Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 414
________________ अनुयोगद्वारसूत्रम् [सू० २३३-२५९] २९९ एषामेवौदयिकादिभावानांद्वयादिमेलापकः, सएव तेन वा निर्वृत्त:सान्निपातिकः। तथा चाह - एएसिंचवेत्यादि। एषामौदयिकादीनां पञ्चानांभावानां द्विक-त्रिक-चतुष्क-पञ्चकसंयोगैर्ये षड्विंशतिर्भङ्गाः भवन्ति, ते सर्वेऽपि सान्निपातिको भाव इत्युच्यते । एतेषु मध्ये जीवेषु नारकादिषु षडेव भङ्गाः सम्भवन्ति, शेषास्तु विंशतिर्भङ्गका रचनामात्रेणैव भवन्ति, न पुन: क्वचित् सम्भवन्ति, अत:प्ररूपणामात्रतयैवतेअवगन्तव्याः, एतत्सर्वंपुरस्ताद्व्यक्तीकरिष्यते, 5 कियन्त: पुनस्ते द्वयादिसंयोगा: प्रत्येकंभवन्ति? इत्याह - तत्थणंदसदुगसंजोगा इत्यादि, पञ्चानामौदयिकादिपदानां दश द्विकसंयोगाः, दशैव च त्रिकसंयोगा: पञ्च चतु:संयोगा:, एकस्तु पञ्चकसंयोग: संपद्यत इति सर्वेऽपि षड्विंशतिः। तत्र के पुनस्ते दश द्विकसंयोगा इति जिज्ञासायांप्राह - तत्थणंजेते दसदुगसंयोगा ते णं इमे इत्यादि। 10 नामाधिकारादित्थमाह - अस्ति तावत् सन्निपातिकभावान्तर्वति नाम, विभक्तिलोपादौदयिकौपशमिकलक्षणभावद्वयनिष्पन्नमित्येको भङ्गः, एवमन्येनाप्युपरितनभावत्रयेण सहसंयोगादौदयिकेन चत्वारो द्विकयोगालब्धाः, ततस्तत्परित्यागे औपशमिकस्योपरितनभावत्रयेण सह चारणायां लब्धास्त्रयः, तत्परिहारे क्षायिकस्योपरितनभावद्वयमीलनायां लब्धौद्वौ, ततस्तं विमुच्यक्षायोपशमिकस्यपारिणामिकमीलने लब्धएक इति 15 सर्वेऽपि दश। एवं सामान्यतो द्विकसंयोगभङ्गकेषु दर्शितेषु विशेषतस्तत्स्वरूपमजानन् विनेयः पृच्छति - कतरेसे णामे उदइए? इत्यादि।अत्रोत्तरम् - उदए त्तिमणूसे इत्यादि, औदयिके भावे मनुष्यत्वं मनुष्यगतिरिति तात्पर्यम्, उपलक्षणमात्रं चेदम् , तिर्यगादिगतिजातिशरीरनामादिकर्मणामप्यत्र सम्भवात्। उपशान्तास्तु कषाया औपशमिके 20 भाव इति गम्यते, अत्राप्युदाहरणमात्रमेतत्, दर्शनमोहनीय-नोकषायमोहनीययोरप्यौपशमिकत्वसम्भवात्। एतन्निगमयति - एसणंसेणामे उदइएउवसमनिप्फण्णे त्ति, णमिति वाक्यालङ्कारे, एतत्तन्नाम यदुद्दिष्टं प्रागौदयिकौपशमिकभावद्वयनिष्पन्नमिति प्रथमद्विकयोगभङ्गकव्याख्यानम्। अयं च द्विकयोगविवक्षामात्रत एव संपद्यते, न पुनरीदृशो भङ्ग: क्वचिजीवे संभवति। तथाहि- यस्यौदयिकी मनुष्यगतिरौपशमिका: कषाया भवन्ति 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540