Book Title: Agam Suttani Satikam Part 10 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२३८
प्रज्ञापनाउपाङ्गसूत्र-१-९/-/-/३५८ मनुष्याणां (च)यत्रोत्पत्तिस्तत्राचित्ता अपि शुक्रशोणितादिपुद्गलाः सन्तीति मिश्रा तेषां योनिः ।
अल्पबहुत्वचिन्तायां सर्वस्तोकां जीवा मिश्रयोनिकाः, गर्भव्युत्क्रान्तितिर्यक्पञ्चेन्द्रियमनुष्याणामेव मिश्रयोनिकत्वात्, तेभ्योऽचित्तयोनिका असङ्खयेयगुणाः, नैरयिकदेवानांकतिपयानां च प्रत्येकं पृथिव्यप्तेजोवायुप्रत्येकवनस्पतिद्वित्रिचतुरिन्द्रियसंमूर्छिमतिर्यक्पञ्चेन्द्रियसंमूर्छिममनुष्याणामचित्तयोनिकत्वात्, तेभ्योऽप्ययोनिका अनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्यः सचित्तयोनिकाअनन्तगुणाः, निगोदजीवानांसचित्तयोनिकत्वात्तेषांचसिद्धेभ्योऽप्यनन्तगुणत्वात्
भूयोऽपि प्रकारान्तरेण योनीः प्रतिपादयितुकाम आह
मू. (३५९) कइविहाणं भंते ! जोणी पं०, ?, गोयमा! तिविहा जोणी पं०, तं०-संवुडा जोणी वियडा जोणी संवुडवियडा जोणी।
नेरइयाणंभंते! किं संवुडाजोणीवियडाजोणी संवुडवियडाजोणी?, गोयमा! संवुडजोणी, नो वियडजोणी नो संवुडवियडजोणी, एवं जाव वणस्सइकाइयाणं । बेइंदियाणं पुच्छा, गोयमा नो संवुडजोणी वियडजोणी नो संवुडवियडजोणी । एवं जाव चउरिदियाणं।
संमुच्छिमपंचिंदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण य एवं चेव । गब्भवक्कंतियपंचिंदियतिरिक्खजोणिय० गब्भवक्कंतियमणुस्साणयनो संवुडाजोणी नो वियडाजोणी संवुडवियड जोणी। वाणमंतरजोइसियवेमाणियाणंजहानेरइयाणं । एतेसिणं भंते! जीवाणं संवुडजोणियाणं वियडजोणियाणं संवुडवियडजोणियाणं अजोणियाण य कयरे २ हिंतो अ० ब० तु० वि०?, गोयमा ! सव्वत्थोवा जीवा संवुडवियडजोणिया वियडजोणिया असंखिजगुणा अजोणिया अनंतगुणा संवुडजोणिया अनंतगुणा ॥
वृ. 'कइविहाणंभंते! जोणी पन्नत्ता' इत्यादि, तत्रनारकाणां संवृता योनिः, नरकनिष्कुटानां नारकोत्पत्तिस्थानानां संवृतगवाक्षकल्पत्वात्, तत्रचजाताः सन्तोनैरयिकाःप्रवर्द्धमानमूतेयस्तेभ्यः पतन्ति, शीतेभ्य उष्णेषुउष्णेभ्यःशीतेष्विति, भवनपतिव्यन्तरज्योतिष्कवैमानिकानामपि संवृता योनिः, तेषां देवशयनीये देवदूष्यान्तरिते उत्पादात् “देवसयणिज्जंसिदेवदूसंतरिए अंगुलासंकेजइभागमेत्ताए सरीरोगाहणाए उववज्जइ" इति वचनात्, एकेन्द्रिया अपि संवृतयोनिकाः, तेषामपि योनेः स्पष्टमनुपलक्ष्यमानत्वात्,
द्वीन्द्रियादीना चतुरिन्द्रियपर्यन्तानां संमूर्छिमतिर्यक्पञ्चेन्द्रियसंमूर्छिममनुष्याणांचविवृता योनिः, तेषामुत्पत्तिस्थानस्य जलाशयादेः स्पष्टमुपलभ्यमानत्वात्, गर्भव्युत्क्रन्तिकतिर्यक्पञ्चेन्द्रियगर्भव्युत्क्रान्तिकमनुष्याणां च संवृतविवृता योनिः, गर्भस्य संवृतविवृतरूपत्वात्, गर्भो ह्यन्तः स्वरूपतो नोपलभ्यते बहिस्तूरदवृध्द्यादिनोपलक्ष्यते इति।
____ अल्पबहुत्वचिन्तायां सर्वस्तोकाः संवृतविवृतयोनिकाः, गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियमनुष्याणमेव संवृतविवृतयोनिकत्वात्, तेभ्यो विवृतयोनिका असंख्येयगुणाः, द्वीन्द्रियादीनां चतुरिन्द्रियपर्यवसानानां संमूर्छिमतिर्यक्पञ्चेन्द्रियसंमूर्छिममनुष्याणां च विवृतयोनिकत्वात्, तेभ्योऽयोनिका अनन्तगुणाः सिद्धानमनन्तत्वात्, तेभ्यः संवृतयोनिका अनन्तगुणाः, वनस्पतीनां . संवृतयोनिकत्वात, तेषां च सिद्धेभ्योऽप्यनन्तगुणत्वात् ॥ ___ सम्प्रति मनुष्ययोनिविशेषप्रतिपादनार्थमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324