Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 511
________________ तृतीयं परिशिष्टम् वन्दन्तीत्यनवस्था, तान् वन्दमानान् दृष्ट्वाऽन्येषां मिथ्यात्वं कायक्लेशतो देवताभ्यो वाऽऽत्मविराधना, तद्वन्दनेन तत्कृतासंयमानुमोदनात्संयमविराधनेति गाथार्थः ॥” - आवश्यकहारि० ॥ २. परियाय- परिस- पुरिषे खित्तं कालं च आगमं नच्चा । ___ कारणजाए जाए जहारिहं जस्स जं जुग्गं ॥११२८॥ [आवश्यक नि० ११२८] त्ति ३ । पर्यायश्च परिषच्च पुरुषश्च पर्यायपरिषत्पुरुषास्तान्, तथा क्षेत्रं कालं च आगमं णच्चत्ति ज्ञात्वा-विज्ञाय कारण- जाते प्रयोजनप्रकारे जाते उत्पन्ने सति यथार्हं यथानुकूलं यस्य पर्यायादिसमन्वितस्य यद् योग्यं समनुरूपं वाङ्नमस्कारादि तत्तस्य क्रियत इति वाक्यशेषः, अयं गाथासमासार्थः ॥११२८॥ आवश्यकहारि० ॥ [ हा० ७४-७५] १. न्वयाधि ह० ॥ २. गमनं ह० ॥ ३. क्रमते जे१, पामू० २ ॥ ४. क्रमः समी ह० ॥ [ हा० ७६-८४] १. अप्यत्रादीनां ह० ॥ [ हा० ८५-८६] १. क्रम आह जे१ ॥ [ हा० ८७-९१] १. वरंति मत्थए ह० । “जेट्ठिया धूया सिक्खाविआ जहा वरं इंतं मत्थए पण्हियाए आहणिज्जसि” इति आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ पृ० ५५-B । “जेट्ठिया धूया सिक्खवियाजह तुमं वरेण सह कीलंती अवसरं लहेऊण वरं मत्थए पण्हियाए आहणिज्जासि” इति आव०मलयगिरीयायां वृत्तौ पृ०९२- A । “जेट्ठिता धूता सिक्खाविता जहा चडंतिया मत्थए पण्हीए आहणेजासि' इति आव०चूर्णी पृ० ८१ । “ताहे तं सिक्खवेइ-भत्तारस्स दुक्कमित्ता चडंतं पण्हीए आहणेज्जासि” इति कल्पभाष्यस्य मलयगिरीयायां वृत्तौ (गा० २६२) पृ० ८० ॥ २. “गुरुचित्तायत्ताई वक्खाणंगाई जेण सव्वाइं। तो जेण सुप्पसन्नं होइ तयं तं तहा कज्जं ॥९३१॥ गताथैव, नवरं गुरुचित्तं च तदा सुप्रसन्नं भवति, यदेङ्गिताकाराद्यभिज्ञः शिष्यस्तदुपक्रमानुकूल्येन प्रवर्तते। अतो न गुरुचित्तोपक्रमोऽत्राऽप्रस्तुत इति भावः ॥९३१॥ जो जेण पगारेणं तुस्सइ करण-विणया-ऽणुवत्तीहिं । आराहणाए मग्गो सो च्चिय अव्वाहओ तस्स ॥९३२॥ आगारिंगियकुसलं जइ सेयं वायसं वए पुज्जा । तह वि य सिं न विकूडे विरहम्मि य कारणं पुच्छे ॥९३३॥ निवपुच्छिएण गुरुणा भणिओ गंगा कओमुही वहइ ? । संपाइयवं सीसो जह तह सव्वत्थ कायव्वं ॥९३४॥ [विशेषावश्यक भा०गा० ९३१-९३४] इत्यादि । तिम्रोऽपि सुगमाः, नवरं प्रथमगाथायां करणेत्यादि, करणं गुर्वादिष्टस्य संपादनम्, विनयोऽभिमुखगमना-ऽऽसनप्रदान-पर्यु पास्त्यऽञ्जलिबद्धा-ऽनुव्रजनादिलक्षण:, अनुवृत्तिस्त्विङ्गितादिना गुरुचित्तं विज्ञाय तदानुकूल्येन वृत्तिः, ताभि: । द्वितीयगाथायामाकारेङ्गितकुशलं शिष्यं प्रति यदि श्वेतं वायसं पूज्या गुरवो वदेयुः, तथापि सिं ति तेषां संबन्धि वचो न विकूटयेद् न प्रतिहन्यात् । विरहे च तद्विषयं कारणं पृच्छेदिति। नृपपृष्टेन गुरुणा भणितो गङ्गा केन मुखेन वहति ? । ततो यथा सर्वमपि गुरुभणितं शिष्य: संपादितवान्, तथा सर्वत्र सर्वप्रयोजनेषु कार्यम्, इति तृतीयगाथाऽक्षरार्थः । भावार्थस्तु कथानकेनोच्यते-कन्यकुब्जे पुरे केनचिद् राज्ञा सूरिणा सह गोष्ठीप्रबन्धे प्रोक्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540