Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay
View full book text ________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम्
३५२
को(कौ)लालानिमृद्भाण्डानि पण्यमस्येति कौलालिकः।अत्रक्वापितणहारएइत्यादिपाठो दृश्यते, तत्र कश्चिदाह-नन्वत्र तद्धितप्रत्ययो न कश्चिदुपलभ्यते, तथावक्ष्यमाणेष्वपितुन्नाए तंतुवाएइत्यादिषु नायं दृश्यते, तत् किमित्येवंभूतनाम्नामिहोपन्यास:? अत्रोच्यते, अस्मादेव सूत्रोपन्यासात्तृणानि हरतिवहतीत्यादिकः कश्चिदाद्यव्याकरणदृष्टस्तद्धितोत्पत्तिहेतुभूतोऽर्थो द्रष्टव्यः, ततो यद्यपिसाक्षात्तद्धितप्रत्ययो नास्ति तथापि तदुत्पत्तिनिबन्धनभूतमर्थमाश्रित्येह तन्निर्देशोन विरुध्यते।यदि तद्धितोत्पत्तिहेतुरर्थोऽस्ति तर्हि तद्धितोऽपि कस्मान्नोत्पद्यत इति चेत् ? लोके इत्थमेव रूढत्वादिति ब्रूमः । अथवा अस्मादेवाद्यमुनिप्रणीतसूत्रज्ञापकादेवं जानीया:- तद्धितप्रत्यया एवामी केचित् प्रतिपत्तव्या इति।
अथ शिल्पतद्धितनामोच्यते- वस्त्रं शिल्पमस्येतिवास्त्रिकः,तन्त्रीवादनं शिल्पमस्येति 10 तान्त्रिकः, तुन्नाए तंतुवाए इत्यादि प्रतीतम् । आक्षेप-परिहारौ उक्तावेव । यच्चेह पूर्वं च क्वचिद्वाचनाविशेषेप्रतीतं नाम दृश्यते तद्देशान्तररूढितोऽवसेयम्।
अथ श्लाघातद्धितनामोच्यते- समणे इत्यादि। श्रमणादीनि नामानि श्लाघ्येष्वर्थेषु साध्वादिषुरूढानि, अतोऽस्मादेवसूत्रनिबन्धात् श्लाघार्थास्तद्धितास्तदुत्पत्तिहेतुभूतमर्थमात्रं
वा अत्रापि प्रतिपत्तव्यम्। 15 संयोगतद्धितनाम- राज्ञः स्वसु(श्वशु)र इत्यादि, अत्र सम्बन्धरूप: संयोगो गम्यते,
अत्रापि चास्मादेवज्ञापकात् तद्धितनामता, चित्रंच पूर्वगतंशब्दप्राभृतम्, अप्रत्यक्षं चन:, अत: कथमिह भावनास्वरूपमस्मादृशैः सम्यगवगम्यते? ।
समीपतद्धितनाम गिरिसमीपे नगरं गिरिनगरम्, अत्र अदूरभवश्च [पा०४।२।७०] इत्यण् न भवति, गिरिनगरमित्येव प्रतीतत्वात्। विदिशाया अदूरभवं नगरं वैदिशम्, अत्र तु 20 अदूरभवश्च[पा० ४।२।७०] इत्यण् भवत्येव, इत्थमेवरूढत्वादिति।
संयूथतद्धितनाम तरंगवतिकार इत्यादि, तद्धितनामता चेहोत्तरत्र च पूर्ववद्भावनीया। .. ऐश्वर्यतद्धितनाम- राईसरे इत्यादि, इह राजादिशब्दनिबन्धनमैश्वर्यमवगन्तव्यम्,
राजेश्वरादिशब्दार्थस्त्विहैवपूर्वं व्याख्यात एव। 25 अपत्यतद्धितनाम-तित्थयरमाता इत्यादि, तीर्थकरोऽपत्यं यस्या:सातीर्थकरमाता,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540