्यामृषेति, अत्रैवार्थे प्रश्नमाह 'से केणट्टेणं भंते!' इत्यादि, सुगमं, भगवानाह - गौतम ! आराधनी सत्या, इह विप्रतिपत्ती सत्यां वस्तुप्रतिष्ठापनुबध्या या सर्वज्ञमतानुसारेण भाष्यते अस्त्यात्मा सदसन्नित्यानित्याद्यनेकधर्मकलापालिङ्गित इत्यादि सा यथावस्थितवस्त्वभिधायिनी आराध्यते मोक्षमार्गोऽनयेत्याराधनी, आराधिनीत्वात् सत्येति, विराधिनी मृषेति, विराध्यते मुक्तिमार्गोऽनयेति विराधिनी, विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाशया सर्वज्ञत्रमतप्रातिकूल्येन या भाष्यते यथा नास्त्यात्मा एकान्तनित्यो वेत्यादि तथा सत्याऽपि परपीडोत्पादिका सा विपरीतवलस्त्वभिधानात् परपीडाहेतुत्वाद्वा मुक्तिविराधनाद्विराधनी विराधिनीत्वाच्च मृषेति, या तु किञ्चन नगरं पत्तनं वाऽधिकृत्य पञ्चसु दारकेषु जातेष्वेवमभिधीयते, यथाऽस्मिन् अद्य दश दारका जाता इति सा परिस्थूरव्यवहारनयमतेन आराधनविराधिनी, इयं हि पञ्चानां दारकाणां यज्जन्म तावताऽंशेन संवादनसम्भवादाराधिनी, दश न पूर्यन्ते इत्येतावताऽशेन विसंवादसम्भवात् विराधिनी, आराधिनी चासौ विराधिनी च आराधनविराधिनी, कर्म्मधारयत्वात् पुंवद्भावः, आराधनविराधिनीत्वाच्च सत्यामृषा, यातु नौवाराधनी तल्लक्षणविगमात् नापि विराधिनी विपरीतवत्स्वभिधानाभावात् परपीडाहेतुत्वाभावाच्च नाप्याराधन विराधिनी एकदेशसंवादविसंवादाभावात्, हे साधो ! प्रतिक्रमणं कुरु स्थण्डिलानि प्रत्युपेक्षस्वेत्यादिव्यवहारपतिता आमन्त्रिण्यादिभेदभिन्ना सा असत्यामृषा नाम चतुर्थी भाषा, 'से एएणट्टेण 'मित्याधुपसंहारवाक्यं । इह यथावस्थितवस्तुतत्त्वाभधायिनी भाषा आराधिनीत्वात् सत्येत्युक्तं, ततः संशयापन्नस्तदपनोदाय पृच्छति मू. (३७६) अह भंते! गाओ मिया पसू पक्खी पन्नवणी णं एसा भासा न एसा भासा मोसा ?, हंता गो० ! जाय गाओ मिया पसू पक्खी पन्नवणी णं एसा भासा, [पन्नवणी] न एसा भासा मोसा, अह भंते! जा य इत्थीवऊ जा य पुरिसवऊ जा य नपुंसगवऊ पन्नवणी णं एसा भासा न एसा भासा मोसा ?, हंता गो० ! जा य इत्थीवऊ जा य पुमवऊ जा य नपुंसगवऊ न्नवणी णं एसा भासा न एसा भासा मोसा, अह भंते! जा य इत्थिआणमणी जा य पुमआणवणी जा य नपुंसगआणमणी पन्नवणी For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy