Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 510
________________ ४१ तृतीयं परिशिष्टम् मया तदा भणित:- मा भूयो वञ्जुलवृक्षात् सरसि पतनं कुरु, प्रकृतिं यास्यसि इति एतत् स्मर । एवं भावतोऽधिकेऽर्थस्य विसंवाद इत्यादिका विभाषा तथैव ॥२९५।। तित्त-कडुओसहाई मा णं पीलिज्ज ऊणते देइ। पउणइ न तेहि अहिएहिं मरइ बालो तहाहारे ॥२८९॥ [कल्पभा०गा० २८९, विशेषाव०भा० ८६५] एगाए अविरइयाए पुत्तो गिलाणो । तीए विज्जो पुच्छिओ। तेण ओसहाणि दिनाणि । सा चिंतेइइमाणि -कडुय-तित्ताणि मा निपीडिज्जा। तओ णाए अद्धाणि अवणीयाणि । सो तेहिं न पगुणीकओ, मओ। तओ एगा ऊणगं पीहगं देइ, तीसे वि मओ । अक्षरगमनिका-तिक्त-कटुकौषधानि माऽमुं बालं पीडयेयुरिति न तानि परिपूर्णानि ददाति, किन्त्वर्द्धानि । न च तैरर्द्धितैर्बाल: प्रगुणति, किन्तु म्रियते । तथा आहारे ऊने म्रियते ॥२८९॥ इति कल्पभाष्यस्य मलयगिरिसूरिविरचितायां वृत्तौ ॥ ५. मुदिता ह० ॥ [ हा० १५ ] १.णेगम संगह ववहार उज्जुसुए चेव होइ बोद्धव्वे । सद्दे य समभिरूढे एवंभूए य मूलणया ॥७५४॥ [आवश्यकनिगा० ७५४] व्याख्या- नयन्तीति नया:- वस्त्ववबोधगोचरं प्रापयन्त्यनेकधर्मात्मकज्ञेयाध्यवसायान्तरहेतव इत्यर्थः ते च नैगमादय:- नैगम: सङ्ग्रह: व्यवहार: ऋजुसूत्रश्चैव भवति बोद्धव्य:, शब्दश्च समभिरूढ: एवम्भूतश्च मूलनया इति गाथासमुदायार्थो निगदसिद्धः ॥” - आवश्यकहारि० पृ० २८२ ॥ [ हा० १७ ] १. 'भव्यशरीरद्रव्यावश्यकम्' इति पदमत्र असंगतं भाति, सू० १८-२० व्याख्यायामेतत् संगतं भवेदपि, अत्र तु असंगतमेव । अत्र आवश्यकतापि नास्ति अस्य पदस्य, यदि तु आग्रहो भवेत् तर्हि 'ज्ञशरीरद्रव्यावश्यकम्' इत्येतदेव युज्यते ॥ [ हा० २१-२२ ] १. इंदं सि जे२ पासं० ॥ २. (गुणेषु मुक्तो ?) ॥ ३. अगीयत्थो जेमू१। अगीयत्थसंविग्गो जेसं१ । अगीयत्थसंविग्गो भविय । जे२ पा० ॥ [ हा० ३०-३९] १. ताल्वादि ह० ॥ [ हा० ४०-४५] १. केणावि जेसं२ पासं२ ॥ [ हा० ५२-६४] १. मुक्ते भवाद्यभाव ह० ॥ [ हा० ७३ ] १.“पासत्थाई वंदमाणस्स नेव कित्ती न निजरा होइ । कायकिलेसं एमेव कुणई तह कम्मबंधं च ॥११०८॥ व्याख्या - पार्श्वस्थादीन् उक्तलक्षणान् वन्दमानस्य नमस्कुर्वतो नैव कीर्तिर्न निर्जरा भवति, तत्र कीर्तिः - अहो अयं पुण्यभागित्येवंलक्षणा, सा न भवति, अपि त्वकीर्तिर्भवति, नूनमयमप्येवंस्वरूपो येनैषां वन्दनं करोति । तथा निर्जरणं निर्जरा- कर्मक्षयलक्षणा सा न भवति तीर्थकराज्ञाविराधनाद्वारेण निर्गुणत्वात्तेषामिति । चीयत इति काय: - देहस्तस्य क्लेश: - अवनामादिलक्षण: कायक्लेशस्तं कायक्लेशम् एवमेव मुधैव करोति निर्वर्तयति । तथा क्रियत इति कर्म - ज्ञानावरणीयादिलक्षणं तस्य बन्धो - विशिष्टरचनयाऽऽत्मनि स्थापनं तेन वा आत्मनो बन्धः - स्वस्वरूपतिरस्करणलक्षण: कर्मबन्धस्तं कर्मबन्धं च करोतीति वर्तते। चशब्दादाज्ञाभङ्गादींश्च दोषानवाप्नुते, कथं ? भगवत्प्रतिकृष्टवन्दने आज्ञाभङ्गः, तं दृष्ट्वाऽन्येऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540