________________
पदं - ११, उद्देशक:-, द्वारं
णं एसा भासा न एसा भासा मोसा ?, हंत गो० ! जा य इत्थिआणवणी जा य पुमआणवणी जाय नपुसंग आणवणी पन्नवणी णं एसा भासा न एसा भासा मोसा ।
अहं भंते! जा य इत्थिपन्नवणी जा य पुमपन्नवणी जा य नपुंसगपन्नवणी पन्नवणी णं एसा भासा न एसा भासा मोसा ?, हंता गो० ! जा य इत्थिपन्नवणी जा य पुमपन्नवणी जा य नपुंसगपन्नवणी, पन्नवणी णं एसा भासा णं एसा भासा मोसा, अह भंते ! जा जायीति इत्थिवऊ जातीय पुमवऊ जातीति नपुंसगवऊ पन्नवणी णं एसा भासा न एसा भासा मोसा ?, हंता ! गो० जातीति इत्थिवऊ जाईति पुमवऊ जातीति नपुंसगवऊ पन्नवणी णं एसा भासा न एसा भास मोसा ।
अह भंते! जा जातीइ इत्थियाणमणी जाइत्ति पुमआणवणी जातीति नपुंसगाणमणी पन्नवणी णं एसा भासा न एसा भासा मोसा ?, हंता ! गो० ! जातीति इत्थिआणमणी जातीति पुमआणवणी जातीति नपुंसगाणमणी पन्नवणी णं एसा भासा न एसा भासा मोसा।
अह भंते ! जातीति इत्थिपन्नवणी जातीति पुमपन्नवणी जातीति नपुंसगपपन्नवणी पन्नवणी णं एसा भासा न एसा भासा मोसा ?, हंता ! गो० ! जातीति इत्थिपन्नवणी जाईति पुमपन्नवणी जाईति नपुंसगपन्नवणी पन्नवणीणं एसा भासा नएसा भासा मोसा
२५९
वृ. 'अह भंते! गाओ मिया' इत्यादि, अथ भदन्त ! गावः प्रतीताः, मृगा अपि प्रतीताः, पशवः - अजाः, पक्षिणोऽपि प्रतीताः, प्रज्ञापनी प्रज्ञाप्यतेऽर्थोऽनयेति प्रज्ञापनी, किं अर्थप्रतिपादनी प्ररूपणीयेतियावत्, णमिति वाक्यालङ्कारे, एषा भाषा सत्या नैषा भाषा मृषेति, इयमत्र भावना - गाव इति भाषा गोजातिं प्रतिपादयति, जातौ च त्रिलिङ्गा अप्यर्था अभिधेयाः, लिङ्गत्रयस्यापि जाती सम्भवात् एवं मृगपशुपक्षिष्वपि भावनीयं, न चैते शब्दास्त्रिलिङ्गाभिधायिनस्तथाप्रतीतेरभावात् किन्तु पुंल्लिङ्गगर्भास्ततः संशयः किमियं प्रज्ञापनी किं वा नेति ?, भगवानाह -
'हंता गोयमा ! ' हन्तेत्यवधारणे, गौतम ! इत्यामन्त्रेण, गाव इत्यादिका भाषा प्रज्ञापनी, तदर्थकथनाय प्ररूपणीया, यथावस्थितार्थप्रतिपादकतया सत्यत्वात्, तथापि जात्यभिधायिनीयं भाषा, जातिश्च त्रिलिङ्गार्थसमवायिनी, ततो जात्यभिधानेन त्रिलिङ्गा अपि यथासम्भवं विशेषा अभिहिता भवन्तीति भवति यथावस्थितार्थाभिधानादियं प्रज्ञापनी भाषेति,
यदप्युक्तम्- किन्तु पुंल्लिङ्गगर्भा इति, तत्र शब्दे लिङ्गव्यवस्था लक्षणवशात्, लक्षणं च 'स्त्रीपुंनपुंसकसहोक्तौ परं' तथा 'ग्राम्याशिशुद्विशखुरसङ्घे स्त्री प्राय' इत्यादि, ततो भवेत् क्वचित् शब्दे लक्षणवशात् स्त्रीत्वं क्वचित् पुंस्त्वं क्वचित् नपुंसकत्वं वा, परमार्थतः पुनः सर्वोऽपि जातिशब्दस्त्रिलिङ्गानप्यर्थान् तत्तद्देशकालप्रस्तावादिसामर्थ्यवशादभिधत्ते इति न कश्चिद्दोषः, न चेयं परपीडाजनिका नापि विप्रतारणादिदुष्टविवक्षासमुत्था ततो न मृषेति प्रज्ञापनी ।
'अह भंते ! जा य इत्थिवऊ' इत्यादि, अथेति प्रश्ने भदन्त ! इत्यामन्त्रणे, या च स्त्रीवाक्स्त्रीलिङ्गप्रतिपादिका भाषा खट्वा लतेत्यादिलक्षणा या पुरुषवाक् घटः पट इत्यादिरूपा या च नपुंसकवाक् कुड्यं काण्डमित्यादिलक्षणा प्रज्ञापनीयं भाषा नैषा भाषा मृषेति ?, किमत्र संशयकारणं येनेत्थं पृच्छति ? इति चेत्, उच्यते, इह खट्वाघटकुड्यादयः शब्दाः यथाक्रमं स्त्रीपुंनपुंसकलिङ्गाभिधायिनः, स्त्रीपरुंनपुंसकानां च लक्षणमिदम्
119 11
Jain Education International
“योनिर्मृदुत्वमस्थैर्यं, मुग्धता क्लीबता स्तनौ ।
For Private & Personal Use Only
www.jainelibrary.org