SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ पदं - ९, उद्देशक:-, द्वारं कवैमानिकानां चोपपातक्षेत्राणि शीतोष्णरूपोभयस्पर्शपरिणतानि तेन तेषां योनिरुभयस्वभावा न शीता नाप्युष्णा २३७ एकेन्द्रियाणामप्कायिकवर्जानां द्वित्रिचतुरिन्द्रियसंमूर्च्छिमतिर्यक्पञ्चेन्द्रियसंमूर्च्छिममनुष्याणां चोपपातस्थानानि शीतस्पर्शान्युष्णस्पर्शान्युभयस्पर्शान्यपि भवन्तीति तेषां त्रिविधा योनिः । तेजःकायिका उष्णोयोनिकाः (तथा अप्कायिकाः शीतयोनिकाः) तथा प्रत्यक्षत उपलब्धेः अल्पबहुत्वचिन्तायां सर्वस्तोकाः शीतोष्णयोनयः- शीतोष्णरूपोभययोनिकाः, भवनवासिगर्भजतिर्यक्पञ्चेन्द्रियगर्भजमनुष्यव्यन्तरज्योतिषवैमानिकानामेवोभययोनिकत्वात्, तेभ्योऽसङ्घयेयगुणा उष्णयोनिकाः, सर्वेषां सूक्ष्मबादरभेदभिन्नानां तेजः कायिकानां प्रभूततराणां नैरयिकाणां कतिपयानां पृथिव्यब्वायुप्रत्येकवनस्पतीनां चोष्णयोनिकत्वात्, अयोनिका अनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्यः शीतयोनिका अनन्तगुणाः, अनन्तकायिकानां सर्वेषामपि शीतयोनिकत्वात्, तेषां च सिद्धेभ्योऽपि अनन्तगुणत्वात् । भूयः प्रकारान्तरेण योनीः प्रतिपिपादयिषुराह मू. (३५८) कतिविहा णं भंते! जोणी पं० ?, गोयमा ! तिविहा जोणी प०, तं० - सचित्ता अचित्ता मीसिया । नेरइयाणं भंते! किं सचित्ता जोणी अचित्ता जोणी मीसिया जोणी ?, गोयमा ! नो सचित्ता जोणी अचित्ता जोणी नो मीसिया जोणी । असुरकुमाराणं भंते! किं सचित्ता जोणी अचित्ता जोणी मीसिया जोणी ?, गोयमा ! नो सचित्ता जोणी अचित्ता जोणी नो मीसिया जोणी, एवं जाव थणियकुमाराणं । पुढवीकाइ आणं भंते! किं सचित्ता जोणी अचित्ता जोणी मीसिया जोणी ?, सचित्ता जोणी अचित्ता जोणी मीसियावि जोणी, एवं जाव चउरिदियाणं ।। गोयमा ! संमुच्छिमपंचेदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण य एवं चेव । गब्भवक्कंतियपंचिंदियतिरिक्खजोणियाणं गब्भवक्कंतियमणुस्साण य नो सचित्ता नो अचित्ता मीसिया जोणी वाणमंतरजोइसियवेमाणियाणं जहा असुरकुमाराणं । एतेसि णं भंते! जीवाणं सचित्तजोणीणं अचित्तजोणीणं मीसजोणीणं अजोणीण य कयरे २ हिंतो अ० ब० तु० वि० ?, गोयमा सव्वत्थोवा जीवा मीसजोणिया अचित्तजोणिया असंखेज्जगुणा, अजोणिया अनंतगुणा, सचित्तजोणिया अनंतगुणा । वृ. 'कतिविहा णं भंते! जोणी पन्नत्ता' इत्यादि, सचित्ता जीवप्रदेशसंबद्धा, अचित्ता सर्वथा जीवविप्रमुक्ता, मिश्रा जीवविप्रमुक्ताविप्रमुक्तस्वरूपा । तत्र नैरयिकाणां यदुपपातक्षेत्रं तन्न केनचिज्जीवेन परिगृहीतमिति तेषामचित्ता योनिः, यद्यपि सूक्ष्मैकेन्द्रियाः सकललोकव्यापिनस्तथाऽपि न तत्प्रदेशैरुपपातस्थानपुद्गला अन्योऽन्यानुगमसंबद्धा इत्यचित्तैव तेषां योनिः । एवमसुरकुमारादीनां भवनपतीनां व्यन्तरज्योतिष्कवैमानिकानां चाचित्ता योनिर्भावनीय पृथिवीकायिकादीनां संमूर्च्छिममनुष्यपर्यन्तानामुपपातक्षेत्रं जीवैः " परिगृहीतमपरिगृहीतमुभयस्वभावं च संभवतीति त्रिविधाऽपि योनिः, गर्भव्युत्क्रान्तितिर्यक्पञ्चेन्द्रियाणां गर्भव्युत्क्रान्तिक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy