Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 506
________________ तृतीयं परिशिष्टम् प्रत्युपेक्षते तदनन्तरं मुखवस्त्रिका द्वावपि, तथा च मुखवस्त्रिकया सशिर: पुन: कायं प्रत्युपेक्षते इति, तत: शिष्य: द्वादशावर्त्तवन्दनपुरस्सरमाह - सन्दिशत यूयं स्वाध्यायं प्रस्थापयामः प्रकर्षेण वर्तयाम इति गाथार्थः ॥५३॥ प्रस्थापय इत्यनुज्ञाते सति गुरुणा ततो द्वावपि गुरुशिष्यौ प्रस्थापयत, इति ततः तदनन्तरं गुरुर्निषीदति स्वनिषद्यायाम्, इतरोऽपि शिष्य: निवेदयति तं स्वाध्यायमिति गाथार्थः ॥५४॥ ततश्च द्वावपि गुरुशिष्यौ विधिना प्रवचनोक्तेन अनुयोगं प्रस्थापयत: उपयुक्तौ सन्तौ, वन्दित्वा तत: तदनन्तरं शिष्य: किमित्याह - अनुज्ञापयत्यनुयोगं गुरुणेति गाथार्थः ॥५५॥ अभिमन्त्र्य चाचार्यमन्त्रेणाक्षान् - चन्दनकान् वन्दते देवान् चैत्यानि ततो गुरुर्विधिना प्रवचनोक्तेन, तत: किमित्याह - स्थित एवोलस्थानेन नमस्कारं पञ्चमङ्गलकमाकर्षयति - ३ पठति, नन्दी च सम्पूर्णग्रन्थपद्धतिमिति गाथार्थः ॥५६॥ इतरोऽपि शिष्य: स्थितः सन्नूलस्थानेन शृणोति मुखवस्त्रिकया विधिगृहीतया स्थगितमुखकमल: सन्निति । स एव विशेष्यते - संविग्नो मोक्षार्थी उपयुक्तस्तत्रैकाग्रतया अनेन प्रकारेणात्यन्तं शुद्धपरिणाम: शुद्धाशय इति गाथार्थः ॥५७॥ तत आकृष्य पठित्वा नन्दी भणति गुरु: आचार्य: - अहमस्य साधोरुपस्थितस्यानुयोगम् - उक्तलक्षणमनुजानामि क्षमाश्रमणानां प्राक्तनऋषीणां हस्तेन, न स्वमनीषिकयेति गाथार्थः ॥५८॥ कथमित्याह - द्रव्यगुणपर्यायैः व्याख्याङ्गरूपैरेषोऽनुज्ञात इति । अत्रान्तरे वन्दित्वा शिष्य: सन्दिशत यूयं किं भणामीत्यादि वचनजातं यथैव सामायिके तथैव द्रष्टव्यमिति गाथार्थः ॥५९॥ यदत्र नानात्वं तदभिधातुमाह - नवरमत्र सम्यग् धारय आचारासेवनेनेत्यर्थः, अन्येभ्यस्तथा प्रवेदय सम्यगेवेति भणति, कदेत्याह - इच्छाम्यनुशास्तौ शिष्येण कृतायां सत्यामाचार्य इति गाथार्थः ॥६०॥ त्रिप्रदक्षिणीकृते सति शिष्येण तत उपविशति गुरु:, अत्रान्तरेऽनुज्ञाकायोत्सर्गः, कृते च कायोत्सर्गे तदनु सनिषद्ये गुरौ त्रिप्रदक्षिणं वन्दनं भावसारं शिष्यस्य व्यापारोऽयमिति गाथार्थः ॥६१॥ उपविशति गुरुसमीपे तन्निषद्यायामेव दक्षिणपार्श्वे शिष्यः, स: गुरुः कथयति तस्य त्रीन् वारान्, किमित्याह - आचार्यपारम्पर्येणागतानि पुस्तकादिष्वलिखितानि तत्र मन्त्रपदानि विधिना सर्वार्थसाधकानीति गाथार्थः ॥६२॥ तथा - ददाति त्रीन् मुष्टीनाचार्योऽक्षाणां चन्दनकानां सुरभिगन्धसहितानां वर्द्धमानान् प्रति मुष्टिं सोऽपि च शिष्य: उपयुक्तः सन् गृह्णाति विधिनेति गाथार्थः ॥६३॥ एवं व्याख्याङ्गरूपानक्षान् दत्त्वा उत्तिष्ठति निषद्याया: आचार्य अत्रान्तरे, तत्रोपविशति शिष्योऽनुयोगी ततो वन्दते गुरुस्तं शिष्यसहित: शेषसाधुभिः सन्निहितैरिति गाथार्थः ॥६४॥ भणति च कुरु व्याख्यानमिति तमभिनवाचार्यम्, तत्र स्थित एव ततोऽसौ करोति तद्व्याख्यानमिति नन्द्यादि यथाशक्त्येति तद्विषयमित्यर्थः, पर्षदं वा ज्ञात्वा योग्यमन्यदपीति गाथार्थः ॥६५॥ आचार्यनिषद्यायामुपविशनमभिनवाचार्यस्य वन्दनं च तथा गुरोः प्रथममेवाचार्यस्य तुल्यगुणख्यापनार्थं लोकानां न तदा दुष्टं द्वयोरपि शिष्याचार्ययो: या(जी)तमेतदिति गाथार्थः ॥६६॥ वन्दंते तत: साधवः व्याख्यानसमनन्तरम्, उत्तिष्ठति च तत: पुनर्निषद्याया: अभिनवाचार्यः, तत्र निषद्यायां निषीदति च गुरुौल:, उपबृंहणमत्रान्तरे प्रथमम् अन्ये तु - व्याख्यानादाविति गाथार्थः ॥६७॥ धण्णो सि तमं णायं जिणवयणं जेण सव्वदक्खहरं । ता सम्ममिअंभवया पउंजियव्वं सया कालं ॥९६८॥ इहरा उ रिणं परमं असम्मजोगो अजोगओ अवरो । ता तह इह जइअव्वं जह एत्तो केवलं होइ ॥९६९॥ परमो अ एस हेऊ केवलनाणस्स अन्नपाणीणं । मोहावणयणओ तह संवेगाइसयभावेण ॥९७०॥ धन्योऽसि त्वं सम्यग् ज्ञातं जिनवचनं येन भवता सर्वदुःखहरं मोक्षहेतुः तत्सम्यगिदं भवता - प्रवचननीत्या प्रयोक्तव्यं सदा सर्वकालमनवरतमिति गाथार्थः ॥६८॥ इतरथा ऋणं परममेतत् सदाऽप्रयोगे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540