Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 503
________________ द्वितीयं परिशिष्टम् देवेन्द्र:- शक्र ईशानो वा, स यावत: क्षेत्रस्य प्रभवति तावान् देवेन्द्रावग्रहः । राजा-चक्रवर्तिप्रभृतिको महर्द्धिकः पृथ्वीपतिः, स यावत: षट्खण्डभरतादेः क्षेत्रस्य प्रभुत्वमनुभवति तावान् राजावग्रह: । गृहपति:सामान्यमण्डलाधिपतिः, तस्याप्याधिपत्यविषयभूतं यद् भूमिखण्डं स गृहपत्यवग्रहः । सागारिक:- शय्यातर:, तस्य सत्तायां यद् गृह-पाटकादिकं स सागारिकावग्रहः । साधर्मिका:- समानधर्माण: साधवः, तेषां सम्बन्धि सक्रोशयोजनादिकं यद् आभाव्यं क्षेत्रं स साधर्मिकावग्रहः । एष च पञ्चविधोऽवग्रहः । एतस्मिन् पञ्चविधेऽवग्रहे वक्ष्यमाणभेदैः प्ररूपिते सति ज्ञातव्यो विधिरित्युपस्कारः । य: यत्र देवेन्द्रादौ क्रमते अवतरति स तत्रावतारणीय इति सङ्ग्रहगाथासमासार्थः ॥६६९॥ साम्प्रतमेनामेव विवरीषुरमीषां पञ्चानां मध्ये कः कस्माद् बलीयान् ? इति जिज्ञासायां तावदिदमाह हेछिल्ला उवरिल्लेहिँ बाहिया न उ लहंति पाहन्नं । पुव्वाणुन्नाऽभिनवं, च चउसु भय पच्छिमेऽभिनवा ॥६७०॥ अधस्तना: देवेन्द्रावग्रहादय: उपरितनै: राजावग्रहादिभिर्यथाक्रमं बाधिता:, अत एव न तु नैव लभन्ते प्राधान्यम् उत्तमत्वम् । किमुक्तं भवति ?- राजावग्रहे राजैव प्रभवति न देवेन्द्रः, ततो देवेन्द्रेणानुज्ञातेऽप्यवग्रहे यदि राजा नानुजानीते तदा न कल्पते तदवग्रहे स्थातुम्; अथानुज्ञातो राज्ञा स्वविषयावग्रह: परं न गृहपतिना, ततस्तदवग्रहेऽपि न युज्यतेऽवस्थातुम्; अथानुमतं गृहपतिना स्वभूमिखण्डेऽवस्थानं परं न सागारिकेण स्वावग्रहे, ततोऽपि न कल्पते वस्तुम्; अथानुज्ञात: सागारिकेण स्वावग्रह: परं न साधर्मिकैः, तथापि न कल्पते इति; एवमुपरितनैरधस्तना बाध्यन्ते । तथा पूर्वामनुज्ञामभिनवां च चतुर्खवग्रहेषु भज विकल्पय, केषाञ्चित् साधूनां पूर्वानुज्ञा तदपरेषामभिनवेति भजना कार्येत्यर्थः । अथ केयं पूर्वानुज्ञा ? का वाऽभिनवानुज्ञा ? इति, उच्यतेइह योऽवग्रहः पुरातनसाधुभिरनुज्ञापित: स यत् पाश्चात्यैरेवमेव परिभुज्यते न भूयोऽनुज्ञाप्यते सा पूर्वानुज्ञा, यथाचिरन्तनसाधुभिर्देवेन्द्रो यदवग्रहमनुज्ञापित: सैव पूर्वानुज्ञा साम्प्रतकालीनसाधूनामप्यनुवर्तते न पुनर्भूयोऽप्यनुज्ञाप्यते। अभिनवानुज्ञा नाम यदा किलान्यो देवेन्द्रः समुत्पद्यते तदा तत्कालवर्तिभिः साधुभिर्यदसावभिनवोत्पन्नतयाऽवग्रहमनुज्ञाप्यते सा तेषां साधूनामभिनवानुज्ञा तदन्येषां तु पूर्वानुजैव। राजावग्रहेऽपि यो यदा चक्रवर्ती समुत्पद्यते स तत्कालवर्तिभिः साधुभिर्यदनुज्ञाप्यते सा तेषामभिनवानुज्ञा, तदपरेषां पूर्वानुज्ञा । एवं शेषनृपति-गृहपतीनामपि पूर्वा-ऽभिनवानुज्ञे भावनीये। सागारिकोऽपि प्रथमत उपागतैः साधुभिर्यदुपाश्रयमनुज्ञाप्यते सा तेषामभिनवानुज्ञा। तेषु साधुषु तत्र स्थितेषु यदन्ये साधव: समागत्य तदनुज्ञापितमवग्रहं परिभुञ्जते सा पूर्वानुज्ञा । तदेवं चतुर्ववग्रहेषु पूर्वा-ऽभिनवानुज्ञयोजना भाविता । तथा पश्चिमे साधर्मिकावग्रहेऽभिनवानुजैव भवति न पूर्वानुज्ञा । तथाहियो यदाऽवग्रहार्थं साधर्मिकमुपसम्पद्यते स सर्वोऽपि तदानीं तमनुज्ञाप्यैवावतिष्ठते नान्यथेत्यभिनवानुजैवैका ॥६७०॥" - इति बृहत्कल्पभाष्यस्य मलयगिरिसूरिविरचितायां वृत्तौ ।। ६. विवक्खिता जे२ ॥ ७. दवाणुपुव्वी ताइं परिणमयइ खंध जे२ ॥ ८. अखंधभावे जे२ विना ॥ ९. अतरणियतोय जे२ विना । अत्र ‘अतरतोयस्य, अतरणीयतोये' इत्युभयमपि समुद्रवाचित्वेन समानार्थकमेव॥ [चू० १५६ ] १.→6 एतच्चिह्नान्तर्गत: पाठो जे२ मध्ये एव वर्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540