SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २३८ प्रज्ञापनाउपाङ्गसूत्र-१-९/-/-/३५८ मनुष्याणां (च)यत्रोत्पत्तिस्तत्राचित्ता अपि शुक्रशोणितादिपुद्गलाः सन्तीति मिश्रा तेषां योनिः । अल्पबहुत्वचिन्तायां सर्वस्तोकां जीवा मिश्रयोनिकाः, गर्भव्युत्क्रान्तितिर्यक्पञ्चेन्द्रियमनुष्याणामेव मिश्रयोनिकत्वात्, तेभ्योऽचित्तयोनिका असङ्खयेयगुणाः, नैरयिकदेवानांकतिपयानां च प्रत्येकं पृथिव्यप्तेजोवायुप्रत्येकवनस्पतिद्वित्रिचतुरिन्द्रियसंमूर्छिमतिर्यक्पञ्चेन्द्रियसंमूर्छिममनुष्याणामचित्तयोनिकत्वात्, तेभ्योऽप्ययोनिका अनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्यः सचित्तयोनिकाअनन्तगुणाः, निगोदजीवानांसचित्तयोनिकत्वात्तेषांचसिद्धेभ्योऽप्यनन्तगुणत्वात् भूयोऽपि प्रकारान्तरेण योनीः प्रतिपादयितुकाम आह मू. (३५९) कइविहाणं भंते ! जोणी पं०, ?, गोयमा! तिविहा जोणी पं०, तं०-संवुडा जोणी वियडा जोणी संवुडवियडा जोणी। नेरइयाणंभंते! किं संवुडाजोणीवियडाजोणी संवुडवियडाजोणी?, गोयमा! संवुडजोणी, नो वियडजोणी नो संवुडवियडजोणी, एवं जाव वणस्सइकाइयाणं । बेइंदियाणं पुच्छा, गोयमा नो संवुडजोणी वियडजोणी नो संवुडवियडजोणी । एवं जाव चउरिदियाणं। संमुच्छिमपंचिंदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण य एवं चेव । गब्भवक्कंतियपंचिंदियतिरिक्खजोणिय० गब्भवक्कंतियमणुस्साणयनो संवुडाजोणी नो वियडाजोणी संवुडवियड जोणी। वाणमंतरजोइसियवेमाणियाणंजहानेरइयाणं । एतेसिणं भंते! जीवाणं संवुडजोणियाणं वियडजोणियाणं संवुडवियडजोणियाणं अजोणियाण य कयरे २ हिंतो अ० ब० तु० वि०?, गोयमा ! सव्वत्थोवा जीवा संवुडवियडजोणिया वियडजोणिया असंखिजगुणा अजोणिया अनंतगुणा संवुडजोणिया अनंतगुणा ॥ वृ. 'कइविहाणंभंते! जोणी पन्नत्ता' इत्यादि, तत्रनारकाणां संवृता योनिः, नरकनिष्कुटानां नारकोत्पत्तिस्थानानां संवृतगवाक्षकल्पत्वात्, तत्रचजाताः सन्तोनैरयिकाःप्रवर्द्धमानमूतेयस्तेभ्यः पतन्ति, शीतेभ्य उष्णेषुउष्णेभ्यःशीतेष्विति, भवनपतिव्यन्तरज्योतिष्कवैमानिकानामपि संवृता योनिः, तेषां देवशयनीये देवदूष्यान्तरिते उत्पादात् “देवसयणिज्जंसिदेवदूसंतरिए अंगुलासंकेजइभागमेत्ताए सरीरोगाहणाए उववज्जइ" इति वचनात्, एकेन्द्रिया अपि संवृतयोनिकाः, तेषामपि योनेः स्पष्टमनुपलक्ष्यमानत्वात्, द्वीन्द्रियादीना चतुरिन्द्रियपर्यन्तानां संमूर्छिमतिर्यक्पञ्चेन्द्रियसंमूर्छिममनुष्याणांचविवृता योनिः, तेषामुत्पत्तिस्थानस्य जलाशयादेः स्पष्टमुपलभ्यमानत्वात्, गर्भव्युत्क्रन्तिकतिर्यक्पञ्चेन्द्रियगर्भव्युत्क्रान्तिकमनुष्याणां च संवृतविवृता योनिः, गर्भस्य संवृतविवृतरूपत्वात्, गर्भो ह्यन्तः स्वरूपतो नोपलभ्यते बहिस्तूरदवृध्द्यादिनोपलक्ष्यते इति। ____ अल्पबहुत्वचिन्तायां सर्वस्तोकाः संवृतविवृतयोनिकाः, गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियमनुष्याणमेव संवृतविवृतयोनिकत्वात्, तेभ्यो विवृतयोनिका असंख्येयगुणाः, द्वीन्द्रियादीनां चतुरिन्द्रियपर्यवसानानां संमूर्छिमतिर्यक्पञ्चेन्द्रियसंमूर्छिममनुष्याणां च विवृतयोनिकत्वात्, तेभ्योऽयोनिका अनन्तगुणाः सिद्धानमनन्तत्वात्, तेभ्यः संवृतयोनिका अनन्तगुणाः, वनस्पतीनां . संवृतयोनिकत्वात, तेषां च सिद्धेभ्योऽप्यनन्तगुणत्वात् ॥ ___ सम्प्रति मनुष्ययोनिविशेषप्रतिपादनार्थमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy