________________
२६०
प्रज्ञापनाउपाङ्गसूत्र-१-११/-1-/३७६
-
पुंस्कामितेति लिङ्गानि, सप्त स्त्रीत्वे प्रचक्षते॥ ॥२॥ मेहनं खरता दाढ्यं, शौण्डीर्यं श्मश्रुघृष्टता।
स्त्रीकामितेति लिङ्गानि, सप्त पुंस्त्वे प्रचक्षते॥ ॥३॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् ।
नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ।।" तथाऽन्यत्राप्युक्तम्॥१॥ “स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः।
उभयोरन्तरं यच्च, तत्र भावे नपुंसकम् ।।" नचैवंरूपाणिस्त्र्यादिलक्षणानिखट्वादिषूपलभ्यन्ते, तथाहि-योकैकावयवपृथक्करणेन सम्यग निभालनं क्रियते तथापि न तेषां स्त्र्यादिलक्षणानां तत्रोपलम्भोऽस्ति ततः प्रज्ञापनीयं भाषानवेतिजातसंशयः तदपनोदाय पृच्छति,अत्र भगवानाह–'हंता गोयमे त्यादिअक्षरगमनिका प्राग्वत्, भावार्थस्त्वयं-नेह शब्दप्रवृत्तिचिन्तायां यथोक्तानि स्त्र्यादिलक्षणानि स्त्रीलिङ्गादिशब्दाभिधेयानि किन्त्वभिधेयधर्मा इयमयभिदंशब्दव्यवस्थाहेतवः गुरूपदेशपारम्पर्यगम्याः स्त्रीलिङ्गादिशब्दाभिधेयाः, नचैते कल्पनामात्रं, वस्तुतस्तत्तच्छब्दाभिधेयतया परिणमनभावात्, तेषामभिधेयधर्माणां तत्त्वतस्तात्तविकत्वात्, आह च शकटसूनुरपि-"अयमियमिदमितिशब्दव्यवस्थाहेतरभिधेयधर्म उपदेशगम्यः स्त्रीपंनपंसकत्वानी"ति, व्यवस्थापितश्चायमर्थो विस्तरकेण स्वोपज्ञशब्दानुशासनविवरण इति, ततःशाब्दव्यवहारापेक्षया यथावस्थितार्थप्रतिपादनात् प्रज्ञापनीयं भाषा, दुष्टविवक्षातःसमुत्पत्तेरभावात् परपीडाहेतुत्वाभावाच्च न मृषेति।
'अहभंते!'इत्यादि, अथभदन्त!याचस्व्याज्ञापनीआज्ञाप्यते-आज्ञासम्पादनेप्रयुज्यतेनयासा आज्ञापनी स्त्रिया आज्ञापनी स्त्र्याज्ञापनी, स्त्रिया आदेशदयिनीत्यर्थः, याच पुमाज्ञापनी नपुंसकाज्ञापनी, प्रज्ञापनीयं भाषा नैषा भाषा मृषेति?, अत्रेदं संशयकारणं-किल सत्या भाषा प्रज्ञापनी भवति, इयं च भाषा आज्ञासम्पादनक्रियायुक्ताभिधायिनी, आज्ञाप्यमानश्च स्त्र्यादिः तथा कुर्यान्न वा?,ततः संशयमापन्नो विनिश्चयाय पृच्छति, अत्र भगवानाह-'हंता गोयमा !' इत्यादि, अक्षरगमनिका सुगमा, भावार्थस्त्वयं-आज्ञापनी भाषा द्विधा-परलोका बाधिनीइतरा च, तत्रया स्वपरानुग्रहबुध्द्याशाठ्यमन्तरेणआमुष्मिकफलसाधनाय प्रतिपन्नैहिकालम्बनप्रयोजना विवक्षितकार्यप्रसाधनसामध्ययुक्ता विनीतस्त्रायादिविनेयजनविषयासापरलोकाबाधिनी एषैव च साधूना प्रज्ञापनी परलोकाबाधनात्, इतरा वितरविषया, सा च स्वपरसङ्कलेशजननात् मृषेत्यप्रज्ञापनी साधुवर्गस्य, उक्तंच॥१॥ "अविनीयमाणवंतो किलिस्सई भासई मुसंतह य।
घंटालोहं नाउं को कडकरणे पवत्तेज्जा ? ॥"
क्रिया हि द्रव्यं विनमयति नाद्रव्यमित्यभिप्रायः। 'अह भंते ! जा य इत्थिपन्नवणी' इत्यादि अथ भदन्त ! या च भाषा स्त्रीप्रज्ञापनीस्त्रीलक्षणप्रतिपादिका, 'योनिर्मुदुत्वमस्थैर्य मुग्धते'त्यादिरूपा, या च पुंप्रज्ञापनी-पुरुषलक्षणप्रतिपादिका मेहनखरता दाढ्य' इत्यादिरूपायाचनपुंसकप्रज्ञापनी-नपुंसकलक्षणाभिधायिनी 'स्तनादिश्मश्रुकेशादिभावाभावसमन्वितमित्यादिलक्षणा प्रज्ञापनीयंभाषा नैषा भाषा मुषेति?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org