Book Title: Agam Suttani Satikam Part 10 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
पदं--: १-१०, उद्देशक:-, द्वारं
२५५
तत्र द्व्यादीनामष्टादशपर्यन्तानां प्रतिषेधकारणं प्रागुक्तमनुसर्तव्यं न केवलमत्र किन्तु सर्वष्वप्युत्तरेषु स्कन्धेषु, यस्तु द्वाविंशतितमः सोऽष्टप्रदेशकस्यैव घटते न सप्तप्रदेशकस्येत्युक्तं प्राक्, तत इह प्रतिषेधः, शेषास्तु प्रथमादयः षड्विंशतितमपर्यन्ताः सप्तदश भङ्गाः षट्प्रदेशक्स्न्धस्येव भावनीयाः, केवलं विनेयजनानुग्रहाय स्थापनामात्रेणोपदर्श्यन्ते - प्रथमो भङ्गश्वरमभङ्गः, तृतीयोऽवक्तव्यः, सप्तमश्चरमश्चाचरमश्च अष्टमश्चरमश्चाचरमौ च नवमश्चरमौ चाचरमश्च दशमश्चरमौ चाचरमौ च एकादशश्चरमश्चावक्तव्यश्च द्वादशश्चरमश्चावक्तव्यौ च त्रयोदशश्चरमौ चावक्तव्यश्च चतुर्दशश्चरमौ चावक्तव्यौ च एकोनविंशतितमश्चरमश्चाचरमश्चावक्तव्यश्च विंशतितमश्चरमश्चाचरमश्चावक्तव्यौ च एकविंशतितमश्चरमश्चाचरमौ चावक्तव्यश्च त्रयोविंशतितमश्चरमौ चाचरमश्चावक्तव्यश्च चतुर्विंशतितमश्चरमौ चाचरमश्चावक्तव्यश्च पञ्चविंशतितमश्चरमौ चाचरमौ चावक्तव्यश्च षड्विंशतितमश्चरमी चाचरमौ चावक्तव्यौ च इह यस्मात्सप्ताप्रादेशिकः स्कन्ध एकस्मिन्नाकाशप्रदेशेऽयगाहते द्वयोरि त्रिष्वपि यावत्सप्तस्वपि तत एवं भङ्गाः संभवन्ति ॥
'अट्ठपएसिए णं भंते! खंधे' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनसूत्रं 'अट्ठपएसिए णं खंधे सिय चरमे' इत्यादि, अत्र द्वितीयचतुर्थपञ्चमषष्ठपञ्चदशषोडशसप्तदशाष्टादशरूपा अष्टौ भङ्गाः प्रतिषेध्याः, शेषा ग्राह्याः, वक्ष्यति च
11911
“बिचउत्थपंचछट्टं पन्नर सोलं च सत्तरऽट्ठारं । एए वज्जिय भंगा सेसा सेसेसु खंधेसु ॥”
सुगमा, नवरं 'सेसा सेसेसुखंधेसु' इति शेषाः भङ्गाः शेषेषु सप्तप्रदेशकात् स्कन्धादितरेषुअष्टाप्रदेशादिकेषु सर्वेषु स्कन्धेषु द्रष्टव्याः, अन्ये त्वेवमुत्तरार्द्धं पठन्ति - "एए वज्जिय भंगा तेण परमवट्ठिया सेसा” सुगमं, ते च प्रथमादयो भङ्गाः षड्विंशतिपर्यन्ता अष्टादश भावनातः प्रागवद् भावनीयाः, नवरं 'चरमश्चाचरमौ चावक्तव्यौ च' इत्येवंरूपो द्वाविंशतितमो भङ्गः अथ द्विप्रदेशकादिषु स्कन्धेषु अवक्तव्यौ इत्येवंरूपः षष्ठो भङ्गः कस्मात्प्रतिषिध्यते ?, तस्यापि युक्तितः संभवभावात्, तथाहि--यदैकः परमाणुरेकस्मिन्नाकाशप्रदेशे द्वितीयो विश्रेणिस्थे प्रदेशे, तथा कोष्यवक्तव्यो द्वितीयोऽप्यवक्तव्य इति भवत्यवक्तव्याविति भङ्गः, प्रदेशकचिन्तायामेकस्मिन्नेकः परमाणुः अपरस्मिन् द्वौ चतुष्प्रदेशकचिन्तायां प्रत्येकं द्वौ द्वौ परमाणू इत्यादि, सत्यमेतत्, केवलमेवंरूपं जगति द्रव्यमेव नास्ति, कथमेतदवसितम् ? इति चेत्, उच्यते, अत एव प्रतिषेधवचनात्, यदि हि तथारूपं द्रव्यं संभवेद्नाचार्यः प्रतिषेधं कुर्यादिति, यदिवा संभवेऽपि जातिपरनिर्देशात् तृतीयभङ्गक एवान्तर्भावो वेदितव्यः
यथा चाष्टप्रदेशके स्कन्धे भङ्गाः प्रतिषेध्या विधेयाश्चोक्तास्तथा संख्यातप्रदेशके असंङ्ख्यातप्रदेशके च प्रत्येकं वक्तव्याः, तथा चाह- 'संखेज्जपसिए असंखेज्जपएसिए' इत्यादि, पाठसिद्धं, नवरमियं सर्वत्र भावना - यस्मादेकादिष्वप्याकाशप्रदेशेष्वष्टप्रदेशकादीनां स्कन्धानामवगाहो भवति तथा (तो) घटन्ते यथोक्ताः सर्वेऽपि भङ्गाः, नन्वसंख्यातप्रदेशात्मकस्यानन्तप्रदेशात्मकस्य च स्कन्धस्य कथमेकस्मिन्नाकाशप्रदेशेऽवगाहः ?, उच्यते, [तथा] तथामाहात्म्यात्, न चैतदनुपपन्, युक्तितः सम्भाव्यमानत्वात्, तथाहि - अनन्तानन्ता द्विप्रदेशकाः स्कन्धा यावदनन्तानन्ताः संख्येयप्रदेशात्मकाः अनन्तानन्ता असंख्येयप्रदेशात्मकाः स्कन्धा अनन्तानन्ता अनन्तप्रदेशात्मकाः, लोकश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324