Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 507
________________ तृतीयंपरिशिष्टम् ३८ सुखशीलतया असम्यग्योगश्चायोगतोऽप्यपर: - पापीयान् द्रष्टव्यः तत् तथेह यतितव्यमुपयोगतो यथाऽत: केवलं भवति - परमज्ञानमिति गाथार्थः ॥६९॥ परमश्चैष: - जिनवचनप्रयोग: हेतु: केवलज्ञानस्य अवन्ध्य इत्यर्थः कुत इत्याह - अन्यप्राणिनां मोहापनयनात् परार्थकरणात् तथा संवेगातिशयभावेन उभयोरपीति गाथार्थः ॥७०॥ एवं उववूहेउं अणुओगविसजणट्ठ उस्सग्गो । कालस्स पडिक्कमणं पवेअणं संघविहिदाणं ॥९७१॥ एवमुपबृंह्य तमाचार्यमनुयोगविसर्जनार्थमुत्सर्गः क्रियते कालस्य प्रतिक्रमणं तदन्वेव प्रवेदनं निरुद्धस्य सङ्घविधिदानं यथाशक्ति नियोगत इति गाथार्थः ॥७१॥ पच्छा य सोऽणुओगी पवयणकजम्मि निच्चमुज्जुत्तो । जोगाणं वक्खाणं करिज सिद्धंतविहिणा उ ॥९७२॥” इति आचार्यश्रीहरिभद्रसूरिविरचिते स्वोपज्ञवृत्तिसहिते पञ्चवस्तुके ॥ २. वि गुरू जे० ॥ ३. वंदणं संदाउं ह० ॥ ४. वंदिय एवं ह० ॥ [ हा० ३- ५ ] १. “निक्खेवेगट्ठ निरुत्त विही पवित्ती य केण वा कस्स । तद्दार भेय लक्खण तदरिह परिसा य सुत्तत्थो ॥१४९॥ [ कल्पभा० १४९ ] अनुयोगस्य निक्षेप: नामादिन्यासो वक्तव्यः । तदनन्तरं तस्यैकार्थिकानि । तदनु निरुक्तं वक्तव्यम् । तत: को विधिरनुयोगे कर्तव्ये इति विधिर्वक्तव्य: । तथा प्रवृत्ति: प्रसवोऽनुयोगस्य वक्तव्यः । तदनन्तरं केनाऽनुयोग: कर्त्तव्य इति वक्तव्यम् । ततः परं कस्य शास्त्रस्य कर्त्तव्य इति । तदनन्तरं तस्य-अनुयोगस्य द्वाराणिउपक्रमादीनि वक्तव्यानि, तत्र तेषामेव भेदः । ततः परं सूत्रस्य लक्षणम् । तदनन्तरं तस्य सूत्रस्य अर्हा:-योग्या:। ततः परं परिषत् । तत: सूत्रार्थः । एष द्वारगाथासङ्गेपार्थः, व्यासार्थस्तु प्रतिद्वारं वक्ष्यते ॥१४९॥ ''इति बृहत्कल्पभाष्यस्य मलयगिरिसूरिविरचितायां वृत्तौ ॥ [ हा० ६ ] १. तस्य सूत्रों जे१ पा० ॥ [ हा० ७-९ ] १.प्रज्ञापितं ह० ॥ [ हा० ११] १. चेल्लिकमादि ह० ॥ २. “अक्खे वराडए वा कढे पुत्थे य चित्तकम्मे य। सब्भावमसब्भावं ठवणाकायं वियाणाहि ॥१४३२॥ लिप्पगहत्थी हत्थित्ति एस सब्भाविया भवे ठवणा । होइ असब्भावे पुण हत्थित्ति निरागिई अक्खो ॥१४३३॥ [आवश्यकनि० १४३२-३३] __ व्याख्यायते- अक्खे वराडए, अक्षे-चन्दनके, वराटके वा-कपर्दके वा, काष्ठे-कुट्टिमे, पुस्ते वा वस्त्रकृते, चित्रकर्मणि वा प्रतीते, किमित्याह-सतो भाव: सद्भावः तत्स्थ इत्यर्थ: तमाश्रित्य, तथा असतोभाव: असद्भाव:, अतत्स्थ इत्यर्थः, तं चाश्रित्य, किम् ? स्थापनाकायं विजानाहीति गाथार्थः ॥१४३२॥ सामान्येन सद्भावासद्भावस्थापनोदाहरणमाह- लेप्पगहत्थी यदिह लेप्यकहस्ती हस्तीति स्थापनायां निवेश्यते एस सब्भाविया भवे ठवणत्ति एषा सद्भावस्थापना भवतीति, भवत्यसद्भावे पुनर्हस्तीति निराकृति:हस्त्याकृतिशून्य एव चतुरङ्गादाविति। तदेवं स्थापनाकायोऽपिभावनीय इति गाथार्थ: ॥१४३३॥"-आव० हारि०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540