Book Title: Agam Suttani Satikam Part 10 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२४६
प्रज्ञापनाउपाङ्गसूत्र-१-५०/-1-1३६५ इह यदा द्विप्रदेशिकः स्कन्धोद्वयोराकाशप्रदेशयोरवगाढो भवति समश्रेण्या व्यवस्थितया,-तदा एकोऽपि परमाणुपरपरमाण्वपेक्षया चरमः, अवरोऽप्यपरपरमाण्वपेक्षया चरम इति चरमः, अचरमस्तुनमभवति, सर्वद्रव्याणमामपि केवलाचरमत्वस्यायोगात्, यदा तु स एव द्विप्रदेशिकः स्कन्धः एकस्मिन्नाकाशप्रदेशे अवगाहते तदा स तथाविधैकत्वपरिणामपरिणततया परमाणुवत् चरमाचरमव्यपदेशकारणशून्यत्वान्नचरमशब्देन व्यपदेष्टुशक्यते नाप्यचरमशब्देनेतिअवक्तव्यः, शेषास्तु भङ्गाः प्रतिषेध्याः, तथा च वक्ष्यति “पढमो तइओ य होइ दुपएसे" अस्यायमर्थःद्विप्रदेशिके स्कन्धे प्रथमोभङ्गः-चरमइति, तृतीयः-अवक्तव्य इति भवतिशेषास्तुप्रतिषेध्याः, असंभवात्, सचासंभवःसुप्रतीत एव।
'तिपएसिए णं भंते ! खंधे' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनं 'गोयमा ! सिय चरमे' इत्यादि, इहयदा त्रिप्रदेशिकः स्कन्धो द्वयोराकाशप्रदेशशयोः समश्रेण्या व्यवस्थितयोरेवमवगाढो भवति, तदाऽसौचरमः, सा चरमत्वभावना द्विप्रदेशिकस्कन्धवद् भावनीया, अचरमप्रतिषेधः प्राग्वत्, ‘स्यादवक्तव्य' इति यदा स एव त्रिप्रदेशिकः स्कन्ध एकस्मिन्नाकाशप्रदेशेऽवगाहते तदा परमाणुवत् चरमाचरमव्यपदेशकारणशून्यतया चरमाचरमशब्दाभ्यां व्यपदेष्टुमशक्यत्वात् अवक्तव्यःचतुर्थादयोऽष्टमपर्यन्ताःप्रतिषेध्यः,असंभवात्, असभवस्तुसुप्रतीतत्वात्स्यवमुपयुज्य वक्तव्य;, नवमस्तु ग्राह्यः, तथा चाह-'सिय चरमाइंच अचरमे य' प्राकृते द्वित्वेऽपि बहुवचनं, ततोऽयमर्थः-स्यात्-कदाचिदयं भङ्गः-चरमौ अचरमश्च, तत्र यदा स त्रिप्रदेशिकः स्कन्धः त्रिष्वाकाशप्रदेषेषु समश्रेण्या व्यवस्थितेष्वेवमवगाहते,
तदाऽऽदिमान्तिमौ द्वौ परमाणूपर्यन्तवर्तित्वाच्चरमौ मध्यमस्तुमध्यवर्तित्वादचरम इति, दशमस्तु प्रतिषेध्यः, स्कन्धस्य त्रिप्रदेशिकतया चरमाचरमशब्दयोर्बहुवचननिमित्तासंभवात्, एकादशस्तु ग्राह्यः, तथा चाह-'सिय चरमेय अवत्तव्वए य' स्यात्-कदाचिदयं भङ्गश्चरमश्चावक्तव्यश्च, तत्र यदा स त्रिप्रदेशिकः समश्रेण्या विश्रेण्या चैवमगाहते स्थापना-तदा द्वौ परमाणू समश्रेण्या व्यवस्थिताविति द्विप्रदेशावगाढद्विप्रदेशस्कन्धवच्चरमव्यपदेशकारणभावतश्चरमः, एकश्च परमाणुर्विश्रेणिस्थश्चरमाचरमशब्दाभ्या व्यपदेष्टुमशक्य इत्यवक्तव्यः, शेषास्तु भङ्गाः सर्वेऽपि प्रतिषेध्याः, वक्ष्यति च “पढमो तइओ नवमो इक्कारसमो य तिपएसे" अस्यायमर्थः-त्रिप्रदेशे स्कन्धेप्रथमो भङ्गश्चरम इति, तृतीयोऽवक्तव्य इति, नवमश्चरमौचाचरमश्च, एकादशश्चरमश्चावक्तव्यश्चेतिचि भवति, शेषा भङ्गा न घटन्ते ।।
'चउपएसिए णं भंते ! खंधे' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनमाह-गोयमा ! सिय चरमे' इत्यादि, अत्र प्रथमतृतीयनवमदशमैकादशद्वादशत्रयोविंशतितमरूपाः सप्त भङ्गा ग्राह्याः, शेषाःप्रतिषेध्याः, तत्र प्रथमभङ्गोऽयम्-‘स्याच्चरम' इति, इह यदा चतुष्प्रदेशकः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेवमगाहते, तदा चरमः, साच चरमत्वाभावना समश्रेण्या व्यवस्थितद्विप्रदेशावगाढद्विप्रदेशस्कन्धवद्भावनीया, तृतीयोभङ्गः स्यादवक्तव्यइति, सचैवं-यदा स एव चतुष्प्रदेशकः स्कन्ध एकस्मिन्नाकाशप्रदेशेऽवगाहते , तदा परमाणुवदवक्तव्यः,
नवमः ‘स्याच्चरमौ चाचरभश्च' स चैवं-यदा स चतुष्प्रदेशात्मकः स्कन्धः त्रिष्वाकाशप्रदेशेष्वेवमवगाहते, तदाआद्यन्तप्रदेशावगाढौ चरमौमध्यप्रदेशावगाढस्त्वचरमः, दशमः स्याच्चरमौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324