Book Title: Agam Suttani Satikam Part 10 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
पदं - ५, उद्देशक:-, द्वारं
चावधिविभङ्गासंभवः, तथास्वाभाव्यात्, अतो द्वे एव ज्ञाने द्वे चाज्ञाने इति, तथाऽजधन्योत्कृष्टावगाहनः सङ्घयेयवर्षायुष्कोऽपि भवति असङ्घयेयवर्षायुष्कोऽपि भवति, असङ्घयेयवर्षायुष्कोऽपि गव्यतद्विगव्यतोच्छ्रय; ततोऽवगाहनयाऽपि चतुःस्थापतितत्वं स्थित्याऽपि तथा, आद्यैश्चतुर्भिर्मतिश्रुतावधिमनःपर्यायरूपैर्ज्ञानैः षट्स्थानपतिताः, तेषां चतुर्णामपि ज्ञानानां तत्तद्रव्यादिसापेक्षतयाक्षयोपशमवैचित्र्यतस्तारतम्यभावात्, केवलज्ञानपर्यवैस्तुल्यता, निःशेषस्वावरणक्षयतः प्रादुर्भूतस्य केवलज्ञानस्य भेदाभावात्, शेषसुगमं, जघन्यस्थितिकमनुष्यसूत्रे 'दोहिं अन्नाणेहिं' इति द्वाभ्यामज्ञानाभ्यां मत्यज्ञानश्रुतज्ञानरूपाभ्यां षट्स्थानपतितता वक्तव्या, न तु ज्ञानाभयां, कस्मादिति चेत् ?, उच्यते, जघन्यस्थितिका मनुष्याः संमूर्च्छिमाः, संमूर्च्छिममनुष्याश्च नियमतो मिथ्याध्ष्टयः, ततस्तेषमज्ञाने एव न तु ज्ञाने, उत्कृष्टस्थितिकमनुष्यसूत्रे 'दो नाणा दो अन्नाणा' इति, उत्कृष्टस्थितिका हि मनुष्यास्त्रिपल्योपमायुषः, तेषां च तावदज्ञाने नियमेन यदा पुनः षण्मासावशेषायुषो वैमानिकेषु बद्धायुषस्तदा सम्यकत्वलाभात् द्वे ज्ञाने लभ्येते अवधिविभङ्गौ चासङ्घयेयवर्षायुषां न स्त इति त्रीणि ज्ञानानि त्रीण्यज्ञानानीनि नोक्तं, अजघन्योत्कृष्टस्थितिकमनुष्यसूत्रमजधन्योत्कृष्टावगाहनमुश्यसूत्रमिवल भावनीयं ।
२०५
जघन्याभिनिबोधिकमनुष्यसूत्रे द्वे ज्ञाने वक्तव्ये द्वे दर्शने च, किं कारणं इति चेत् ?, उच्यते, जघन्याभिनिबोधिको हि जीवो नियमादवधिमनः पर्यवज्ञानविकलः, प्रबलज्ञानावरणकर्मोदयसद्भावात्, अन्यथा जघन्याभिनिबोधिकज्ञानत्वायोगात्, ततः शेषज्ञानदर्शनासंभवादाभिनिबोधिकज्ञानपर्यवैस्तुल्यः श्रुतत्रानपर्यवैर्द्वाभ्यां दर्शनाभ्यां च षट्स्थानपतिततोक्ता, उत्कृष्टाभिनिबोधिकसूत्रे 'ठिईए तिट्ठाणवडिए' इति उत्कृष्टाभिनिबोधिको हि नियमात्सत्येयवर्षायुः. असङ्खयेयवर्षायुषः तथाभवस्वाभाव्यात् सर्वोत्कृष्टाभिनिबोधिकज्ञानासंभवात्, सङ्घयेयवर्षायुषश्च प्रागुक्तयुक्तेः स्थित्या त्रिस्थानपतिता इति, जघन्यावधिसूत्रे उत्कृष्टावधिसूत्रे चावगाहनया त्रिस्थानपतितो वक्तव्यः, यतः सर्वजधन्योवधिर्यथोक्तस्वरूपो मनुष्याणां पारभविको न भवति, किं तु तद्भावभावी, सोऽपि च पर्याप्तावस्थायां, अपर्याप्तावस्थायां तद्योग्यविश्रुद्यमावात्, उत्कृष्टोऽप्यवधिर्भावतश्चारित्रिणः,
"
ततो जघन्यावधिरुत्कृष्टावधिर्वाऽवगाहनया त्रिस्थानपतितः, अजधन्योत्कृष्टस्त्ववधिः पारभविकोऽपि संभवति ततोऽपर्याप्तावस्थायामपि तस्य संभवात् अजधन्योत्कृष्टावधिरवगाहनया चतुःस्थानपतितः स्थित्या तु जघन्यावधिरुत्कृष्टावधिरजधन्योत्कृष्टावधिर्वा त्रिस्थानपतितः, असङ्घयेयवर्षायुषामवधेरसंभवात्, सङ्घत्येयवर्षायुषां च त्रिस्थानपतितत्वात्, जघन्यमनः पर्यवज्ञानी उत्कृष्टमनः पर्यवज्ञानी अजधन्योत्कृष्टमनः पर्यवज्ञानी च स्थित्या त्रिस्थानपतितः, चारित्रिणामेव मनः पर्यायज्ञानसद्भावात्, चारित्रिणां च सङ्घयेयवर्षायुष्कत्वात्, केवलज्ञानसूत्रे तु 'ओगाहणट्टयाए चउट्ठाणवडिए' इति केवलिसमुद्घातं प्रतीत्य, तथाहि केवलिसमुद्घातगतः केवली शेषकेवलिभ्योऽसङ्घयेयगुणाधिकावगाहनः तदपेक्षया शेषाः केवलिनोऽसङ्घयेयगुणहीनावगाहनाः स्वस्थाने तु शेषाः केवलिनस्त्रिस्थानपतिता इति स्थित्या त्रिस्थानपतितत्वं, सङ्घयेयवर्षायुष्कत्वार मू. (३२१) वाणमंतरा जहा असुरकुमारा। एवं जोइसियवेमाणिया, नवरं सट्ठाणे ठिईए तिद्वाणवडिए भाणियव्वे, सेत्तं जीवपज्जवा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324