SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २५६ प्रज्ञापनाउपाङ्गसूत्रं-१-१०/-/-/३७४ ठिइचरमेणं' इत्यादि, नैरयिको भदन्त ! तत्रैव नरकेषु चरमसमये स्थितिपर्यायरूपेण चरमेण चिन्त्यमानः किं चरमोऽचरमो वा ?, भगवानाह - स्याच्चरमः स्यादचरमः, किमुक्तं भवति ? -यो भूयोऽपि नरकमागत्य स्थितिचरसमयं प्राप्यस्यति सोऽचरमः शेषस्तु चरमः, एवं निरन्तरं यावद् वैमानिकः, बहुत्वदण्डकचिन्तायां 'रमावि अचरमावि' इति, इह ये पृच्छासमये स्थितिचरमसमये वर्त्तन्ते, ते चिन्त्यन्ते इत्येतन्न, अन्यथा उद्वर्त्तनाया विरहस्यापि सम्भवात् एकादीनामपि चोद्वर्त्तनाया भावात् 'चरमावि अचरमावी' त्युभयत्राप्यवश्यंभाविना बहुवचनेन निर्वचनं नोपपद्यते, किन्तु ये पृच्छासमये वर्त्तन्ते ते क्रमेण स्वस्वस्थितिचरमसमयं प्राप्ताः सन्तस्तेन रूपेण चरमा अचरमा वा इत्येतच्चिन्तनेन उपपद्यते यथोक्तं निर्वचनमिति, भवचरमसूत्रं गतिचरमसूत्रवत्, 'नेरइए णं भंते ! भासाचरमेण' मित्यादि, भाषाचरमं चरमभाषा, ततोऽयमर्थः - नैरयिको भदन्त ! चरमाया भाषाय किं चरमोऽचरमो वा ? शेषं सुगमं, बहुवचनसूत्रे प्रश्नभावार्थो ये पृच्छासमये नारका ते स्वकालक्रमेण चरमां भाषां प्राप्ताः सन्तः तया चरमया भाषया चरमा अचरमा वा इति, ततो निर्वचनसूत्रमप्युपपन्नं, एवमुच्छ्वासाहारसूत्रे अपि भावनीये, भाव औदयिकः, शेषं सुगमं । पदं – १० – समाप्तम् - मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे दशमपदस्य मलयगिरिआचार्येण विरचिताटीका परिसमाप्ता पदं - ११ – "भाषा" वृ. तदेवं व्याख्यातं दशमं पदं, इदानीमेकादशमारभ्यते, तस्य चामभिसम्बन्धः, इहानन्तरपदे सत्त्वानां यदुपपातक्षेत्रं रत्नप्रभादि तस्य चरमाचरमविभागः प्रतिपादितः इह [सत्या १ मृषा २ सत्यामृषा ३ असत्यामृषा४] भाषा पर्याप्तानां सत्यादिभाषाविभागोपदर्शनं क्रियते, तत्र चेदमादिसूत्रम् मू. (३७५) से नूनं भंते! मण्णामीति ओहारिणी भासा चिंतेमीति ओहारिणी भासा अह मण्णामीति ओधारिणी भासा अह चिंतेमीति ओधारणी भासा तह मण्णामीति ओधारिणी भासा तह चिंतेमीति ओहारिणी भासा ?, हंता गो० ! मण्णामीति ओधारिणी भासा चिंतेमीति ओधारिणी भासा अह मण्णामीति ओधारिणी भासा अह चिंतेमीति ओधा० तह मण्णामीति ओधा० तह चिंकतेमीति ओधा०, ओहारिणी णं भंते ! भासा किं सच्चा मोसा सच्चामोसा असच्चामोसा ?, गो० ! सिय सच्चा सिय मोसा सिय सच्चामोसा सिय असच्चामोसा, - सेकेणट्टेणं भंते! एवं वुच्चति-ओधारिणी णं भासा सिय सच्चा सिय मोसा सिय सच्चामोसा सिय असच्चामोसा ?, गो० ! आराहिणी सच्चा विराहिणी मा सा आराहणविराहिणी सच्चामोसा जाणेव आराहणी नेव विराहिणी ने वाराहणविराहिणी सा असञ्च्चमोसा नामं सा चउत्थी भासा, से तेणट्टेणं गोयामा ! एवं वृच्चति-ओहारिणी णं भासा सिय सच्चा सिय मोसा सिय सच्चामोसा सिय असच्चामोसा ॥ वृ. 'से नूनं भंते! मण्णामि इति ओहारिणी भासा' इत्यादि, सेशब्दो अथशब्दार्थः, सच वाक्योपन्यासे, नूनमुपमानावधारणतर्कप्रश्नहेतुषु इहावधारणे, भदन्त ! इत्यामन्त्रणे, मन्ये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy