________________
तृतीयंपरिशिष्टम्
३८ सुखशीलतया असम्यग्योगश्चायोगतोऽप्यपर: - पापीयान् द्रष्टव्यः तत् तथेह यतितव्यमुपयोगतो यथाऽत: केवलं भवति - परमज्ञानमिति गाथार्थः ॥६९॥ परमश्चैष: - जिनवचनप्रयोग: हेतु: केवलज्ञानस्य अवन्ध्य इत्यर्थः कुत इत्याह - अन्यप्राणिनां मोहापनयनात् परार्थकरणात् तथा संवेगातिशयभावेन उभयोरपीति गाथार्थः ॥७०॥
एवं उववूहेउं अणुओगविसजणट्ठ उस्सग्गो । कालस्स पडिक्कमणं पवेअणं संघविहिदाणं ॥९७१॥
एवमुपबृंह्य तमाचार्यमनुयोगविसर्जनार्थमुत्सर्गः क्रियते कालस्य प्रतिक्रमणं तदन्वेव प्रवेदनं निरुद्धस्य सङ्घविधिदानं यथाशक्ति नियोगत इति गाथार्थः ॥७१॥
पच्छा य सोऽणुओगी पवयणकजम्मि निच्चमुज्जुत्तो । जोगाणं वक्खाणं करिज सिद्धंतविहिणा उ ॥९७२॥” इति आचार्यश्रीहरिभद्रसूरिविरचिते स्वोपज्ञवृत्तिसहिते पञ्चवस्तुके ॥
२. वि गुरू जे० ॥ ३. वंदणं संदाउं ह० ॥ ४. वंदिय एवं ह० ॥ [ हा० ३- ५ ] १. “निक्खेवेगट्ठ निरुत्त विही पवित्ती य केण वा कस्स । तद्दार भेय लक्खण तदरिह परिसा य सुत्तत्थो ॥१४९॥
[ कल्पभा० १४९ ] अनुयोगस्य निक्षेप: नामादिन्यासो वक्तव्यः । तदनन्तरं तस्यैकार्थिकानि । तदनु निरुक्तं वक्तव्यम् । तत: को विधिरनुयोगे कर्तव्ये इति विधिर्वक्तव्य: । तथा प्रवृत्ति: प्रसवोऽनुयोगस्य वक्तव्यः । तदनन्तरं केनाऽनुयोग: कर्त्तव्य इति वक्तव्यम् । ततः परं कस्य शास्त्रस्य कर्त्तव्य इति । तदनन्तरं तस्य-अनुयोगस्य द्वाराणिउपक्रमादीनि वक्तव्यानि, तत्र तेषामेव भेदः । ततः परं सूत्रस्य लक्षणम् । तदनन्तरं तस्य सूत्रस्य अर्हा:-योग्या:। ततः परं परिषत् । तत: सूत्रार्थः । एष द्वारगाथासङ्गेपार्थः, व्यासार्थस्तु प्रतिद्वारं वक्ष्यते ॥१४९॥ ''इति बृहत्कल्पभाष्यस्य मलयगिरिसूरिविरचितायां वृत्तौ ॥
[ हा० ६ ] १. तस्य सूत्रों जे१ पा० ॥ [ हा० ७-९ ] १.प्रज्ञापितं ह० ॥
[ हा० ११] १. चेल्लिकमादि ह० ॥ २. “अक्खे वराडए वा कढे पुत्थे य चित्तकम्मे य। सब्भावमसब्भावं ठवणाकायं वियाणाहि ॥१४३२॥ लिप्पगहत्थी हत्थित्ति एस सब्भाविया भवे ठवणा । होइ असब्भावे पुण हत्थित्ति निरागिई अक्खो ॥१४३३॥
[आवश्यकनि० १४३२-३३] __ व्याख्यायते- अक्खे वराडए, अक्षे-चन्दनके, वराटके वा-कपर्दके वा, काष्ठे-कुट्टिमे, पुस्ते वा वस्त्रकृते, चित्रकर्मणि वा प्रतीते, किमित्याह-सतो भाव: सद्भावः तत्स्थ इत्यर्थ: तमाश्रित्य, तथा असतोभाव: असद्भाव:, अतत्स्थ इत्यर्थः, तं चाश्रित्य, किम् ? स्थापनाकायं विजानाहीति गाथार्थः ॥१४३२॥
सामान्येन सद्भावासद्भावस्थापनोदाहरणमाह- लेप्पगहत्थी यदिह लेप्यकहस्ती हस्तीति स्थापनायां निवेश्यते एस सब्भाविया भवे ठवणत्ति एषा सद्भावस्थापना भवतीति, भवत्यसद्भावे पुनर्हस्तीति निराकृति:हस्त्याकृतिशून्य एव चतुरङ्गादाविति। तदेवं स्थापनाकायोऽपिभावनीय इति गाथार्थ: ॥१४३३॥"-आव० हारि०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org