________________
तृतीयं परिशिष्टम् प्रत्युपेक्षते तदनन्तरं मुखवस्त्रिका द्वावपि, तथा च मुखवस्त्रिकया सशिर: पुन: कायं प्रत्युपेक्षते इति, तत: शिष्य: द्वादशावर्त्तवन्दनपुरस्सरमाह - सन्दिशत यूयं स्वाध्यायं प्रस्थापयामः प्रकर्षेण वर्तयाम इति गाथार्थः ॥५३॥ प्रस्थापय इत्यनुज्ञाते सति गुरुणा ततो द्वावपि गुरुशिष्यौ प्रस्थापयत, इति ततः तदनन्तरं गुरुर्निषीदति स्वनिषद्यायाम्, इतरोऽपि शिष्य: निवेदयति तं स्वाध्यायमिति गाथार्थः ॥५४॥ ततश्च द्वावपि गुरुशिष्यौ विधिना प्रवचनोक्तेन अनुयोगं प्रस्थापयत: उपयुक्तौ सन्तौ, वन्दित्वा तत: तदनन्तरं शिष्य: किमित्याह - अनुज्ञापयत्यनुयोगं गुरुणेति गाथार्थः ॥५५॥ अभिमन्त्र्य चाचार्यमन्त्रेणाक्षान् - चन्दनकान् वन्दते देवान् चैत्यानि ततो गुरुर्विधिना प्रवचनोक्तेन, तत: किमित्याह - स्थित एवोलस्थानेन नमस्कारं पञ्चमङ्गलकमाकर्षयति - ३ पठति, नन्दी च सम्पूर्णग्रन्थपद्धतिमिति गाथार्थः ॥५६॥ इतरोऽपि शिष्य: स्थितः सन्नूलस्थानेन शृणोति मुखवस्त्रिकया विधिगृहीतया स्थगितमुखकमल: सन्निति । स एव विशेष्यते - संविग्नो मोक्षार्थी उपयुक्तस्तत्रैकाग्रतया अनेन प्रकारेणात्यन्तं शुद्धपरिणाम: शुद्धाशय इति गाथार्थः ॥५७॥ तत आकृष्य पठित्वा नन्दी भणति गुरु: आचार्य: - अहमस्य साधोरुपस्थितस्यानुयोगम् - उक्तलक्षणमनुजानामि क्षमाश्रमणानां प्राक्तनऋषीणां हस्तेन, न स्वमनीषिकयेति गाथार्थः ॥५८॥ कथमित्याह - द्रव्यगुणपर्यायैः व्याख्याङ्गरूपैरेषोऽनुज्ञात इति । अत्रान्तरे वन्दित्वा शिष्य: सन्दिशत यूयं किं भणामीत्यादि वचनजातं यथैव सामायिके तथैव द्रष्टव्यमिति गाथार्थः ॥५९॥ यदत्र नानात्वं तदभिधातुमाह - नवरमत्र सम्यग् धारय आचारासेवनेनेत्यर्थः, अन्येभ्यस्तथा प्रवेदय सम्यगेवेति भणति, कदेत्याह - इच्छाम्यनुशास्तौ शिष्येण कृतायां सत्यामाचार्य इति गाथार्थः ॥६०॥ त्रिप्रदक्षिणीकृते सति शिष्येण तत उपविशति गुरु:, अत्रान्तरेऽनुज्ञाकायोत्सर्गः, कृते च कायोत्सर्गे तदनु सनिषद्ये गुरौ त्रिप्रदक्षिणं वन्दनं भावसारं शिष्यस्य व्यापारोऽयमिति गाथार्थः ॥६१॥ उपविशति गुरुसमीपे तन्निषद्यायामेव दक्षिणपार्श्वे शिष्यः, स: गुरुः कथयति तस्य त्रीन् वारान्, किमित्याह - आचार्यपारम्पर्येणागतानि पुस्तकादिष्वलिखितानि तत्र मन्त्रपदानि विधिना सर्वार्थसाधकानीति गाथार्थः ॥६२॥ तथा - ददाति त्रीन् मुष्टीनाचार्योऽक्षाणां चन्दनकानां सुरभिगन्धसहितानां वर्द्धमानान् प्रति मुष्टिं सोऽपि च शिष्य: उपयुक्तः सन् गृह्णाति विधिनेति गाथार्थः ॥६३॥ एवं व्याख्याङ्गरूपानक्षान् दत्त्वा उत्तिष्ठति निषद्याया: आचार्य अत्रान्तरे, तत्रोपविशति शिष्योऽनुयोगी ततो वन्दते गुरुस्तं शिष्यसहित: शेषसाधुभिः सन्निहितैरिति गाथार्थः ॥६४॥ भणति च कुरु व्याख्यानमिति तमभिनवाचार्यम्, तत्र स्थित एव ततोऽसौ करोति तद्व्याख्यानमिति नन्द्यादि यथाशक्त्येति तद्विषयमित्यर्थः, पर्षदं वा ज्ञात्वा योग्यमन्यदपीति गाथार्थः ॥६५॥ आचार्यनिषद्यायामुपविशनमभिनवाचार्यस्य वन्दनं च तथा गुरोः प्रथममेवाचार्यस्य तुल्यगुणख्यापनार्थं लोकानां न तदा दुष्टं द्वयोरपि शिष्याचार्ययो: या(जी)तमेतदिति गाथार्थः ॥६६॥ वन्दंते तत: साधवः व्याख्यानसमनन्तरम्, उत्तिष्ठति च तत: पुनर्निषद्याया: अभिनवाचार्यः, तत्र निषद्यायां निषीदति च गुरुौल:, उपबृंहणमत्रान्तरे प्रथमम् अन्ये तु - व्याख्यानादाविति गाथार्थः ॥६७॥ धण्णो सि तमं णायं जिणवयणं जेण सव्वदक्खहरं । ता सम्ममिअंभवया पउंजियव्वं सया कालं ॥९६८॥ इहरा उ रिणं परमं असम्मजोगो अजोगओ अवरो । ता तह इह जइअव्वं जह एत्तो केवलं होइ ॥९६९॥ परमो अ एस हेऊ केवलनाणस्स अन्नपाणीणं । मोहावणयणओ तह संवेगाइसयभावेण ॥९७०॥
धन्योऽसि त्वं सम्यग् ज्ञातं जिनवचनं येन भवता सर्वदुःखहरं मोक्षहेतुः तत्सम्यगिदं भवता - प्रवचननीत्या प्रयोक्तव्यं सदा सर्वकालमनवरतमिति गाथार्थः ॥६८॥ इतरथा ऋणं परममेतत् सदाऽप्रयोगे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org