Book Title: Agam Suttani Satikam Part 10 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२५०
प्रज्ञापनाउपाङ्गसूत्र-१-१०/-/-/३६५
दवयावगाढाववक्तव्याविति, त्रयोदशश्चरमौ चावक्तव्यश्च, यदा स एव षट्प्रदेशकः स्कन्धः पञ्चस्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-द्वौ परमाणू द्वयोराकाशप्रदेशयोः समश्रेणिव्यवस्थितयोः द्वौ तयोरेवाधः समश्रेणिव्यवस्तितयोराकाशप्रदेशयोः श्रेणिद्वयमध्यभागसमश्रेणिस्थेचैकस्मिन्नाकाशप्रदेशे द्वाविति, तदाद्विप्रदेशावगाढव्यणुकस्कन्धवदुपरितनद्विप्रदेशावगाढौ द्वौ परमाणू एकश्चरमो द्वावधस्तनाविति चरमौ, द्वावेकप्रदेशावगाढौ परमाणुवदेको ऽवक्तव्यः, चतुर्दशश्चरमौचावक्तव्यौच, तत्र यदास एवषट्प्रदेशकः स्कन्धःषट्स्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-द्वौ परमाणू द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोः द्वौतयोरेवाधः समश्रेणिव्यवस्तितयोराकाशप्रदेशयोः एकः श्रेणिद्वयमध्यभागमसश्रेणिस्थे प्रदेशे,
एक उपरितनयोर्द्वयोर्विश्रोणिस्थे, तदा द्वावुपरितनावेकश्चरमो द्वावधस्तनाविति चरमौ द्वा चावक्तव्याविति, एकोनविंशतितमश्चरमश्चारमश्चावक्तव्यः, स चैवं-यदा स षट्प्रदेशकः स्कन्धः षट्स्वाकाशप्रदेशेषु एकपरिक्षेपेण विश्रेणिस्थकैधिकमवगाहते, , तदाएकवेश्टकाश्चत्वारः परमाणवःप्रागुक्तयुक्तरेकश्चरम एकोऽचरमो मध्यवर्ती एकोऽवक्तव्यः, यश्चविंशतितमश्चरमश्चाचरमश्चावक्तव्यौच, ससप्तमप्रदेशकस्यैवोपपद्यतेनषट्प्रदेशकस्य, योऽप्येकविंशतितमश्चरमश्चाचरमौ चावक्तव्यश्च, सोऽपि सप्तप्रदेशकस्यैव न षट्प्रदेशकस्य, यस्तु द्वाविंशतितमश्चरमश्चाचरमौ चावक्तव्यौच, सोऽष्टप्रदेशकस्यैवेति, त्रयोऽप्येते विंशत्यादयोऽत्र प्रतिषिद्धाः, यश्च त्रयोविंशतितमश्चरमौ चाचरमश्चावक्तव्यः,
स एवं-यदास एवषट्प्रदेशकः स्कन्धश्चतुष्वाकाशप्रदेशेष्वेवमवगाहते-द्वौ द्वौ परमाणू द्वयोराकाशप्रदेशयोः एकस्तयोरेव समश्रेणिस्थेतृतीये आकाशप्रदेशे एको विश्रेणिस्थे इति, तदा आद्यप्रदेशावगाढौ द्वौ परमाणूचरमस्तृतीयप्रदेशावगाढश्चरमइति द्वौचरमौ द्वितीयप्रदेशावगाढौ द्वौ परमाणू चरमो विश्रेणिस्थोऽवक्तव्यः, चतुर्विंशतितमः चरमौ चाचरमश्चावक्तव्यौ च, तत्र यदा स एव षट्प्रदेशात्मकः स्कन्धः पञ्चस्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहतेत्रिष्कावाकशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वाद्ये एकः द्वितीये एकः तृतीये द्वौ द्वयोर्विश्रेणिस्थयोरेकैक इति, तदाआद्यन्तप्रदेशावगाढौचरमौमध्यावगाढोऽचरमः विश्रेणिस्थप्रदेशद्वयावगाढौ अवक्तव्यौ, पञ्चविंशतितमः चरमौ चाचरमौ चावक्तव्यश्च, यदा स एव षट्प्रदेशात्मकः स्कन्ध पञ्चसुप्रदेशेषुसमश्रेण्या विश्रेण्या चैवमवगाहते-चतुष्वाकाशप्रदेशेषुसमश्रेणिव्यवस्थितेष्वाद्यप्रदेशत्रये एकैकश्चतुर्थे द्वौ पञ्चमे विश्रेणिस्थेएकः, तदा आद्यन्तप्रदेशवर्तिनो चरमौ मध्यप्रदेशद्वयवर्तिनौ द्वाचरमौ विश्रेणियप्रदेशस्थ एकोऽवक्तव्यः, षड्विशतितम; चरमौ चाचरमौचावक्तव्यौ च, सचैवं-यदा सषट्प्रदेशकः स्कन्धः षट्स्वाकाशप्रदेशेषुसमश्रेण्या विश्रेण्या चैवमवगाहते
तदाआद्यन्तप्रदेशावगाढौ द्वौचरमौ द्वौमध्यप्रदेशावगाढावचरमौ द्वौचविश्रेणिस्थप्रदेशद्वयावगाढववक्तव्याविति । सत्तपएसिएणंभंते! खंधे' इत्यादि प्रश्नसूत्रप्राग्वत, निर्वचनमाह'गोयमा ! सत्तपएसिए णं खंधे सिय चरमे नो अचरमे' इत्यादि, इह द्वितीयचतुर्थपञ्चममष्ठपञ्चदशषोडशसप्तदशाष्टादशद्वाविंशतितमरूपा नव भङ्गाः प्रतिषेध्याः, शेषा उपादेयाः, वक्ष्यतिच॥१॥ “बिचउत्थपंचछट्टे पन्नरसोलं च सत्तरहारं ।
वज्जिय बावीसइमं सेसा भंगा उ सत्तमए ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324